४ कोटिरुद्रसंहिता, अध्याय 1: कोटिरुद्रसंहितायां ज्योतिर्लिङ्गतदुपलिंङ्गमाहात्म्यवर्णनं, Verse 1
श्रीशिवमहापुराणम् ४ कोटिरुद्रसंहिता ॥
श्रीगणेशाय नमः ॥
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रीशिवमहापुराणम् ४ कोटिरुद्रसंहिता ॥
श्रीगणेशाय नमः ॥
४.१. प्रथमोऽध्यायः ।
ज्योतिर्लिङ्गतदुपलिंङ्गमाहात्म्यवर्णनम् ।
यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो ।
यस्याहुः करुणाकटाक्षविभवौ स्वर्गापवर्गाभिधौ ।
प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्ति यं योगिन- स्तस्मै शैलसुताञ्चितार्धवपुषे शश्वन्नमस्तेजसे ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
कृपाललितवीक्षणं स्मितमनोज्ञवक्त्राम्बुजं शशाङ्ककलयोज्ज्वलं शमितघोरतापत्रयम् ।
करोतु किमपि स्फुरत्परमसौख्यसच्चिद्वपु- र्धराधरसुताभुजोद्वलयितं महो मङ्गलम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
चतुर्थी कोटिरुद्रसंहिता
ऋषय ऊचुः सम्यगुक्तं त्वया सूत लोकानां हितकाम्यया ।
शिवावतारमाहात्म्यं नानाख्यानसमन्वितम् ॥ ३॥
पुनश्च कथ्यतां तात शिवमाहात्म्यमुत्तमम् ।
लिङ्गसम्बन्धि सुप्रीत्या धन्यस्त्वं शैवसत्तम ॥ ४॥
शृण्वन्तस्त्वन्मुखाम्भोजान्न तृप्ताः स्मो वयं प्रभो ।
शैवं यशोऽमृतं रम्यं तदेव पुनरुच्यताम् ॥ ५॥
पृथिव्यां यानि लिङ्गानि तीर्थे तीर्थे शुभानि हि ।
अन्यत्र वा स्थले यानि प्रसिद्धानि स्थितानि वै ॥ ६॥
तानि तानि च दिव्यानि लिङ्गानि परमेशितुः ।
व्यासशिष्य समाचक्ष्व लोकानां हितकाम्यया ॥ ७॥
सूत उवाच ।
साधु पृष्टमृषिश्रेष्ठा लोकानां हितकाम्यया ।
कथयामि भवत्स्नेहात्तानि सङ्क्षेपतो द्विजाः ॥ ८॥
सर्वेषां शिवलिङ्गानां मुने सङ्ख्या न विद्यते ।
सर्वा लिङ्गमयी भूमिः सर्वं लिङ्गमयं जगत् ॥ ९॥
लिङ्गयुक्तानि तीर्थानि सर्वं लिङ्गे प्रतिष्ठितम् ।
सङ्ख्या न विद्यते तेषां तानि किञ्चिद्ब्रवीम्यहम् ॥ १०॥
यत्किञ्चिद् दृश्यते दृश्यं वर्ण्यते स्मर्यते च यत् ।
तत्सर्वं शिवरूपं हि नान्यदस्तीति किञ्चन ॥ ११॥
तथापि श्रूयतां प्रीत्या कथयामि यथाश्रुतम् ।
लिङ्गानि च ऋषिश्रेष्ठाः पृथिव्यां यानि तानि ह ॥ १२॥
पाताले चापि वर्तन्ते स्वर्गे चापि तथा भुवि ।
सर्वत्र पूज्यते शम्भुः स देवासुरमानुषैः ॥ १३॥
त्रिजगच्छम्भुना व्याप्तं सदेवासुरमानुषम् ।
अनुग्रहाय लोकानां लिङ्गरूपेण सत्तमाः ॥ १४॥
अनुग्रहाय लोकानां लिङ्गानि च महेश्वरः ।
दधाति विविधान्यत्र तीर्थे चान्यस्थले तथा ॥ १५॥
यत्र यत्र यदा शम्भुर्भक्त्या भक्तैश्च संस्मृतः ।
तत्र तत्रावतीर्याथ कार्यं कृत्वा स्थितस्तदा ॥ १६॥
लोकानामुपकारार्थं स्वलिङ्गं चाप्यकल्पयत् ।
तल्लिङ्गं पूजयित्वा तु सिद्धिं समधिगच्छति ॥ १७॥
पृथिव्यां यानि लिङ्गानि तेषां सङ्ख्या न विद्यते ।
तथापि च प्रधानानि कथ्यन्ते च मया द्विजाः ॥ १८॥
प्रधानेषु च यानीह मुख्यानि प्रवदाम्यहम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ॥ १९॥
ज्योतिर्लिङ्गानि यानीह मुख्यमुख्यानि सत्तम ।
तान्यहं कथयाम्यद्य श्रुत्वा पापं व्यपोहति ॥ २०॥
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोङ्कारे परमेश्वरम् ॥ २१॥
केदारं हिमवत्पृष्ठे डाकिन्यां भीमशङ्करम् ।
वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥ २२॥
वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।
सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ॥ २३॥
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।
सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत् ॥ २४॥
यं यं काममपेक्ष्यैव पठिष्यन्ति नरोत्तमाः ।
प्राप्स्यन्ति कामं तं तं हि परत्रेह मुनीश्वराः ॥ २५॥
ये निष्कामतया तानि पठिष्यन्ति शुभाशयाः ।
तेषां च जननीगर्भे वासो नैव भविष्यति ॥ २६॥
एतेषां पूजनेनैव वर्णानां दुःखनाशनम् ।
इहलोके परत्रापि मुक्तिर्भवति निश्चितम् ॥ २७॥