२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 29: रुद्रसंहितायां पञ्चमे युद्धखण्डे हिरण्याक्षवधो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 121 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.४१. एकचत्वारिंशोऽध्यायः ।
शङ्खचूडवधोपाख्यानम् ।
व्यास उवाच ।
नारायणश्च भगवान् वीर्याधानं चकार ह ।
तुलस्याः केन यत्नेन योनौ तद्वक्तुमर्हसि ॥ १॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.४२. द्विचत्वारिंशोऽध्यायः ।
हिरण्याक्षवधः ।
नारद उवाच ।
शङ्खचूडवधं श्रुत्वा चरितं शशिमौलिनः ।
अयं तृप्तोऽस्मि नो त्वत्तोऽमृतं पीत्वा यथा जनः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सनत्कुमार उवाच ।
नारायणो हि देवानां कार्यकर्ता सतां गतिः ।
शङ्खचूडस्य रूपेण रेमे तद्रामया सह ॥ २॥
ब्रह्मन्यच्चरितं तस्य महेशस्य महात्मनः ।
मायामाश्रित्य सल्लीलां कुर्वतो भक्तमोददाम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तदेव शृणु विष्णोश्च चरितं प्रमुदावहम् ।
शिवशासनकर्तुश्च मातुश्च जगतां हरेः ॥ ३॥
ब्रह्मोवाच ।
शङ्खचूडवधं श्रुत्वा व्यासः सत्यवतीसुतः ।
अप्राक्षीदिममेवार्थं ब्रह्मपुत्रं मुनीश्वरम् ॥ ३॥
रणमध्ये व्योमवचः श्रुत्वा देवेन शम्भुना ।
प्रेरितः शङ्खचूडस्य गृहीत्वा कवचं परम् ॥ ४॥
सनत्कुमारः प्रोवाच व्यासं सत्यवतीसुतम् ।
सुप्रशंस्य महेशस्य चरितं मङ्गलायनम् ॥ ४॥
विप्ररूपेण त्वरितं मायया निजया हरिः ।
जगाम शङ्खचूडस्य रूपेण तुलसीगृहम् ॥ ५॥
सनत्कुमार उवाच ।
शृणु व्यास महेशस्य चरितं मङ्गलायनम् ।
यथान्धको गाणपत्यं प्राप शम्भोः परात्मनः ॥ ५॥
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ ।
जयशब्दं च तत्रैव बोधयामास सुन्दरीम् ॥ ६॥
कृत्वा परमसङ्ग्रामं तेन पूर्वं मुनीश्वर ।
प्रसाद्य तं महेशानं सत्त्वभावात्पुनः पुनः ॥ ६॥
तच्छ्रुत्वा चैव सा साध्वी परमानन्दसंयुता ।
राजमार्गं गवाक्षेण ददर्श परमादरात् ॥ ७॥
माहात्म्यमद्भुतं शम्भोः शरणागतरक्षिणः ।
सुभक्तवत्सलस्यैव नानालीलाविहारिणः ॥ ७॥
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् ।
द्रुतं चकार शृङ्गारं ज्ञात्वाऽऽयातं निजं पतिम् ॥ ८॥
माहात्म्यमेतद् वृषभध्वजस्य श्रुत्वा मुनिर्गन्धवतीसुतो हि ।
वचो महार्थं प्रणिपत्य भक्त्या ह्युवाच तं ब्रह्मसुतं मुनीन्द्रम् ॥ ८॥
अवरुह्य रथाद्विष्णुस्तद्देव्या भवनं ययौ ।
शङ्खचूडस्वरूपः स मायावी देवकार्यकृत् ॥ ९॥
व्यास उवाच ।
को ह्यन्धको वै भगवन्मुनीश कस्यान्वये वीर्यवतः पृथिव्याम् ।
जातो महात्मा बलवान् प्रधानः किमात्मकः कस्य सुतोऽन्धकश्च ॥ ९॥
दृष्ट्वा तं च पुरः प्राप्तं स्वकान्तं सा मुदान्विता ।
तत्पादौ क्षालयामास ननाम च रुरोद च ॥ १०॥
एतत्समस्तं सरहस्यमद्य प्रब्रूहि मे ब्रह्मसुत प्रसादात् ।
स्कन्दान्मया वै विदितं हि सम्यक् महेशपुत्रादमितावबोधात् ॥ १०॥
रत्नसिंहासने रम्ये वासयामास मङ्गलम् ।
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ११॥
गाणपत्यं कथं प्राप शम्भोः परमतेजसः ।
सोऽन्धको धन्य एवाति यो बभूव गणेश्वरः ॥ ११॥
अद्य मे सफलं जन्म जीवनं सम्बभूव ह ।
रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १२॥
ब्रह्मोवाच ।
व्यासस्य चैतद्वचनं निशम्य प्रोवाच स ब्रह्मसुतस्तदानीम् ।
महेश्वरोतीः परमाप्तलक्ष्मीः संश्रोतुकामं जनकं शुकस्य ॥ १२॥
इत्युक्त्वा सकटाक्षं सा निरीक्ष्य सस्मितं मुदा ।
पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ १३॥
सनत्कुमार उवाच ।
पुरागतो भक्तकृपाकरोऽसौ कैलासतः शैलसुतागणाढ्यः ।
विहर्तुकामः किल काशिकां वै स्वशैलतो निर्जरचक्रवर्ती ॥ १३॥
तुलस्युवाच ।
असङ्ख्यविश्वसंहर्ता स देवप्रवरः प्रभुः ।
यस्याज्ञावर्त्तिनो देवा विष्णुब्रह्मादयः सदा ॥ १४॥