२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 37: रुद्रसंहितायां पञ्चमे युद्धखण्डे ऊषाचरित्रे अनिरुद्धोषाविहारवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.५३. त्रिपञ्चाशत्तमोऽध्यायः ।
ऊषाचरित्रे अनिरुद्धोषाविहारवर्णनम् ।
सनत्कुमार उवाच ।
अथ बाणासुरः क्रुद्धस्तत्र गत्वा ददर्श तम् ।
दिव्यलीलात्तवपुषं प्रथमे वयसि स्थितम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
तं दृष्ट्वा विस्मितं वाक्यं किं कारणमथाब्रवीत् ।
बाणः क्रोधपरीतात्मा युधि शौण्डो हसन्निव ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
अहो मनुष्यो रूपाढ्यःसाहसी धैर्यवानिति ।
कोऽयमागतकालश्च दुष्टभाग्यो विमूढधीः ॥ ३॥
येन मे कुलचारित्रं दूषितं दुहिता हिता ।
तं मारयध्वं कुपिताः शीघ्रं शस्त्रैः सुदारुणैः ॥ ४॥
दुराचारं च तं बद्ध्वा घोरे कारागृहे ततः ।
रक्षध्वं विकटे वीरा बहुकालं विशेषतः ॥ ५॥
न जाने कोऽयमभयः को वा घोरपराक्रमः ।
विचार्येति महाबुद्धिः सन्दिग्धोऽभूच्छरासुरः ॥ ६॥
ततो दैत्येन सैन्यं तु दशसाहस्रकं शनैः ।
वधाय तस्य वीरस्य व्यादिष्टं पापबुद्धिना ॥ ७॥
तदादिष्टास्तु ते वीराः सर्वतोऽन्तःपुरं द्रुतम् ।
छादयामासुरत्युग्राश्छिन्धि भिन्दीति वादिनः ॥ ८॥
शत्रुसैन्यं ततो दृष्ट्वा गर्जमानः स यादवः ।
अन्तःपुरं द्वारगतं परिघं गृह्य चातुलम् ॥ ९॥
निष्क्रान्तो भवनात्तस्माद्वज्रहस्त इवान्तकः ।
तेन तान्किङ्करान् हत्वा पुनश्चान्तःपुरं ययौ ॥ १०॥
एवं दशसहस्राणि सैन्यानि मुनिसत्तम ।
जघान रोषरक्ताक्षो वर्द्धितः शिवतेजसा ॥ ११॥
लक्षे हतेऽथ योधानां ततो बाणासुरो रुषा ।
कुम्भाण्डं स गृहीत्वा तु युद्धे शौण्डं समाह्वयत् ॥ १२॥
अनिरुद्धं महाबुद्धिं द्वन्द्वयुद्धे महाहवे ।
प्राद्युम्निं रक्षितं शैवतेजसा प्रज्वलत्तनुम् ॥ १३॥
ततो दशसहस्राणि तुरङ्गाणां रथोत्तमान् ।
युद्धप्राप्तेन खड्गेन दैत्येन्द्रस्य जघान सः ॥ १४॥
तद्वधाय ततः शक्तिं कालवैश्वानरोपमाम् ।
अनिरुद्धो गृहीत्वा तां तया तं निजघान हि ॥ १५॥
रथोपस्थे ततो बाणस्तया शक्त्याहतो दृढम् ।
स साश्वस्तत्क्षणं वीरस्तत्रैवान्तरधीयत ॥ १६॥
तस्मिंस्त्वदर्शनं प्राप्ते प्राद्युम्निरपराजितम् ।
आलोक्य ककुभः सर्वाः तस्थौ गिरिरिवाचलः ॥ १७॥
अदृश्यमानस्तु तदा कूटयोधः स दानवः ।
नानाशस्त्रसहस्रैस्तं जघान हि पुनः पुनः ॥ १८॥
छद्मना नागपाशैस्तं बबन्ध स महाबलः ।
बलिपुत्रो महावीरः शिवभक्तः शरासुरः ॥ १९॥
तं बद्ध्वा पञ्जरान्तःस्थं कृत्वा युद्धादुपारमत् ।
उवाच बाणः सङ्क्रुद्धः सूतपुत्रं महाबलम् ॥ २०॥
बाणासुर उवाच ।
सूतपुत्र शिरश्छिन्धि पुरुषस्यास्य वै लघु ।
येन मे दूषितं पूतं बलाद्दुष्टेन सत्कुलम् ॥ २१॥
छित्वा तु सर्वगात्राणि राक्षसेभ्यः प्रयच्छ भोः ।
अथास्य रक्तमांसानि क्रव्यादा अपि भुञ्जताम् ॥ २२॥
अगाधे तृणसङ्कीर्णे कूपे पातकिनं जहि ।
किं बहूक्त्या सूतपुत्र मारणीयो हि सर्वथा ॥ २३॥
सनत्कुमार उवाच ।
तस्य तद्वचनं श्रुत्वा धर्मबुद्धिर्निशाचरः ।
कुम्भाण्डस्त्वब्रवीद्वाक्यं बाणं सन्मन्त्रिसत्तमम् ॥ २४॥
कुम्भाण्ड उवाच ।
नैतत्कर्तुं समुचितं कर्म देव विचार्यताम् ।
अस्मिन् हते हतो ह्यात्मा भवेदिति मतिर्मम ॥ २५॥
अयं तु दृश्यते देव तुल्यो विष्णोः पराक्रमैः ।
वर्धितश्चन्द्रचूडस्य त्वदिष्टस्य सुतेजसा ॥ २६॥
अथ चन्द्रललाटस्य साहसेन समत्स्वयम् ।
इमामवस्थां प्राप्तोऽस्ति पौरुषे संव्यवस्थितः ॥ २७॥