Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं

Containing 119 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 1

विद्येश्वरसंहिता १.१६. षोडशोऽध्यायः ।

पार्थिवपूजनप्रकारास्तत्फलानि च ।

ऋषय ऊचुः ।

पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम ।

येन पूजाविधानेन सर्वाभीष्टमवाप्यते ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 2

सूत उवाच ।

सुसाधु पृष्टं युष्माभिः सदा सर्वार्थदायकम् ।

सद्यो दुःखस्य शमनं श‍ृणुत प्रब्रवीमि वः ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 3

अपमृत्युहरं कालमृत्योश्चापि विनाशनम् ।

सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 4

अन्नादिभोज्यं वस्त्रादि सर्वमुत्पद्यते यतः ।

ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 5

पुरुषाणां च नारीणामधिकारोऽत्र निश्चितम् ।

नद्यां तडागे कूपे वा जलान्तर्मृदमाहरेत् ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 6

संशोध्य गन्धचूर्णेन पेषयित्वा सुमण्डपे ।

हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 7

अङ्गप्रत्यङ्गकोपेतामायुधैश्च समन्विताम् ।

पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 8

विघ्नेशादित्यविष्णूनामम्बायाश्च शिवस्य च ।

शिवस्य शिवलिङ्गं च सर्वदा पूजयेद् द्विजः ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 9

षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये ।

पुष्पेण प्रोक्षणं कुर्यादभिषेकं समन्त्रकम् ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 10

शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः ।

गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 11

दैवे प्रस्थत्रयं योग्यं स्वयम्भोः प्रस्थपञ्चकम् ।

एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 12

सहस्रपूजया सत्यं सत्यलोकं लभेद् द्विजः ।

द्वादशाङ्गुलमायामं द्विगुणं च ततोऽधिकम् ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 13

प्रमाणमङ्गुलस्यैकं तदूर्ध्वं पञ्चकत्रयम् ।

अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 14

तदष्टभागः प्रस्थः स्यात्तच्चतुष्कुडवं मतम् ।

दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च ॥ १४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 15

जलतैलादिगन्धानां यथायोग्यं च मानतः ।

मानुषार्षस्वयम्भूनां महापूजेति कथ्यते ॥ १५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 16

अभिषेकादात्मशुद्धिर्गन्धात्पुण्यमवाप्यते ।

आयुस्तृप्तिश्च नैवेद्याद् धूपादर्थमवाप्यते ॥ १६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 17

दीपाज्ज्ञानमवाप्नोति ताम्बूलाद्भोगमाप्नुयात् ।

तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् ॥ १७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 18

नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ ।

पूजान्ते च सदा कार्यौ भोगमोक्षार्थिभिर्नरैः ॥ १८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 19

सम्पूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः ।

देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् ॥ १९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 20

तदवान्तरलोके च यथेष्टं भोग्यमाप्यते ।

तद्विशेषान्प्रवक्ष्यामि श‍ृणुत श्रद्धया द्विजाः ॥ २०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 21

विघ्नेशपूजया सम्यग्भूर्लोकेऽभीष्टमाप्नुयात् ।

शुक्रवारे चतुर्थ्याञ्च सिते श्रावणभाद्रके ॥ २१॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 22

भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् ।

शतं पूजा सहस्रं वा तत्सङ्ख्याकदिनैर्व्रजेत् ॥ २२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 23

देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् ।

सर्वपापप्रशमनं तत्तद्दुरितनाशनम् ॥ २३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 24

वारपूजां शिवादीनामात्मशुद्धिप्रदां विदुः ।

तिथिनक्षत्रयोगानामाधारं सार्वकामिकम् ॥ २४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 25

तथा वृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः ।

उदयादुदयं वारो ब्रह्मप्रभृतिकर्मणाम् ॥ २५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 26

तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् ।

पूर्वभागः पितॄणां तु निशियुक्तः प्रशस्यते ॥ २६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 27

परभागस्तु देवानां दिवायुक्तः प्रशस्यते ।

उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ॥ २७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 14: विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं, Verse 28

देवकार्ये तथा ग्राह्यास्तिथिऋक्षादिकाः शुभाः ।

सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् ॥ २८॥