Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं

Containing 118 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 1

विद्येश्वरसंहिता १.२४. चतुर्विंशोऽध्यायः ।

भस्ममाहात्मम् ।

सूत उवाच ।

द्विविधं भस्म सम्प्रोक्तं सर्वमङ्गलदं परम् ।

तत्प्रकारमहं वक्ष्ये सावधानतया श‍ृणु ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 2

एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम् ।

महाभस्म इति प्रोक्तं भस्म नानाविधं परम् ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 3

तद्भस्म त्रिविधं प्रोक्तं श्रौतं स्मार्तं च लौकिकम् ।

भस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम् ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 4

श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ।

अन्येषामपि सर्वेषामपरं भस्म लौकिकम् ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 5

धारणं मन्त्रतः प्रोक्तं द्विजानां मुनिपुङ्गवैः ।

केवलं धारणं ज्ञेयमन्येषां मन्त्रवर्जितम् ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 6

आग्नेयमुच्यते भस्म दग्धगोमयसम्भवम् ।

तदपि द्रव्यमित्युक्तं त्रिपुण्ड्रस्य महामुने ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 7

अग्निहोत्रोत्थितं भस्म सङ्ग्राह्यं वा मनीषिभिः ।

अन्ययज्ञोत्थितं वापि त्रिपुण्ड्रस्य च धारणे ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 8

अग्निरित्यादिभिर्मन्त्रैर्जाबालोपनिषद्गतैः ।

सप्तभिर्धूलनं कार्यं भस्मना सजलेन च ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 9

वर्णानामाश्रमाणां च मन्त्रतोऽमन्त्रतोऽपि च ।

त्रिपुण्ड्रोद्धूलनं प्रोक्तं जाबालैरादरेण च ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 10

भस्मनोद्धूलनं चैव धृतं तिर्यक् त्रिपुण्ड्रकम् ।

प्रमादादपि मोक्षार्थी न त्यजेदिति वै श्रुतिः ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 11

शिवेन विष्णुना चैव धृतं तिर्यक् त्रिपुण्ड्रकम् ।

उमादेव्या च लक्ष्म्या च स्तुतमन्यैश्च नित्यशः ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 12

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपि च सङ्करैः ।

अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 13

उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ।

तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 14

उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ।

तेषां नास्ति विनिर्मुक्तिः संसाराज्जन्मकोटिभिः ॥ १४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 15

उद्धूलनं त्रिपुण्ड्रञ्च श्रद्धया नाचरन्ति ये ।

तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि ॥ १५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 16

उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ।

ते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः ॥ १६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 17

उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ।

तेषामाचरितं सर्वं विपरीतफलाय हि ॥ १७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 18

महापातकयुक्तानां जन्तूनां सर्वविद्विषाम् ।

त्रिपुण्ड्रोद्धूलनद्वेषो जायते सुदृढं मुने ॥ १८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 19

शिवाग्निकार्यं यः कृत्वा कुर्यात्त्रियायुषात्मवित् ।

मुच्यते सर्वपापैस्तु स्पृष्टेन भस्मना नरः ॥ १९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 20

सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ।

सर्वपापविनिर्मुक्तः शिवेन सह मोदते ॥ २०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 21

सितेन भस्मना कुर्याल्ललाटे तु त्रिपुण्ड्रकम् ।

योऽसावनादिभूतान्हि लोकानाप्तोऽमृतो भवेत् ॥ २१॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 22

अकृत्वा भस्मना स्नानं न जपेद्वै षडक्षरम् ।

त्रिपुण्ड्रं च रचित्वा तु विधिना भस्मना जपेत् ॥ २२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 23

अदयो वाधमो वापि सर्वपापान्वितोऽपि वा ।

उपपापान्वितो वापि मूर्खो वा पतितोऽपि वा ॥ २३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 24

यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः ।

सर्वतीर्थैश्च क्रतुभिः सान्निध्यं क्रियते सदा ॥ २४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 25

त्रिपुण्ड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ।

पापान्वितोऽपि शुद्धात्मा किं पुनः श्रद्धया युतः ॥ २५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 26

यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ।

गतो यदृच्छयाद्यापि तस्मिंस्तीर्थाः समागताः ॥ २६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 27

बहुनात्र किमुक्तेन धार्यं भस्म सदा बुधैः ।

लिङ्गार्चनं सदा कार्यं जप्यो मन्त्रः षडक्षरः ॥ २७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 18: विद्येश्वरसंहितायां भस्मधारणवर्णनं, Verse 28

ब्रह्मणा विष्णुना वापि रुद्रेण मुनिभिः सुरैः ।

भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् ॥ २८॥