२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 39: रुद्रसंहितायां पञ्चमे युद्धखण्डे बाणासुरगणपत्वपदप्राप्तिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.५६. षट्पञ्चाशत्तमोऽध्यायः ।
बाणासुरगणत्वप्राप्तिवर्णनम् ।
नारद उवाच ।
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ।
अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सनत्कुमार उवाच ।
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ।
दुःखितोऽभूत्ततो बाणः स्वाज्ञानं संस्मरन्हृदा ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ततो नन्दी शिवगणो बाणं प्रोवाच दुःखितम् ।
दैत्यं शोणितदिग्धाङ्गमनुतापसमन्वितम् ॥ ३॥
नन्दीश्वर उवाच ।
बाण शङ्करसद्भक्त मानुतापं कुरुष्व भोः ।
भक्तानुकम्पी शम्भुर्वै भक्तवत्सलनामधृक् ॥ ४॥
तदिच्छया च यज्जातं तज्जातमिति चेतसा ।
मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः ॥ ५॥
मन आद्ये समाधाय कुरु नित्यं महोत्सवम् ।
भक्तानुकम्पनश्चाऽस्य शङ्करस्य पुनःपुनः ॥ ६॥
नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः ।
शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः ॥ ७॥
गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः ।
गतगर्वव्रजो बाणः प्रेमाकुलितमानसः ॥ ८॥
संस्तुवन्विविधैः स्तोत्रैः सन्नमन्नुतितस्तथा ।
यथोचितं पादघातं कुर्वन्विक्षेपयन्करान् ॥ ९॥
ननर्त ताण्डवं मुख्यं प्रत्यालीढादिशोभितम् ।
स्थानकैर्विविधाकारैरालीढप्रमुखैरपि ॥ १०॥
मुखवादसहस्राणि भ्रूक्षेपसहितान्यपि ।
शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः ॥ ११॥
वारीश्च विविधाकारा दर्शयित्वा शनैः शनैः ।
तथा शोणितधाराभिः सिञ्चयित्वा महीतलम् ॥ १२॥
रुद्रं प्रसादयामास शूलिनं चन्द्रशेखरम् ।
बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः ॥ १३॥
ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः ।
उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः ॥ १४॥
रुद्र उवाच ।
बाण तात बलेः पुत्र सन्तुष्टो नर्तनेन ते ।
वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते ॥ १५॥
सनत्कुमार उवाच ।
इत्याकर्ण्य वचः शम्भोर्दैत्येन्द्रेण तदा मुने ।
बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे ॥ १६॥
बाहुयुद्धस्य चोद्धत्तिर्गाणपत्यमथाक्षयम् ।
उषापुत्रस्य राज्यं तु तस्मिन् शोणितकाह्वये ॥ १७॥
निर्वैरता च विबुधैर्विष्णुना च विशेषतः ।
न पुनर्दैत्यता दुष्टा रजसा तमसा युता ॥ १८॥
शम्भुभक्तिर्विशेषेण निर्विकारा सदा मुने ।
शिवभक्तेषु च स्नेहो दया सर्वेषु जन्तुषु ॥ १९॥
इति कृत्वा वरान् शम्भोर्बलिपुत्रो महाऽसुरः ।
प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृताञ्जलिः ॥ २०॥
बाण उवाच ।
देवदेव महादेव शरणागतवत्सल ।
त्वां नमामि महेशान दीनबन्धो दयानिधे ॥ २१॥
कृता मयि कृपातीव कृपासागर शङ्कर ।
गर्वोपहारितः सर्वः प्रसन्नेन मम प्रभो ॥ २२॥
त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः ।
ब्रह्माण्डतनुरुग्रेशो विराट् सर्वान्वितः परः ॥ २३॥
नाभिर्नभोऽग्निर्वदनमम्बु रेतो दिशः श्रुतिः ।
द्यौः शीर्षमङ्घ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो ॥ २४॥
दृगर्को जठरं वार्द्धिर्भुजेन्द्रो धिषणा विधिः ।
प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव ॥ २५॥
रोमाण्यौषधयो नाथ केशा जलमुचस्तव ।
गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान् ॥ २६॥
ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च ।
ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च ॥ २७॥