४ कोटिरुद्रसंहिता, अध्याय 2: कोटिरुद्रसंहितायां शिवलिङ्गमाहात्म्यवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.२. द्वितीयोऽध्यायः ।
शिवलिङ्गमाहात्म्यवर्णनम् ।
सूत उवाच ।
गङ्गातीरे सुप्रसिद्धा काशी खलु विमुक्तिदा ।
सा हि लिङ्गमयी ज्ञेया शिववासस्थली स्मृता ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
लिङ्गं तत्रैव मुख्यं च सम्प्रोक्तमविमुक्तकम् ।
कृत्तिवासेश्वरः साक्षात्तत्तुल्यो वृद्धकालकः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तिलभाण्डेश्वरश्चैव दशाश्वमेध एव च ।
गङ्गासागरसंयोगे सङ्गमेश इति स्मृतः ॥ ३॥
भूतेश्वरो यः सम्प्रोक्तो भक्तसर्वार्थदः सदा ।
नारीश्वर इति ख्यातः कौशिक्याः स समीपगः ॥ ४॥
वर्तते गण्डकीतीरे बटुकेश्वर एव सः ।
पूरेश्वर इति ख्यातः फल्गुतीरे सुखप्रदः ॥ ५॥
सिद्धनाथेश्वरश्चैव दर्शनात्सिद्धिदो नृणाम् ।
दूरेश्वर इति ख्यातः पत्तने चोत्तरे तथा ॥ ६॥
शृङ्गेश्वरश्च नाम्ना वै वैद्यनाथस्तथैव च ।
जप्येश्वरस्तथा ख्यातो यो दधीचिरणस्थले ॥ ७॥
गोपेश्वरः समाख्यातो रङ्गेश्वर इति स्मृतः ।
वामेश्वरश्च नागेशः कामेशो विमलेश्वरः ॥ ८॥
व्यासेश्वरश्च विख्यातः सुकेशश्च तथैव हि ।
भाण्डेश्वरश्च विख्यातो हुङ्कारेशस्तथैव च ॥ ९॥
सुरोचनश्च विख्यातो भूतेश्वर इति स्वयम् ।
सङ्गमेशस्तथा प्रोक्तो महापातकनाशनः ॥ १०॥
ततश्च तप्तकातीरे कुमारेश्वर एव च ।
सिद्धेश्वरश्च विख्यातः सेनेशश्च तथा स्मृतः ॥ ११॥
रामेश्वर इति प्रोक्तो कुम्भेशश्च परो मतः ।
नन्दीश्वरश्च पुञ्जेशः पूर्णायां पूर्णकस्तथा ॥ १२॥
ब्रह्मेश्वरः प्रयागे च ब्रह्मणा स्थापितः पुरा ।
दशाश्वमेधतीर्थे हि चतुर्वर्गफलप्रदः ॥ १३॥
तथा सोमेश्वरस्तत्र सर्वापद्विनिवारकः ।
भारद्वाजेश्वरश्चैव ब्रह्मवर्चःप्रवर्द्धकः ॥ १४॥
शूलटङ्केश्वरः साक्षात्कामनाप्रद ईरितः ।
माधवेशश्च तत्रैव भक्तरक्षाविधायकः ॥ १५॥
नागेशाख्यः प्रसिद्धो हि साकेतनगरे द्विजाः ।
सूर्यवंशोद्भवानां च विशेषेण सुखप्रदः ॥ १६॥
पुरुषोत्तमपुर्यां तु भुवनेशः सुसिद्धिदः ।
लोकेशश्च महालिङ्गः सर्वानन्दप्रदायकः ॥ १७॥
कामेश्वरः शम्भुलिङ्गो गङ्गेशः परशुद्धिकृत् ।
शुक्रेश्वरः शुक्रसिद्धो लोकानां हितकाम्यया ॥ १८॥
तथा वटेश्वरः ख्यातः सर्वकामफलप्रदः ।
सिन्धुतीरे कपालेशो वक्त्रेशः सर्वपापहा ॥ १९॥
धौतपापेश्वरः साक्षादंशेन परमेश्वरः ।
भीमेश्वर इति प्रोक्तः सूर्येश्वर इति स्मृतः ॥ २०॥
नन्दीश्वरश्च विज्ञेयो ज्ञानदो लोकपूजितः ।
नाकेश्वरो महापुण्यस्तथा रामेश्वरः स्मृतः ॥ २१॥
विमलेश्वरनामा वै कण्टकेश्वर एव च ।
पूर्वसागरसंयोगे धर्तुकेशस्तथैव च ॥ २२॥
चन्द्रेश्वरश्च विज्ञेयश्चन्द्रकान्तिफलप्रदः ।
सर्वकामप्रदश्चैव सिद्धेश्वर इति स्मृतः ॥ २३॥
बिल्वेश्वरश्च विख्यातश्चान्धकेशस्तथैव च ।
यत्र वा ह्यन्धको दैत्यः शङ्करेण हतः पुरा ॥ २४॥
अयं स्वरूपमंशेन धृत्वा शम्भुः पुनः स्थितः ।
शरणेश्वरविख्यातो लोकानां सुखदः सदा ॥ २५॥
कर्दमेशः परः प्रोक्तः कोटीशश्चार्बुदाचले ।
अचलेशश्च विख्यातो लोकानां सुखदः सदा ॥ २६॥
नागेश्वरस्तु कौशिक्यास्तीरे तिष्ठति नित्यशः ।
अनन्तेश्वरसंज्ञश्च कल्याणशुभभाजनः ॥ २७॥