२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 34: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकयुद्धे शुक्रनिगीर्णनवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.४७. सप्तचत्वारिंशोऽध्यायः ।
अन्धकयुद्धे शुक्रनिगीर्णनवर्णनम् ।
व्यास उवाच ।
तस्मिन्महति सङ्ग्रामे दारुणे लोमहर्षणे ।
शुक्रो दैत्यपतिर्विद्वान् भक्षितस्त्रिपुरारिणा ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
इति श्रुतं समासान्मे तत्पुनर्ब्रूहि विस्तरात् ।
किं चकार महायोगी जठरस्थः पिनाकिनः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
न ददाह कथं शम्भोः शुक्रं तं जठरानलः ।
कल्पान्तदहनः कालो दीप्ततेजाश्च भार्गवः ॥ ३॥
विनिष्क्रान्तः कथं धीमान् शम्भोर्जठरपञ्जरात् ।
कथमाराधयामास कियत्कालं स भार्गवः ॥ ४॥
कथं च लब्धवान्विद्यां तां मृत्युशमनीं पराम् ।
का सा विद्या परा तात यया मृत्युर्हि वार्यते ॥ ५॥
लेभेऽन्धको गाणपत्यं कथं शूलाद्विनिर्गतः ।
देवदेवस्य वै शम्भोर्मुनेर्लीलाविहारिणः ॥ ६॥
एतत्सर्वमशेषेण महाधीमन् कृपां कुरु ।
शिवलीलामृतं तात शृण्वतः कथयस्व मे ॥ ७॥
ब्रह्मोवाच ।
इति तस्य वचः श्रुत्वा व्यासस्यामिततेजसः ।
सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ ८॥
सनत्कुमार उवाच ।
शृणु व्यास महाबुद्धे शिवलीलामृतं परम् ।
धन्यस्त्वं शैवमुख्योऽसि ममानन्दकरः स्वतः ॥ ९॥
प्रवर्तमाने समरे शङ्करान्धकयोस्तयोः ।
अनिर्भेद्यपविव्यूहगिरिव्यूहाधिनाथयोः ॥ १०॥
पुरा जयो बभूवापि दैत्यानां बलशालिनाम् ।
शिवप्रभावादभवत्प्रमथानां मुने जयः ॥ ११॥
तच्छ्रुत्वासीद्विषण्णो हि महादैत्योऽन्धकासुरः ।
कथं स्यान्मे जय इति विचारणपरोऽभवत् ॥ १२॥
अपसृत्य ततो युद्धादन्धकः परबुद्धिमान् ।
द्रुतमभ्यगमद्वीर एकलः शुक्रसन्निधिम् ॥ १३॥
प्रणम्य स्वगुरुं काव्यमवरुह्य रथाच्च सः ।
बभाषेदं विचार्याथ साञ्जलिर्नीतिवित्तमः ॥ १४॥
अन्धक उवाच ।
भगवंस्त्वामुपाश्रित्य गुरोर्भावं वहामहे ।
पराजिता भवामो नो सर्वदा जयशालिनः ॥ १५॥
त्वत्प्रभावात्सदा देवान्समस्तान्सानुगान्वयम् ।
मन्यामहे हरोपेन्द्रमुखानपि हि कत्तृणान् ॥ १६॥
अस्मत्तो बिभ्यति सुराः तदा भवदनुग्रहात् ।
गजा इव हरिभ्यश्च तार्क्ष्येभ्य इव पन्नगाः ॥ १७॥
अनिर्भेद्यं पविव्यूहं विविशुर्दैत्यदानवाः ।
प्रमथानीकमखिलं विधूय त्वदनुग्रहात् ॥ १८॥
वयं त्वच्छरणा भूत्वा सदा गा इव निश्चलाः ।
स्थित्वा चरामो निःशङ्कमाजावपि हि भार्गव ॥ १९॥
रक्षरक्षाभितो विप्र प्रव्रज्य शरणागतान् ।
असुरान् शत्रुभिर्वीरैरर्दितांश्च मृतानपि ॥ २०॥
प्रथमैर्भीमविक्रान्तैः क्रान्तान्मृत्युप्रमाथिभिः ।
सूदितान्पतितान्पश्य हुण्डादीन्मद्गणान्वरान् ॥ २१॥
यः पीत्वा कणधूमं वै सहस्रं शरदां पुरा ।
त्वया प्राप्ता वरा विद्या तस्याः कालोऽयमागतः ॥ २२॥
अद्य विद्याफलं तत्ते सर्वे पश्यन्तु भार्गव ।
प्रमथा असुरान्सर्वान् कृपया जीवयिष्यतः ॥ २३॥
सनत्कुमार उवाच ।
इत्थमन्धकवाक्यं स श्रुत्वा धीरो हि भार्गवः ।
तदा विचारयामास दूयमानेन चेतसा ॥ २४॥
किं कर्तव्यं मयाद्यापि क्षेमं मे स्यात्कथं त्विति ।
सन्निपातविधिर्जीवः सर्वथानुचितो मम ॥ २५॥
विद्येयं शङ्करात्प्राप्ता तद्गुणान् प्रति योजये ।
तद्रणे मर्दितान्वीरैः प्रमथैः शङ्करानुगैः ॥ २६॥
शरणागतधर्मोऽथ प्रवरः सर्वतो हृदा ।
विचार्य शुक्रेण धिया तद्वाणी स्वीकृता तदा ॥ २७॥