Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.४६. षट्चत्वारिंशोऽध्यायः ।

अन्धकवधोपाख्याने अन्धकयुद्धवर्णनम् ।

सनत्कुमार उवाच ।

तस्येङ्गितज्ञश्च स दैत्यराजो गदां गृहीत्वा त्वरितः ससैन्यः ।

कृत्वाथ साऽग्रे गिलनामधेयं सुदारुणं देववरैरभेद्यम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 2

गुहामुखं प्राप्य महेश्वरस्य बिभेद शस्त्रैरशनिप्रकाशैः ।

अन्ये ततो वीरकमेव शस्त्रै- रवाकिरन् शैलसुतां तथान्ये ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 3

द्वारं हि केचिद्रुचिरं बभञ्जुः पुष्पाणि पत्राणि विनाशयेयुः ।

फलानि मूलानि जलं च हृद्य- मुद्यानमार्गानपि खण्डयेयुः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 4

विलोडयेयुर्मुदिताश्च केचि- च्छृङ्गाणि शैलस्य च भानुमन्ति ।

ततो हरः सस्मृतवान् स्वसैन्यं समाह्वयन् कुपितः शूलपाणिः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 5

भूतानि चान्यानि सुदारुणानि देवान्ससैन्यान्सह विष्णुमुख्यान् ।

आहूतमात्रानुगणाःससैन्या रथैर्गजैर्वाजिवृषैश्च गोभिः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 6

उष्ट्रैः खरैः पक्षिवरैश्च सिंहैः ते सर्वदेवाः सहभूतसङ्घैः ।

व्याघ्रैर्मृगैः सूकरसारसैश्च समीनमत्स्यैः शिशुमारमुख्यैः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 7

अन्यैश्च नाना विधजीवसङ्घै- र्विशीर्णदंशैः स्फुटितैः श्मशानैः ।

भुजङ्गमैः प्रेतशतैः पिशाचै- र्दिव्यैर्विमानैः कमलाकरैश्च ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 8

नदीनदैः पर्वतवाहनैश्च समागताः प्राञ्जलयः प्रणम्य ।

कपर्दिनं तस्थुरदीनसत्त्वाः सेनापतिं वीरकमेव कृत्वा ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 9

विसर्जयामास रणाय देवान् विश्रान्तवाहानथ तत्पिनाकी ।

युद्धे स्थिरं लब्धजयं प्रधानं सम्प्रेषितास्ते तु महेश्वरेण ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 10

चक्रुर्युगान्तप्रतिमं च युद्धं मर्यादहीनं सगिलेन सर्वे ।

दैत्येन्द्रसैन्येन सदैव घोरं क्रोधान्निगीर्णास्त्रिदशास्तु सङ्ख्ये ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 11

तस्मिन्क्षणे युध्यमानाश्च सर्वे ब्रह्मेन्द्रविष्ण्वर्कशशाङ्कमुख्याः ।

आसन्निगीर्णा विधसेन तेन सैन्ये निगीर्णेऽस्ति तु वीरको हि ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 12

विहाय सङ्ग्रामशिरोगुहां तां प्रविश्य शर्वं प्रणिपत्य मूर्ध्ना ।

प्रोवाच दुःखाभिहतः स्मरारिं सुवीरको वाग्मिवरोऽथ वृत्तम् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 13

निगीर्णं ते सैन्यं विघसदितिजेनाद्य भगव- न्निगीर्णोऽसौ विष्णुस्त्रिभुवनगुरुर्दैत्यदलनः ।

निगीर्णौ चन्द्रार्कौ द्रुहिणमघवानौ च वरदौ निगीर्णास्ते सर्वे यमवरुणवाताश्च धनदः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 14

स्थितोऽस्म्येकः प्रह्वः किमिह करणीयं भवतु मे अजेयो दैत्येन्द्रः प्रमुदितमना दैत्यसहितः ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 15

अजेयं त्वां प्राप्तः प्रतिभयमना मारुतगतिः स्वयं विष्णुर्देवः कनककशिपुं कश्यपसुतम् ।

नखैस्तीक्ष्णैर्भक्त्या तदपि भगवान् शिष्टवशगः प्रवृत्तस्त्रैलोक्यं विधमतु मलं व्यात्तवदनः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 16

वसिष्ठाद्यैः शप्तो भुवनपतिभिः सप्तमुनिभिः तथाभूते भूयस्त्वमिति सुचिरं दैत्यसहितः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 17

ततस्तेनोक्तास्ते प्रणयवचनैरात्मनि हितैः कदास्माद्वै घोराद्भवति मम मोक्षो मुनिवराः ।

यतः क्रुद्धैरुक्तो विघसहरणाद्युद्धसमये ततो घोरैर्बाणैर्विदलितमुखे मुष्टिभिरलम् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 18

बदर्याख्यारण्ये ननु हरिगृहे पुण्यवसतौ निसंस्तभ्यात्मानं विगतकलुषो यास्यसि परम् ।

ततस्तेषां वाक्यात्प्रतिदिनमसौ दैत्यगिलनः क्षुधार्तः सङ्ग्रामाद् भ्रमति पुनरामोदमुदितः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 19

तमश्चेदं घोरं जगदुदितयोः सूर्यशशिनो- र्यथाशुक्रस्तुभ्यं परमरिपुरत्यन्तविकरः ।

हतान्देवैर्दैत्यान्पुनरमृतविद्यास्तुतिपदैः सवीर्यान्सन्हृष्टान्व्रणशतवियुक्तान्प्रकुरुते ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 20

वरं प्राणास्त्याज्यास्तव मम तु सङ्ग्रामसमये भवान्साक्षीभूतः क्षणमपि वृतः कार्यकरणे ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 21

सनत्कुमार उवाच ।

इतीदं सत्पुत्रात्प्रमथपतिराकर्ण्य कुपित- श्चिरं ध्यात्वा चक्रे त्रिभुवनपतिः प्रागनुपमम् ।

प्रगायत्सामाख्यं दिनकरकराकारवपुषा प्रहासात्तन्नाम्ना तदनु निहतं तेन च तमः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 22

प्रकाशेऽस्मिँल्लोके पुनरपि महायुद्धमकरोद् रणे दैत्यैः सार्द्धं विकृतवदनैर्वीरकमुनिः ।

शिलाचूर्णं भुक्त्वा प्रवरमुनिना यस्तु जनितः स कृत्वा सण्ग्रामं पुरमपि पुरा यश्च जितवान् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 23

महारुद्रः सद्यः स खलु दितिजेनातिगिलितः ततश्चासौ नन्दी निशितशरशूलासिसहितः ।

प्रधानो योधानां मुनिवरशतानामपि महान् निवासो विद्यानां शमदममहाधैर्यसहितः ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 24

निरीक्ष्यैवं पश्चाद् वृषभवरमारुह्य भगवान् कपर्दी युद्धार्थी विघसदितिजं सम्मुखमुखः ।

जपन्दिव्यं मन्त्रं निगलनविधानोद्गिलनकं स्थितः सज्जं कृत्वा धनुरशनिकल्पानपि शरान् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 25

ततौ निष्कान्तोऽसौ विघसवदनाद्वीरकमुनि- र्गृहीत्वा तत्सर्वे स्वबलमतुलं विष्णुसहिताः ।

समुद्गीर्णाः सर्वे कमलजबलारीन्दुदिनपाः प्रहृष्टं तत्सैन्यं पुनरपि महायुद्धमकरोत् ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 26

जिते तस्मिन् शुक्रस्तदनु दितिजान्युद्धविहतान् यदा विद्यावीर्यात्पुनरपि सजीवान्प्रकुरुते ।

तदा बद्ध्वाऽऽनीतः पशुरिव गणैर्भूतपतये निगीर्णस्तेनासौ त्रिपुररिपुणा दानवगुरुः ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 33: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं, Verse 27

विनष्टे शुक्राख्ये सुररिपुनिवासस्तदखिलो जितो ध्वस्तो भग्नो भृशमपि सुरैश्चापि दलितम् ।

प्रभूतैर्भूतौघैर्दितिजकुणपग्रासरसिकैः सरुण्डैर्नृत्यद्भिर्निशितशरशक्त्युद्धृतकरैः ॥ २७॥