२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 32: रुद्रसंहितायां पञ्चमे युद्धखण्डे युद्धप्रारम्भदूतसंवादवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.४५. पञ्चत्वारिंशोऽध्यायः ।
युद्धप्रारम्भदूतसंवादवर्णनम् ।
सनत्कुमार उवाच ।
गतस्ततो मत्तगजेन्द्रगामी पीत्वा सुरां घूर्णितलोचनश्च ।
महानुभावो बहुसैन्ययुक्तः प्रचण्डवीरो वरवीरयायी ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
ददर्श दैत्यः स्मरबाणविद्धो गुहां ततो वीरकरुद्धमार्गाम् ।
स्निग्धं यथा वीक्ष्य पतङ्गसंज्ञः दशाप्रदीपं च कृमिर्ह्युपेत्य ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तथा प्रदर्श्याशु पुनः पुनश्च सम्पीड्यमानोऽपि स वीरकेण ।
बभूव कामाग्निसुदग्धदेहोऽ न्धको महादैत्यपतिः स मूढः ॥ ३॥
पाषाणवृक्षाशनितोयवह्नि- भुजङ्गशस्त्रास्त्रबिभीषिकाभिः ।
सम्पीडितोऽसौ न पुनः प्रपीड्यः पृष्टश्च कस्त्वं समुपागतोऽसि ॥ ४॥
निशम्य तद् गां स्वमतं स तस्मै चकार युद्धं स तु वीरकेण ।
मुहूर्तमाश्चर्यवदप्रमेयं सङ्ख्ये जितो वीरतरेण दैत्यः ॥ ५॥
ततस्तु सङ्ग्रामशिरो विहाय क्षुत्क्षामकण्ठस्तृषितो गतोऽभूत् ।
चूर्णीकृते खड्गवरे च खिन्ने पलायमानो गतविस्मयः सः ॥ ६॥
चक्रुस्तदाजिं सह वीरकेण प्रह्लादमुख्या दितिजप्रधानाः ।
लज्जाङ्कुशाकृष्टधियो बभूवुः सुदारुणाः शस्त्रशतैरनेकैः ॥ ७॥
विरोचनस्तत्र चकार युद्धं बलिश्च बाणश्च सहस्रबाहुः ।
भजिः कुजम्भस्त्वथ शम्बरश्च वृत्रादयश्चाप्यथ वीर्यवन्तः ॥ ८॥
ते युद्ध्यमाना विजिताः समन्ताद् द्विधाकृता वै गणवीरकेण ।
शेषे हतानां बहुदानवाना- मुक्तं जयत्येव हि सिद्धसङ्घैः ॥ ९॥
भेरुण्डजानाभिनयप्रवृत्ते मेदोवसामांससुपूयमध्ये ।
क्रव्यादसङ्घातसमाकुले तु भयङ्करे शोणितकर्दमे तु ॥ १०॥
भग्नैस्तु दैत्यैर्भगवान् पिनाकी व्रतं महापाशुपतं सुघोरम् ।
प्रिये मया यत्कृतपूर्वमासी- द्दाक्षायणीं प्राह सुसान्त्वयित्वा ॥ ११॥
शिव उवाच ।
तस्माद्बलं यन्मम तत्प्रणष्टं मर्त्यैरमर्त्यस्य यतः प्रपातः ।
पुण्यक्षयाही ग्रह एव जातो दिवानिशं देवि तव प्रसङ्गात् ॥ १२॥
उत्पाद्य दिव्यं परमाद्भुतं तु पुनर्वरं घोरतरं च गत्वा ।
तस्माद् व्रतं घोरतरं चरामि सुनिर्भया सुन्दरि वै विशोका ॥ १३॥
सनत्कुमार उवाच ।
एतावदुक्त्वा वचनं महात्मा उत्पाद्य घोषं शनकैश्चकार ।
स तत्र गत्वा व्रतमुग्रदीप्तो गतो वनं पुण्यतमं सुघोरम् ॥ १४॥
चर्तुं हि शक्यं तु सुरासुरैर्य- न्न तादृशं वर्षसहस्रमात्रम् ।
सा पार्वती मन्दरपर्वतस्था प्रतीक्ष्यमाणाऽऽगमनं भवस्य ॥ १५॥
पतिव्रता शीलगुणोपपन्ना एकाकिनी नित्यमथो विभीता ।
गुहान्तरे दुःखपरा बभूव संरक्षिता सा सुतवीरकेण ॥ १६॥
ततः स दैत्यो वरदानमत्तः तैर्योधमुख्यैः सहितो गुहां ताम् ।
विभिन्नधैर्यः पुनराजगाम शिलीमुखैर्मारसमुद्भवैश्च ॥ १७॥
अत्यद्भुतं तत्र चकार युद्धं हित्वा तदा भोजनपाननिद्राः ।
रात्रिं दिवं पञ्चशतानि पञ्च क्रुद्धः ससैन्यैः सह वीरकेण ॥ १८॥
खड्गैः सकुन्तैः सह भिन्दिपालैः गदाभुशुण्डीभिरथो प्रकाण्डैः ।
शिलीमुखैरर्द्धशशीभिरुग्रै- र्वितस्तिभिः कूर्ममुखैर्ज्वलद्भिः ॥ १९॥
नाराचमुख्यैर्निशितैश्च शूलैः परश्वधैस्तोमरमुद्गरैश्च ।
खड्गैर्गुडैः पर्वतपादपैश्च दिव्यै रथास्त्रैरपि दैत्यसङ्घैः ॥ २०॥
नदीधितिर्भिन्नतनुः पपात द्वारं गुहायाः पिहितं समस्तम् ।
तैरायुधैर्दैत्यभुजप्रयुक्तै- र्गुहामुखे मूर्छित एव पश्चात् ॥ २१॥
आच्छादितं वीरकमस्त्रजालै- र्दैत्यैश्च सर्वैस्तु मुहूर्तमात्रम् ।
अपावृतं कर्तुमशक्यमासी- न्निरीक्ष्य देवी दितिजान् सुघोरान् ॥ २२॥
भयेन सस्मार पितामहं तु देवी सखीभिः सहिता च विष्णुम् ।
सैन्यं च मद्वीरवरस्य सर्वं सस्मारयामास गुहान्तरस्था ॥ २३॥
ब्रह्मा तया संस्मृतमात्र एव स्त्रीरूपधारी भगवांश्च विष्णुः ।
इन्द्रैश्च सर्वैः सह सैन्यकैश्च स्त्रीरूपमास्थाय समागतास्ते ॥ २४॥
भूत्वा स्त्रियस्ते विविशुस्तदानीं मुनीन्द्रसङ्घाश्च महानुभावाः ।
सिद्धाश्च नागास्त्वथ गुह्यकाश्च गुहान्तरं पर्वतराजपुत्र्याः ॥ २५॥
यस्मात्सुराज्यासनसंस्थिताना- मन्तःपुरे सङ्गमनं विरुद्धम् ।
ततः सहस्राणि नितम्बिनीना- मनन्तसङ्ख्यान्यपि दर्शयन्त्यः ॥ २६॥
रूपाणि दिव्यानि महाद्भुतानि गौर्यै गुहायां तु सवीरकार्यैः ।
स्त्रियः प्रहृष्टा गिरिराजकन्या गुहान्तरं पर्वतराजपुत्र्याः ॥ २७॥