२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 26: रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे परस्परयुद्धवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.३६. षट्स्त्रिंशोऽध्यायः ।
शङ्खचूडवधे परस्परयुद्धवर्णनम् ।
सनत्कुमार उवाच ।
स दूतस्तत्र गत्वा च शिववाक्यं जगाद ह ।
सविस्तरं यथार्थं च निश्चयं तस्य तत्त्वतः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
तच्छुत्वा शङ्खचूडोऽसौ दानवेन्द्रः प्रतापवान् ।
अङ्गीचकार सुप्रीत्या रणमेव स दानवः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
समारुरोह यानं च सहामात्यैश्च सत्वरः ।
आदिदेश स्वसैन्यं च युद्धार्थं शङ्करेण च ॥ ३॥
शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरः ।
स्वयमप्यखिलेशोऽपि सन्नद्धोऽभूच्च लीलया ॥ ४॥
युद्धारम्भो बभूवाशु नेदुर्वाद्यानि भूरिशः ।
कोलाहलश्च सञ्जातो वीरशब्दस्तथैव च ॥ ५॥
देवदानवयोर्युद्धं परस्परमभून्मुने ।
धर्मतो युयुधे तत्र देवदानवयोर्गणः ॥ ६॥
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ।
भास्करो युयुधे विप्रचित्तिना सह धर्मतः ॥ ७॥
दम्भेन सह विष्णुश्च चकार परमं रणम् ।
कालासुरेण कालश्च गोकर्णेन हुताशनः ॥ ८॥
कुबेरः कालकेयेन विश्वकर्मा मयेन च ।
भयङ्करेण मृत्युश्च संहारेण यमस्तथा ॥ ९॥
कालम्बिकेन वरुणश्चञ्चलेन समीरणः ।
बुधश्च घटपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ १०॥
जयन्तो रत्नसारेण वसवो वर्चसां गणैः ।
अश्विनौ दीप्तिमद्भ्यां च धूम्रेण नलकूबरः ॥ ११॥
धुरन्धरेण धर्मश्च गणकाक्षेण मङ्गलः ।
शोभाकरेण वैश्वानः पिपिटेन च मन्मथः ॥ १२॥
गोकामुखेन चूर्णेन खड्गनाम्नासुरेण च ।
धूम्रेण संहलेनापि विश्वेन च प्रतापिना ॥ १३॥
द्वादशार्का पलाशेन युयुधुर्धर्मतः परे ।
असुरैरमराः सार्द्धं शिवसाहाय्यशालिनः ॥ १४॥
एकादश महारुद्राश्चैकादशभयङ्करैः ।
असुरैर्युयुधुर्वीरैर्महाबलपराक्रमैः ॥ १५॥
महामणिश्च युयुधे चोग्रचण्डादिभिः सह ।
राहुणा सह चन्द्रश्च जीवः शुक्रेण धर्मतः ॥ १६॥
नन्दीश्वरादयः सर्वे दानवप्रवरैः सह ।
युयुधुश्च महायुद्धे नोक्ता विस्तरतः पृथक् ॥ १७॥
वटमूले तदा शम्भुस्तस्थौ काल्याः सुतेन च ।
सर्वे च युयुधुः सैन्यसमूहाः सततं मुने ॥ १८॥
रत्नसिंहासने रम्ये कोटिदानवसंयुते ।
उवास शङ्खचूडश्च रत्नभूषणभूषितः ॥ १९॥
महायुद्धो बभूवाथ देवासुरविमर्दनः ।
नानायुधानि दिव्यानि चलन्ति स्म महामृधे ॥ २०॥
गदर्ष्टिपट्टिशाश्चक्रभुशुण्डिप्रासमुद्गराः ।
निस्त्रिंशभल्लपरिघाः शक्त्युन्मुखपरश्वधाः ॥ २१॥
शरतोमरखड्गाश्च शतघ्न्यश्च सहस्रशः ।
भिन्दिपालादयश्चान्ये वीरहस्तेषु शोभिताः ॥ २२॥
शिरांसि चिच्छिदुश्चैभिर्वीरास्तत्र महोत्सवाः ।
वीराणामुभयोश्चैव सैन्ययोर्गर्जतो रणे ॥ २३॥
गजास्तुरङ्गा बहवः स्यन्दनाश्च पदातयः ।
सारोहवाहा विविधास्तत्रासन् सुविखण्डिताः ॥ २४॥
निकृत्तबाहूरुकरकटिकर्णयुगाङ्घ्रयः ।
सञ्छिन्नध्वजबाणासितनुत्रवरभूषणाः ॥ २५॥
समुद्धतकिरीटैश्च शिरोभिः सह कुण्डलैः ।
संरम्भनष्टैरास्तीर्णा बभौ भूः करभोरुभिः ॥ २६॥
महाभुजैः साभरणैः सञ्छिन्नैः सायुधैस्तथा ।
अङ्गैरन्यैश्च सहसा पटलैर्वा ससारघैः ॥ २७॥