२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 30: रुद्रसंहितायां पञ्चमे युद्धखण्डे गणाधिपत्यप्राप्त्यन्धकजन्म हिरण्यनेत्रहिरण्यकशिपुवधवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.४३. त्रिचत्वारिंशोऽध्यायः ।
गणाधिपत्यप्राप्त्यन्धकजन्म हिरण्यनेत्रहिरण्यकशिपुवधवर्णनम् ।
व्यास उवाच ।
सनत्कुमार सर्वज्ञ हते तस्मिन्सुरद्रुहि ।
किमकार्षीत्ततस्तस्य ज्येष्ठभ्राता महासुरः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
कुतूहलमिति श्रोतुं ममास्तीह मुनीश्वर ।
तच्छ्रावय कृपां कृत्वा ब्रह्मपुत्र नमोऽस्तु ते ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः ।
सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ ३॥
सनत्कुमार उवाच ।
भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना ।
हिरण्यकशिपुर्व्यास पर्यतप्यद्रुषा शुचा ॥ ४॥
ततः प्रजानां कदनं विधातुं कदनप्रियान् ।
निर्दिदेशाऽसुरान्वीरान्हरिवैरप्रियो हि सः ॥ ५॥
अथ ते भर्तृसन्देशमादाय शिरसाऽसुराः ।
देवप्रजानां कदनं विदधुः कदनप्रियाः ॥ ६॥
ततो विप्रकृते लोकेऽसुरैस्तैर्दुष्टमानसैः ।
दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥ ७॥
हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः ।
कृत्वा करोदकादीनि तत्कलत्राद्यसान्त्वयत् ॥ ८॥
ततःस दैत्यराजेन्द्रो ह्यजेयमजरामरम् ।
आत्मानमप्रतिद्वन्द्वमेकराज्यं व्यधित्सत ॥ ९॥
स तेपे मन्दरद्रोण्यां तपः परमदारुणम् ।
ऊर्ध्वबाहुर्नभोदृष्टिः षादाङ्गुष्ठाश्रितावनिः ॥ १०॥
तस्मिंस्तपस्तप्यमाने देवाःसर्वे बलान्विताः ।
दैत्यान्सर्वान्विनिर्जित्य स्वानि स्थानानि भेजिरे ॥ ११॥
तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः ।
तिर्यगूर्ध्वमधोलोकानतपद्विष्वगीरितः ॥ १२॥
तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः ।
धात्रे विज्ञापयामासुस्तत्तपोविकृताननाः ॥ १३॥
अथ विज्ञापितो देवैर्व्यास तैरात्मभूर्विधिः ।
परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ १४॥
प्रताप्य लोकानखिलांस्ततोऽसौ समागतं पद्मभवं ददर्श ।
वरं हि दातुं तमुवाच धाता वरं वृणीष्वेति पितामहोऽपि ॥
निशम्य वाचं मधुरां विधातु- र्वचोऽब्रवीदेवममूढबुद्धिः ॥ १५॥
हिरण्यकशिपुरुवाच ।
मृत्योर्भयं मे भगवन्प्रजेश पितामहाभून्न कदापि देव ।
शस्त्रास्त्रपाशाशनिशुष्कवृक्ष- गिरीन्द्रतोयाग्निरिपुप्रहारैः ॥ १६॥
देवैश्च दैत्यैर्मुनिभिश्च सिद्धैः त्वत्सृष्टजीवैर्बहुवाक्यतः किम् ।
स्वर्गे धरण्यां दिवसे निशायां नैवोर्ध्वतो नाप्यधतः प्रजेश ॥ १७॥
सनत्कुमार उवाच ।
तस्यैतदीदृग्वचनं निशम्य दैत्येन्द्र तुष्टोऽस्मि लभस्व सर्वम् ।
प्रणम्य विष्णुं मनसा तमाह दयान्वितोऽसाविति पद्मयोनिः ॥ १८॥
अलं तपस्ते परिपूर्णकामः समाः सहस्राणि च षण्णवत्यः ।
उत्तिष्ठ राज्यं कुरु दानवानां श्रुत्वा गिरं तत्सुमुखो बभूव ॥ १९॥
राज्याभिषिक्तः प्रपितामहेन त्रैलोक्यनाशाय मतिं चकार ।
उत्साद्य धर्मान् सकलान्प्रमत्तो जित्वाहवे सोऽपि सुरान्समस्तान् ॥ २०॥
ततो भयाद् इन्द्रमुखाश्च देवाः पितामहाज्ञां समवाप्य सर्वे ।
उपद्रुता दैत्यवरेण जाताः क्षीरोदधिं यत्र हरिस्तु शेते ॥ २१॥
आराधयामासुरतीव विष्णुं स्तुत्वा वचोभिः सुखदं हि मत्वा ।
निवेदयामासुरथो प्रसन्नं दुःखं स्वकीयं सकलं हि ते ते ॥ २२॥
श्रुत्वा तदीयं सकलं हि दुःखं तुष्टो रमेशः प्रददौ वरांस्तु ।
उत्थाय तस्माच्छयनादुपेन्द्रो निजानुरूपैर्विविधैर्वचोभिः ॥ २३॥
आश्वास्य देवानखिलान्मुनीन्वा उवाच वैश्वानरतुल्यतेजाः ।
दैत्यं हनिष्ये प्रसभं सुरेशाः प्रयात धामानि निजानि तुष्टाः ॥ २४॥
श्रुत्वा रमेशस्य वचः सुरेशाः शक्रादिकास्ते निखिलाः सुतुष्टाः ।
ययुः स्वधामानि हिरण्यनेत्रा- नुजं च मत्वा निहतं मुनीश ॥ २५॥
आश्रित्य रूपं जटिलं करालं दंष्ट्रायुधं तीक्ष्णनखं सुनासम् ।
सैंहं च नारं सुविदारितास्यं मार्तण्डकोटिप्रतिमं सुघोरम् ॥ २६॥