Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 1

तृतीयायां शतरुद्रसंहितायां ३.२. द्वितीयोऽध्यायः ।

शिवाष्टमूर्त्तिवर्णनम् ।

नन्दीश्वर उवाच ।

श‍ृणु तात महेशस्यावतारान्परमान्प्रभो ।

सर्वकार्यकराँल्लोके सर्वस्य सुखदां मुने ॥ १॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 2

तस्य शम्भोः परेशस्य मूर्त्यष्टकमयं जगत् ।

तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ २॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 3

शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः ।

ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ ३॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 4

भूम्यम्भोऽग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ।

अधिष्ठिताश्च शर्वाद्यैरष्टरूपैः शिवस्य हि ॥ ४॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 5

धत्ते चराचरं विश्वं रूपं विश्वम्भरात्मकम् ।

शङ्करस्य महेशस्य शास्त्रस्यैवेति निश्चयः ॥ ५॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 6

सञ्जीवनं समस्तस्य जगतः सलिलात्मकम् ।

भव इत्युच्यते रूपं भवस्य परमात्मनः ॥ ६॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 7

बहिरन्तर्जगद्विश्वं बिभर्ति स्पन्दते स्वयम् ।

उग्र इत्युच्यते सद्भी रूपमुग्रस्य सत्प्रभोः ॥ ७॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 8

सर्वावकाशदं सर्वव्यापकं गगनात्मकम् ।

रूपं भीमस्य भीमाख्यं भूपवृन्दस्व भेदकम् ॥ ८॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 9

सर्वात्मनामधिष्ठानं सर्वक्षेत्रनिवासकम् ।

रूपं पशुपतेर्ज्ञेयं पशुपाशनिकृन्तनम् ॥ ९॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 10

सन्दीपयञ्जगत्सर्वं दिवाकरसमाह्वयम् ।

ईशानाख्यं महेशस्य रूपं दिवि विसर्पति ॥ १०॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 11

आप्याययति यो विश्वममृतांशुर्निशाकरः ।

महादेवस्य तद्रूपं महादेवस्य चाह्वयम् ॥ ११॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 12

आत्मा तस्याष्टमं रूपं शिवस्य परमात्मनः ।

व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ १२॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 13

शाखाः पुष्यन्ति वृक्षस्य वृक्षमूलस्य सेचनात् ।

तद्वदस्य वपुर्विश्वं पुष्यते च शिवार्चनात् ॥ १३॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 14

यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ।

तथा विश्वस्य सम्प्रीत्या प्रीतो भवति शङ्करः ॥ १४॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 15

क्रियते यस्य कस्यापि देहिनो यदि निग्रहः ।

अष्टमूर्तेरनिष्टं तत्कृतमेव न संशयः ॥ १५॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 16

अष्टमूर्त्यात्मना विश्वमधिष्ठायास्थितं शिवम् ।

भजस्व सर्वभावेन रुद्रं परमकारणम् ॥ १६॥

Shiva Purana

३ शतरुद्रसंहिता, अध्याय 2: शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं, Verse 17

इति प्रोक्ताः स्वरूपास्ते विधिपुत्राष्टविश्रुताः ।

सर्वोपकारनिरताः सेव्याः श्रेयोऽर्थिभिर्नरैः ॥ १७॥