३ शतरुद्रसंहिता, अध्याय 13: शतरुद्रसंहितायां गृहपत्यवतारवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 72 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
तृतीयायां शतरुद्रसंहितायां ३.१५. पञ्चदशोऽध्यायः ।
गृहपत्यवतारवर्णनम् ३ ।
नन्दीश्वर उवाच ।
विश्वानरः सपत्नीकः तच्छ्रुत्वा नारदेरितम् ।
तदेवं मन्यमानोऽभूद्वज्रपातं सुदारुणम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
हा हतोऽस्मीति वचसा हृदयं समताडयत् ।
मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
शुचिष्मत्यपि दुःखार्ता रुरोदातीव दुस्सहम् ।
अतिस्वरेण हारावैरत्यन्तं व्याकुलेन्द्रिया ॥ ३॥
श्रुत्वार्तनादमिति विश्वनरोऽपि मोहं हित्वोत्थितः किमिति किं त्विति किं किमेतत् ।
उच्चैर्वदन् गृहपतिः क्व स मे बहिस्थः प्राणोऽन्तरात्मनिलयस्सकलेन्द्रियेशः ॥ ४॥
ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ।
स्मित्वोवाच गृहपतिः सबालः शङ्करांशजः ॥ ५॥
गृहपतिरुवाच ।
हे मातस्तात किं जातं कारणं तद्वदाधुना ।
किमर्थं रुदितोऽत्यर्थं त्रासस्तादृक् कुतो हि वाम् ॥ ६॥
न मां कृतवपुस्त्राणं भवच्चरणरेणुभिः ।
कालः कलयितुं शक्तो वराकी चञ्चलाल्पिका ॥ ७॥
प्रतिज्ञां शृणुतां तातौ यदि वां तनयो ह्यहम् ।
करिष्येऽहं तथा येन मृत्युस्त्रस्तो भविष्यति ॥ ८॥
मृत्युञ्जयं समाराध्य सर्वज्ञं सर्वदं सताम् ।
जपिष्यामि महाकालं सत्यं तातौ वदाम्यहम् ॥ ९॥
नन्दीश्वर उवाच ।
इति श्रुत्वा वचस्तस्य जारितौ द्विजदम्पती ।
अकालामृतवर्षौघैर्गततापौ तदोचतुः ॥ १०॥
द्विजदम्पती ऊचतुः ।
पुनर्ब्रूहि पुनर्ब्रूहि कीदृक् कीदृक् पुनर्वद ।
कालः कलयितुं नालं वराकी चञ्चलास्ति का ॥ ११॥
आवयोस्तापनाशाय महोपायस्त्वयेरितः ।
मृत्युञ्जयाख्यदेवस्य समाराधनलक्षणः ॥ १२॥
तद्वच्च शरणं शम्भोर्नातः परतरं हि तत् ।
मनोरथपथातीतकारिणः पापहारिणः ॥ १३॥
किं न श्रुतं त्वया तात श्वेतकेतुं यथा पुरा ।
पाशितं कालपाशेन ररक्ष त्रिपुरान्तकः ॥ १४॥
शिलादतनयं मृत्युग्रस्तमष्टाब्दमात्रकम् ।
शिवो निजजनं चक्रे नन्दिनं विश्वनन्दिनम् ॥ १५॥
क्षीरोदमथनोद्भूतं प्रलयानलसन्निभम् ।
पीत्वा हालाहलं घोरमरक्षद्भुवनत्रयम् ॥ १६॥
जलन्धरं महादर्पं हृतत्रैलोक्यसम्पदम् ।
रुचिराङ्गुष्ठरेखोत्थचक्रेण निजघान यः ॥ १७॥
य एकेषुनिपातोत्थज्वलनैस्त्रिपुरम्पुरा ।
त्रैलोक्यैश्वर्यसम्मूढं शोषयामास भानुना ॥ १८॥
कामं दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ।
निनायानङ्गपदवीं वीक्ष्यमाणेष्वजादिषु ॥ १९॥
तं ब्रह्माद्यैककर्तारं मेघवाहनमच्युतम् ।
प्रयाहि पुत्र शरणं विश्वरक्षामणिं शिवम् ॥ २०॥
नन्दीश्वर उवाच ।
पित्रोरनुज्ञां प्राप्येति प्रणम्य चरणौ तयोः ।
प्रादक्षिण्यमुपावृत्य बह्वाश्वास्य विनिर्ययौ ॥ २१॥
सम्प्राप्य काशीं दुष्प्रापां ब्रह्मनारायणादिभिः ।
महासंवर्त्तसन्तापहन्त्रीं विश्वेशपालिताम् ॥ २२॥
स्वर्धुन्या हारयष्ट्येव राजितां कण्ठभूमिषु ।
विचित्रगुणशालिन्या हरपत्न्या विराजिताम् ॥ २३॥
तत्र प्राप्य स विप्रेशः प्राग्ययौ मणिकर्णिकाम् ।
तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरं प्रभुम् ॥ २४॥
साञ्जलिर्नतशीर्षोऽसौ महानन्दान्वितः सुधीः ।
त्रैलोक्यप्राणसन्त्राणकारिणं प्रणनाम ह ॥ २५॥
आलोक्यालोक्य तल्लिङ्गं तुतोष हृदये मुहुः ।
परमानन्दकन्दाढ्यं स्फुटमेतन्न संशयः ॥ २६॥
अहो न मत्तो धन्योऽस्ति त्रैलोक्ये सचराचरे ।
यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम् ॥ २७॥