Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं

Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 1

तृतीयायां शतरुद्रसंहितायां ३.२७. सप्तविंशोऽध्यायः ।

द्विजेशाख्यशिवावतारवर्णनम् ।

नन्दीश्वर उवाच ।

श‍ृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ।

द्विजेश्वरावतारं च सशिवं सुखदं सताम् ॥ १॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 2

यः पूर्वं वर्णितस्तात भद्रायुर्नृपसत्तमः ।

यस्मिन्नृषभरूपेणानुग्रहं कृतवाञ्छिवः ॥ २॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 3

तद्धर्मस्य परीक्षार्थं पुनराविर्बभूव सः ।

द्विजेश्वरस्वरूपेण तदेव कथयाम्यहम् ॥ ३॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 4

ऋषभस्य प्रभावेण शत्रूञ्जित्वा रणे प्रभुः ।

प्राप्तसिंहासनस्तात भद्रायुः सम्बभूव ह ॥ ४॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 5

चन्द्राङ्गदस्य तनया सीमन्तिन्याः शुभाङ्गजा ।

पत्नी तस्याभवद् ब्रह्मन्सुसाध्वी कीर्तिमालिनी ॥ ५॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 6

स भद्रायुः कदाचित्स्वप्रियया गहनं वनम् ।

प्राविशत्संविहारार्थं वसन्तसमये मुने ॥ ६॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 7

अथ तस्मिन्वने रम्ये विजहार स भूपतिः ।

शरणागतपालिन्या तया स्वप्रियया सह ॥ ७॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 8

अथ तद्धर्मदृढतां प्रतीक्षन्परमेश्वरः ।

लीलां चकार तत्रैव शिवया सह शङ्करः ॥ ८॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 9

शिवा शिवश्च भूत्वोभौ तद्वने द्विजदम्पती ।

व्याघ्रं मायामयं कृत्वाविर्भूतौ निजलीलया ॥ ९॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 10

अथाविदूरे तस्यैव द्रवन्तौ भयविह्वलौ ।

अन्वीयमानौ व्याघ्रेण रुदन्तौ तौ बभूवतुः ॥ १०॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 11

अथ विद्धौ च तौ तात भद्रायुः स महीपतिः ।

ददर्श क्रन्दमानौ हि शरण्यः क्षत्रियर्षभः ॥ ११॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 12

अथ तौ मुनिशार्दूल स्वमायाद्विजदम्पती ।

भद्रायुषं महाराजमूचतुर्भयविह्वलौ ॥ १२॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 13

द्विजदम्पती ऊचतुः ।

पाहि पाहि महाराज नावुभौ धर्मवित्तम ।

एष आयाति शार्दूलो जग्धुमावां महाप्रभो ॥ १३॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 14

एष हिंस्रः कालसमः सर्वप्राणिभयङ्करः ।

यावन्न खादति प्राप्य तावन्नौ रक्ष धर्मवित् ॥ १४॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 15

नन्दीश्वर उवाच ।

इत्थमाक्रन्दितं श्रुत्वा तयोश्च नृपतीश्वरः ।

अति शीघ्रं महावीरः स यावद्धनुराददे ॥ १५॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 16

तावदभ्येत्य शार्दूलः त्वरमाणोऽतिमायिकः ।

स तस्य द्विजवर्यस्य मध्ये जग्राह तां वधूम् ॥ १६॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 17

हे नाथ नाथ हे कान्त हा शम्भो हा जगद्गुरो ।

इति रोरूयमानां तां व्याघ्रो जग्रास भीषणः ॥ १७॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 18

तावत्स राजा निशितैर्भल्लैर्व्याघ्रमताडयत् ।

न स तैर्विव्यथे किञ्चिद्गिरीन्द्र इव वृष्टिभिः ॥ १८॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 19

स शार्दूलो महासत्त्वो राज्ञः स्वैरकृतव्यथः ।

बलादाकृष्य तां नारीमपाक्रमत सत्वरः ॥ १९॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 20

व्याघ्रेणापहृतां नारीं वीक्ष्य विप्रोऽतिविस्मितः ।

लौकिकीं गतिमाश्रित्य रुरोदाति मुहुर्मुहुः ॥ २०॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 21

रुदित्वा चिरकालं च स विप्रो माययेश्वरः ।

भद्रायुषं महीपालं प्रोवाच मदहारकः ॥ २१॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 22

द्विजेश्वर उवाच ।

राजन् क्व ते महास्त्राणि क्व ते त्राणं महद्धनुः ।

क्व ते द्वादशसाहस्रमहानागयुतं बलम् ॥ २२॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 23

किं ते खड्गेन शङ्खेन किं ते मन्त्रास्त्रविद्यया ।

किं सत्त्वेन महास्त्राणां किं प्रभावेण भूयसा ॥ २३॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 24

तत्सर्वं विफलं जातं यच्चान्यत्त्वयि तिष्ठति ।

यस्त्वं वनौकसां घातं न निवारयितुं क्षमः ॥ २४॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 25

क्षत्रस्यायं परो धर्मो क्षताच्च परिरक्षणम् ।

तस्मिन्कुलोचिते धर्मे नष्टे त्वज्जीवितेन किम् ॥ २५॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 26

आर्तानां शरणाप्तानां त्राणं कुर्वन्ति पार्थिवाः ।

प्राणैरर्थैश्च धर्मज्ञास्तद्विना च मृतोपमाः ॥ २६॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 22: शतरुद्रसंहितायां द्विजेशाख्यशिवावतारवर्णनं, Verse 27

आर्तत्राणविहीनानां जीवितान्मरणं वरम् ।

धनिनां दानहीनानां गार्हस्थ्याद्भिक्षुता वरम् ॥ २७॥