Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं

Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 1

विद्येश्वरसंहिता १.२३. त्रयोविंशोऽध्यायः ।

रुद्राक्षमाहात्म्यं शिवनाममहिमा च ।

ऋषय ऊचुः ।

सूत सूत महाभाग व्यासशिष्य नमोऽस्तु ते ।

तदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 2

तथा रुद्राक्षमाहात्म्यं नाममाहात्म्यमुत्तमम् ।

त्रितयं ब्रूहि सुप्रीत्या ममानन्दय मानसम् ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 3

सूत उवाच ।

साधु पृष्टं भवद्भिश्च लोकानां हितकारकम् ।

भवन्तो वै महाधन्याः पवित्राः कुलभूषणाः ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 4

येषां चैव शिवः साक्षाद् दैवतं परमं शुभम् ।

सदाशिवकथा लोके वल्लभा भवतां सदा ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 5

ते धन्याश्च कृतार्थाश्च सफलं देहधारणम् ।

उद्धृतं च कुलं तेषां ये शिवं समुपासते ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 6

शिवनाम मुखे यस्य सदा शिवशिवेति च ।

पापानि न स्पृशन्त्येव खदिराङ्गारकं यथा ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 7

श्रीशिवाय नमस्तुभ्यं मुखं व्याहरते यदा ।

तन्मुखं पावनं तीर्थं सर्वपापविनाशनम् ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 8

तन्मुखं च तथा यो वै पश्यति प्रीतिमान्नरः ।

तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 9

यत्र त्रयं सदा तिष्ठेदेतच्छुभतरं द्विजाः ।

तस्य दर्शनमात्रेण वेणीस्नानफलं लभेत् ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 10

शिवनाम विभूतिश्च तथा रुद्राक्ष एव च ।

एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 11

एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः ।

तस्यैव दर्शनं लोके दुर्लभं पापहारकम् ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 12

तद्दर्शनं यथा वेणी नोभयोरन्तरं मनाक् ।

एवं यो न विजानाति स पापिष्ठो न संशयः ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 13

विभूतिर्यस्य नो भाले नाङ्गे रुद्राक्षधारणम् ।

नास्ये शिवमयी वाणी तं त्यजेदधमं यथा ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 14

शैवं नाम यथा गङ्गा विभूतिर्यमुना मता ।

रुद्राक्षं विधिजा प्रोक्ता सर्वपापविनाशिनी ॥ १४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 15

शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम् ।

एकतो वेणिकायाश्च स्नानजं तु फलं बुधैः ॥ १५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 16

तदेवं तुलितं पूर्वं ब्रह्मणा हितकारिणा ।

समानं चैव तज्जातं तस्माद् धार्यं सदा बुधैः ॥ १६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 17

तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सुरैः ।

धार्यते त्रितयं तच्च दर्शनात्पापहारकम् ॥ १७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 18

ऋष्य ऊचुः ।

ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् ।

तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत ॥ १८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 19

सूत उवाच ।

ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः ।

तन्माहात्म्यं हि सद्भक्त्या श‍ृणुतादरतो द्विजाः ॥ १९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 20

सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि ।

भवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना ॥ २०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 21

कस्तत्त्रितयमाहात्म्यं सञ्जानाति द्विजोत्तमाः ।

महेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् ॥ २१॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 22

वच्म्यहं नाममाहात्म्यं यथाभक्ति समासतः ।

श‍ृणुत प्रीतितो विप्राः सर्वपापहरं परम् ॥ २२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 23

शिवेति नामदावाग्नेर्महापातकपर्वताः ।

भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः ॥ २३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 24

पापमूलानि दुःखानि विविधान्यपि शौनक ।

शिवनामैकनश्यानि नान्यनश्यानि सर्वथा ॥ २४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 25

स वैदिकः स पुण्यात्मा स धन्यः स बुधो मतः ।

शिवनामजपासक्तो यो नित्यं भुवि मानवः ॥ २५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 26

भवन्ति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः ।

येषां भवति विश्वासः शिवनामजपे मुने ॥ २६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 27

पातकानि विनश्यन्ति यावन्ति शिवनामतः ।

भुवि तावन्ति पापानि क्रियन्ते न नरैर्मुने ॥ २७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 17: विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनाममाहात्म्यवर्णनं, Verse 28

ब्रह्महत्यादिपापानां राशीनप्रमितान्मुने ।

शिवनाम द्रुतं प्रोक्तं नाशयत्यखिलान्नरैः ॥ २८॥