Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो

Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 1

द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.४४. चतुश्चत्वारिंशोऽध्यायः ।

अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादः ।

सनत्कुमार उवाच ।

ततो हिरण्याक्षसुतः कदाचि- त्संश्रावितो नर्मयुतैर्मदान्धैः ।

तैर्भ्रातृभिःसम्प्रयुतो विहारे किमन्ध राज्येन तवाद्य कार्यम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 2

हिरण्यनेत्रस्तु बभूव मूढः कलिप्रियं नेत्रविहीनमेव ।

यो लब्धवांस्त्वां विकृतं विरूपं घोरैस्तपोभिर्गिरिशं प्रसाद्य ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 3

स त्वं न भागी खलु राज्यकस्य किमन्यजातोऽपि लभेत राज्यम् ।

विचार्यतां तद्भवतैव नूनं वयं तु तद्भागिन एव सत्यम् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 4

सनत्कुमार उवाच ।

तेषां तु वाक्यानि निशम्य तानि विचार्य बुद्ध्या स्वयमेव दीनः ।

तान् शान्तयित्वा विविधैर्वचोभिः गतस्त्वरण्यं निशि निर्जनं तु ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 5

वर्षायुतं तत्र तपश्चचार जजाप जाप्यं विधृतैकपादः ।

आहारहीनो नियमोर्ध्वबाहुः कर्त्तुं न शक्यं हि सुरासुरैर्यत् ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 6

प्रज्वाल्य वह्निं स्म जुहोति गात्र- मांसं सरक्तं खलु वर्षमात्रम् ।

तीक्ष्णेन शस्त्रेण निकृत्य देहात् समन्त्रकं प्रत्यहमेव हुत्वा ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 7

स्नाय्वस्थिशेषं कुणपं तदासौ क्षयं गतं शोणितमेव सर्वम् ।

यदास्य मांसानि न सन्ति देहं प्रक्षेप्तुकामस्तु हुताशनाय ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 8

ततः स दृष्टस्त्रिदशालयैर्जनैः सुविस्मितैर्भीतियुतैः समस्तैः ।

अथामरैः शीघ्रतरं प्रसादितो बभूव धाता नुतिभिर्नुतो हि ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 9

निवारयित्वाथ पितामहस्तं ह्युवाच तं चाद्य वरं वृणीष्व ।

यस्याप्तिकामस्तव सर्वलोके सुदुर्लभं दानव तं गृहाण ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 10

स पद्मयोनेस्तु वचो निशम्य प्रोवाच दीनः प्रणतस्तु दैत्यः ।

यैर्निष्ठुरैर्मे प्रहृतं तु राज्यं प्रह्रादमुख्या मम सन्तु भृत्याः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 11

अन्धस्य दिव्यं हि तथास्तु चक्षु- रिन्द्रादयो मे करदा भवन्तु ।

मृत्युस्तु माभून्मम देवदैत्य- गन्धर्वयक्षोरगमानुषेभ्यः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 12

नारायणाद्वा दितिजेन्द्रशत्रोः सर्वाज्जनात्सर्वमयाच्च शर्वात् ।

श्रुत्वा वचस्तस्य सुदारुणं तत् सुशङ्कितः पद्मभवस्तमाह ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 13

ब्रह्मोवाच ।

दैत्येन्द्र सर्वं भविता तदेतद् विनाशहेतुं च गृहाण किञ्चित् ।

यस्मान्न जातो न जनिष्यते वा यो न प्रविष्टो मुखमन्तकस्य ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 14

अत्यन्तदीर्घं खलु जीवितं तु भवादृशाः सत्पुरुषाः त्यजन्तु ।

एतद्वचः सानुनयं निशम्य पितामहात्प्राह पुनः स दैत्यः ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 15

अन्धक उवाच ।

कालत्रये याश्च भवन्ति नार्यः श्रेष्ठाश्च मध्याश्च तथा कनिष्ठाः ।

तासां च मध्ये खलु रत्नभूता ममापि नित्यं जननीव काचित् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 16

कायेन वाचा मनसाप्यगम्या नारी नृलोकस्य च दुर्लभा या ।

तां कामयानस्य ममास्तु नाशो दैत्येन्द्रभावाद्भगवान्स्वयम्भूः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 17

वाक्यं तदाकर्ण्य स पद्मयोनिः सुविस्मितः शङ्करपादपद्मम् ।

सस्मार सम्प्राप्य निदेशमाशु शम्भोस्तु तं प्राह ततोऽन्धकं वै ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 18

ब्रह्मोवाच ।

यत्काङ्क्षसे दैत्य वरांस्तु ते वै सर्वं भवत्येव वचः सकामम् ।

उत्तिष्ठः दैत्येन्द्र लभस्व कामं सदैव वीरैस्तु कुरुष्व युद्धम् ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 19

श्रुत्वा तदेतद्वचनं मुनीश विधातुराशु प्रणिपत्य भक्त्या ।

लोकेश्वरं हाटकनेत्रपुत्रः स्नाय्वस्थिशेषस्तु तमाह देवम् ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 20

अन्धक उवाच ।

कथं विभो वैरिबलं प्रविश्य ह्यनेन देहेन करोमि युद्धम् ।

स्नाय्वस्थिशेषं कुरु मांसपुष्टं करेण पुण्येन च मां स्पृशाद्य ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 21

सनत्कुमार उवाच ।

श्रुत्वा वचस्तस्य स पद्मयोनिः करेण संस्पृश्य च तच्छरीरम् ।

गतः सुरेन्द्रैः सहितः स्वधाम सम्पूज्यमानो मुनिसिद्धसङ्घैः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 22

संस्पृष्टमात्रः स च दैत्यराजः सम्पूर्णदेहो बलवान् बभूव ।

सञ्जातनेत्रः सुभगो बभूव हृष्टः स्वमेवं नगरं विवेश ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 23

उत्सृज्य राज्यं सकलं च तस्मै प्रह्लादमुख्यास्त्वथ दानवेन्द्राः ।

तमागतं लब्धवरं च मत्वा भृत्या बभूवुर्वशगास्तु तस्य ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 24

ततोऽन्धकः स्वर्गमगाद्विजेतुं सेनाभियुक्तः सहभृत्यवर्गः ।

विजित्य देवान् प्रधने समस्तान् करप्रदं वज्रधरं चकार ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 25

नागान्सुपर्णान्वरराक्षसांश्च गन्धर्वयक्षानपि मानुषांस्तु ।

गिरीन्द्रवृक्षान्समरेषु सर्वां- श्चतुष्पदः सिंहमुखान्विजिग्ये ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 26

त्रैलोक्यमेतद्धि चराचरं वै वशं चकारात्मनि सन्नियोज्य ।

ततोऽनुकूलानि सुदर्शनानि नारीसहस्राणि बहूनि गत्वा ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 31: रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यपदलाभोपाख्याने दूतसंवादो, Verse 27

रसातले चैव तथा धरायां त्रिविष्टपे याः प्रमदाः सुरूपाः ।

ताभिर्युतोऽन्येषु स पर्वतेषु रराम रम्येषु नदीतटेषु ॥ २७॥