२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 25: रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे शिवदूतसंवादो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.३५. पञ्चत्रिंशोऽध्यायः ।
शङ्खचूडयात्रावर्णनम् ।
सनत्कुमार उवाच ।
तत्र स्थित्वा दानवेन्द्रो महान्तं दानवेश्वरम् ।
दूतं कृत्वा महाविज्ञं प्रेषयामास शङ्करम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
स तत्र गत्वा दूतश्च चन्द्रभालं ददर्श ह ।
वटमूले समासीनं सूर्यकोटिसमप्रभम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
कृत्वा योगासनं दृष्ट्या मुद्रायुक्तं च सस्मितम् ।
शुद्धस्फटिकसङ्काशं ज्वलन्तं ब्रह्मतेजसा ॥ ३॥
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरावृतम् ।
भक्तमृत्युहरं शान्तं गौरीकान्तं त्रिलोचनम् ॥ ४॥
तपसां फलदातारं कर्त्तारं सर्वसम्पदाम् ।
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकारकम् ॥ ५॥
विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ।
विश्वेस्वरं विश्वकरं विश्वसंहारकारणम् ॥ ६॥
कारणं कारणानां च नरकार्णवतारकम् ।
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ॥ ७॥
अवरुह्य रथाद् दूतस्तं दृष्ट्वा दानवेश्वरः ।
शङ्करं सकुमारं च शिरसा प्रणनाम सः ॥ ८॥
वामतो भद्रकालीं च स्कन्दं तत्पुरतः स्थितम् ।
लोकाशिषं ददौ तस्मै काली स्कन्दश्च शङ्करः ॥ ९॥
अथासौ शङ्खचूडस्य दूतः परमशास्त्रवित् ।
उवाच शङ्करं नत्वा करौ बद्ध्वा शुभं वचः ॥ १०॥
दूत उवाच ।
शङ्खचूडस्य दूतोऽहं त्वत्सकाशमिहागतः ।
वर्तते ते किमिच्छाद्य तत्त्वं ब्रूहि महेश्वर ॥ ११॥
सनत्कुमार उवाच ।
इति श्रुत्वा च वचनं शङ्खचूडस्य शङ्करः ।
प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह ॥ १२॥
महादेव उवाच ।
शृणु दूत महाप्राज्ञ वचो मम सुखावहम् ।
कथनीयमिदं तस्मै निर्विवादं विचार्य च ॥ १३॥
विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ।
मरीचिस्तस्य पुत्रश्च कश्यपस्तत्सुतः स्मृतः ॥ १४॥
दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश ।
तास्वेका च दनुः साध्वी तत्सौभाग्यविवर्द्धिनी ॥ १५॥
चत्वारस्ते दनोः पुत्रा दानवास्तेजसोल्बणाः ।
तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ॥ १६॥
तत्पुत्रो धार्मिको दम्भो दानवेन्द्रो महामतिः ।
तस्य त्वं तनयः श्रेष्ठो धर्मात्मा दानवेश्वरः ॥ १७॥
पुरा त्वं पार्षदो गोपो गोपेष्वेव च धार्मिकः ।
अधुना राधिकाशापाज्जातस्त्वं दानवेश्वरः ॥ १८॥
दानवीं योनिमायातस्तत्त्वतो न हि दानवः ।
निजवृत्तं पुरा ज्ञात्वा दैववैरं त्यजाधुना ॥ १९॥
द्रोहं न कुरु तैः सार्द्धं स्वपदं भुङ्क्ष्व सादरम् ।
नाधिकं सविकारं च कुरु राज्यं विचार्य च ॥ २०॥
देहि राज्यं च देवानां मत्प्रीतिं रक्ष दानव ।
निजराज्ये सुखं तिष्ठ तिष्ठन्तु स्वपदे सुराः ॥ २१॥
अलं भूतविरोधेन देवद्रोहेण किं पुनः ।
कुलीनाः शुद्धकर्माणः सर्वे कश्यपवंशजाः ॥ २२॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
ज्ञातिद्रोहजपापस्य कलां नार्हन्ति षोडशीम् ॥ २३॥
सनत्कुमार उवाच ।
इत्यादिबहुवार्त्तां च श्रुतिस्मृतिपरां शुभाम् ।
प्रोवाच शङ्करः तस्मै बोधयन् ज्ञानमुत्तमम् ॥ २४॥
शिक्षितः शङ्खचूडेन स दूतस्तर्कवित्तमः ।
उवाच वचनं नम्रो भवितव्यविमोहितः ॥ २५॥
दूत उवाच ।
त्वया यत्कथितं देव नान्यथा तत्तथा वचः ।
तथ्यं किञ्चिद्यथार्थं च श्रूयतां मे निवेदनम् ॥ २६॥
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ।
तत्किमीशासुराणां च न सुराणां वद प्रभो ॥ २७॥