Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 1

तृतीयायां शतरुद्रसंहितायां ३.२३. त्रयोविंशोऽध्यायः ।

वृषेश्वरसंज्ञकशिवावतारवर्णनम् ।

नन्दीश्वर उवाच ।

ततो वृषभरूपेण गर्जमानः पिनाकधृक् ।

प्रविष्टो विवरं तत्र निनदन्भैरवान् रवान् ॥ १॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 2

निपेतुस्तस्य निनदैः पुराणि नगराणि च ।

प्रकम्पो हि बभूवाथ सर्वेषां पुरवासिनाम् ॥ २॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 3

ततो वृषो हरेः पुत्रान्सङ्ग्रामोद्यतकार्मुकान् ।

शिवमायाविमूढात्ममहाबलपराक्रमान् ॥ ३॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 4

हरिपुत्रास्ततस्तेऽथ प्राकुप्यन्मुनिसत्तम ।

प्रदुद्रुवुः प्रगर्ज्योच्चैर्वीराः शङ्करसम्मुखम् ॥ ४॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 5

आयातांस्तान्हरेः पुत्रान् रुद्रो वृषभरूपधृक् ।

प्राकुप्यद्विष्णुपुत्रांश्च खुरैः श‍ृङ्गैर्व्यदारयत् ॥ ५॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 6

विदारिताङ्गा रुद्रेण सर्वे हरिसुताश्च ते ।

नष्टा द्रुतं सन्बभूवुर्गतप्राणा विचेतसः ॥ ६॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 7

हतेषु तेषु पुत्रेषु विष्णुर्बलवतां वरः ।

निष्क्रम्याथ प्रगर्ज्योच्चैर्ययौ शीघ्रं हरान्तिकम् ॥ ७॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 8

दृष्ट्वा रुद्रं प्रव्रजन्तं हतविष्णुसुतं वृषम् ।

शरैः सन्ताडयामास दिव्यैरस्त्रैश्च केशवः ॥ ८॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 9

ततः क्रुद्धो महादेवो वृषरूपी मदाबलः ।

अस्त्राणि तानि विष्णोश्च जग्रास गिरिगोचरः ॥ ९॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 10

अथ कृत्वा महाकोपं वृषात्मा स महेश्वरः ।

विननाद महाघोरं कम्पयंस्त्रिजगन्मुने ॥ १०॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 11

तत उत्प्लुत्य तरसा खुरैः श‍ृङ्गैर्व्यदारयत् ।

विष्णुं क्रोधाकुलं मूढमजानन्तं निजं हरिम् ॥ ११॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 12

ततः स शिथिलात्मा हि व्यथिताङ्गो बभूव ह ।

तत्प्रहारमसह्याशु हरिर्मायाविमोहितः ॥ १२॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 13

गतगर्वो हरिश्चैव विचेता गतचेतनः ।

ज्ञातवान् परमेशानं विहरन्तं वृषात्मना ॥ १३॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 14

अथ विज्ञाय गौरीशमागतं वृषरूपतः ।

प्राह गम्भीरया वाचा नतस्कन्धः कृताञ्जलिः ॥ १४॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 15

हरिरुवाच ।

देवदेव महादेव करुणासागर प्रभो ।

मायया ते महेशान मोहितोऽहं विमूढधीः ॥ १५॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 16

कृतं युद्धं त्वयेशेन स्वनाथेन मया प्रभो ।

कृपां कृत्वा मयि स्वामिन्सोऽपराधो हि सह्यताम् ॥ १६॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 17

नन्दीश्वर उवाच ।

तस्य तद्वचनं श्रुत्वा हरेर्दीनतया मुने ।

भगवान् शङ्करः प्राह रमेशं भक्तवत्सलः ॥ १७॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 18

हे विष्णो हे महाबुद्धे कथं मां ज्ञातवान्न हि ।

युद्धं कृतं कृतस्तेऽद्य ज्ञानं सर्वं च विस्मृतम् ॥ १८॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 19

आत्मानं किन्न जानासि मदधीनपराक्रमम् ।

त्वया नात्र रतिः कार्या निवर्तस्व कुचारतः ॥ १९॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 20

कामाधीनं कथं ज्ञानं स्त्रीषु सक्तो विहारकृत् ।

नोचितं तव देवेश स्मरणं विश्वतारणम् ॥ २०॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 21

तच्छुत्वा शम्भुवचनं विज्ञानप्रदमादरात् ।

व्रीड्यन्स्वमनसा विष्णुः प्राह वाचं महेश्वरम् ॥ २१॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 22

विष्णुरुवाच ।

ममात्र विद्यते चक्रं तद् गृहीत्वेतदादरात् ।

गमिष्यामि स्वलोकं तं त्वदाज्ञापरिपालकः ॥ २२॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 23

नन्दीश्वर उवाच ।

तदाकर्ण्य महेशानो वचनं वैष्णवं हरः ।

प्रत्युवाच वृषात्मा हि वृषरक्षः पुनर्हरिम् ॥ २३॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 24

न विलम्बः प्रकर्त्तव्यो गन्तव्यमित आशु ते ।

मच्छासनाद्धरे लोके चक्रमत्रैव तिष्ठताम् ॥ २४॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 25

सन्तानादित्यसंस्थानाच्छिवत्ववचनादपि ।

अहं घोरतरं तस्माच्चक्रमन्यद्ददामि ते ॥ २५॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 26

एतदुक्त्वा हरोऽलेखीद्दिव्यं कालानलप्रभम् ।

परं चक्रं प्रदीप्तं हि सर्वदुष्टविनाशनम् ॥ २६॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 18: शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं, Verse 27

विष्णवे प्रददौ चक्रं घोरार्कायुतसुप्रभम् ।

सर्वामरमुनीन्द्राणां रक्षकाय महात्मने ॥ २७॥