२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 40: रुद्रसंहितायां पञ्चमे युद्धखण्डे गजासुरवधो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 76 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.५७. सप्तपञ्चाशत्तमोऽध्यायः ।
गजासुरवधः ।
सनत्कुमार उवाच ।
शृणु व्यास महाप्रेम्णा चरितं शशिमौलिनः ।
यथाऽवधीत् त्रिशूलेन दानवेन्द्रं गजासुरम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
दानवे निहते देव्या समरे महिषासुरे ।
देवानां च हितार्थाय पुरा देवाः सुखं ययुः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तस्य पुत्रो महावीरो मुनीश्वर गजासुरः ।
पितुर्वधं हि संस्मृत्य कृतं देव्या सुरार्थनात् ॥ ३॥
स तद्वैरमनुस्मृत्य तपोऽर्थं गतवान् वने ।
समुद्दिश्य विधिं प्रीत्या तताप परमं तपः ॥ ४॥
अवध्योऽहं भविष्यामि स्त्रीपुंसैः कामनिर्जितैः ।
संविचार्येति मनसाऽभूत्तपोरतमानसः ॥ ५॥
स तेपे हिमवद् द्रोण्यां तपः परमदारुणम् ।
ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥ ६॥
जटाभारैः स वै रेजे प्रलयार्क इवांशुभिः ।
महिषासुरपुत्रोऽसौ गजासुर उदारधीः ॥ ७॥
तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः ।
तिर्यगूर्ध्वमधोलोकांस्तापयन्विष्वगीरितः ॥ ८॥
चुक्षुभुर्नद्युदन्वन्तश्चाग्नेर्मूर्द्धसमुद्भवात् ।
निपेतुः सग्रहास्तारा जज्ज्वलुश्च दिशो दश ॥ ९॥
तेन तप्ताः सुराः सर्वे दिवं त्यक्त्वा सवासवाः ।
ब्रह्मलोकं ययुर्विज्ञापयामासुश्चचाल भूः ॥ १०॥
देवा ऊचुः ।
विधे गजासुरतपस्तप्ता वयमथाकुलाः ।
न शक्नुमो दिवि स्थातुमतस्ते शरणं गताः ॥ ११॥
विधे ह्युपशमं तस्य चान्याञ्जीवयितुं कृथा ।
लोका नङ्क्ष्यत्यन्यथा हि सत्यं सत्यं ब्रुवामहे ॥ १२॥
इति विज्ञापितो देवैर्वासवाद्यैः स आत्मभूः ।
भृगुदक्षादिभिर्ब्रह्मा ययौ दैत्यवराश्रमम् ॥ १३॥
तपन्तं तपसा लोकान् यथाऽभ्रापिहितं दिवि ।
विलक्ष्य विस्मितः प्राह विहसन्सृष्टिकारकः ॥ १४॥
ब्रह्मोवाच ।
उत्तिष्ठोत्तिष्ठ दैत्येन्द्र तपः सिद्धोऽसि माहिषे ।
प्राप्तोऽहं वरदस्तात वरं वृणु यथेप्सितम् ॥ १५॥
गजासुर उवाच ।
नमस्ते देवदेवेश यदि दास्यसि मे वरम् ।
अवध्योऽहं भवेयं वै स्त्रीपुंसैः कामनिर्जितैः ॥ १७॥
महाबलो महावीर्योऽजेयो देवादिभिः सदा ।
सर्वेषां लोकपालानां निखिलर्द्धिसुभुग्विभो ॥ १८॥
सनत्कुमार उवाच ।
एवं वृतः शतधृतिर्दानवेन स तेन वै ।
प्रादात्तत्तपसा प्रीतो वरं तस्य सुदुर्लभम् ॥ १९॥
एवं लब्धवरो दैत्यो माहिषिश्च गजासुरः ।
सुप्रसन्नमनाः सोऽथ स्वधाम प्रत्यपद्यत ॥ २०॥
स विजित्य दिशः सर्वा लोकांश्च त्रीन्महासुरः ।
देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥ २१॥
इत्यादीन्निखिलाञ्जित्वा वशमानीय विश्वजित् ।
जहार लोकपालानां स्थानानि सह तेजसा ॥ २२॥
देवोद्यानश्रियाजुष्टमध्यास्ते स्म त्रिविष्टपम् ।
महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा ॥ २३॥
तस्मिन्महेन्द्रस्य गृहे महाबलो महामना निर्जितलोक एकराट् ।
रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ॥ २४॥
स इत्थं निर्जितककुबेकराड् विषयान्प्रियान् ।
यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः ॥ २५॥
एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः ।
काले व्यतीते महति पापबुद्धिरभूत्ततः ॥ २६॥
महिषासुरपुत्रोऽसौ सञ्चिक्लेश द्विजान्वरान् ।
तापसान्नितरां पृथ्व्यां दानवः सुरमर्दनः ॥ २७॥
सुरान्नरांश्च प्रमथान्सर्वाञ्चिक्लेशदुर्मतिः ।
धर्मान्वितान्विशेषेण पूर्ववैरमनुस्मरन् ॥ २८॥