२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 24: रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडयात्रावर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.३४. चतुस्त्रिंशोऽध्यायः ।
शङ्खचूडयात्रावर्णनम् ।
व्यास उवाच ।
विधितात महाबुद्धे मुने जीव चिरं समाः ।
कथितं सुमहच्चित्रं चरितं चन्द्रमौलिनः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
शिवदूते गते तत्र शङ्खचूडश्च दानवः ।
किं चकार प्रतापी स तत्त्वं वद सुविस्तरम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सनत्कुमार उवाच ।
अथ दूते गते तत्र शङ्खचूडः प्रतापवान् ।
उवाच तुलसीं वार्तां गत्वाभ्यन्तरमेव ताम् ॥ ३॥
शङ्खचूड उवाच ।
शम्भुदूतमुखाद्देवि युद्धायाहं समुद्यतः ।
तेन गच्छाम्यहं योद्धुं शासनं कुरु मे ध्रुवम् ॥ ४॥
इत्येवमुक्त्वा स ज्ञानी नानाबोधनतः प्रियाम् ।
क्रीडां चकार हर्षेण तमनादृत्य शङ्करम् ॥ ५॥
तौ दम्पती चिक्रीडाते निमग्नौ सुखसागरे ।
नानाकामकलाभिश्च निशि चाटुशतैरपि ॥ ६॥
ब्राह्मे मुहूर्ते चोत्थाय प्रातःकृत्यं विधाय च ।
नित्यकार्यं च कृत्वादौ ददौ दानमनन्तकम् ॥ ७॥
पुत्रं कृत्वा च राजेन्द्रं सर्वेषु दानवेषु च ।
पुत्रे समर्प्य भार्यां च स राज्यं सर्वसम्पदम् ॥ ८॥
प्रियामाश्वासयामास स राजा रुदतीं पुनः ।
निषेधन्तीं च गमनं नाना वार्तां प्रकथ्य च ॥ ९॥
निजसेनापतिं वीरं समाहूय समादृतः ।
आदिदेश स सनद्धः सङ्ग्रामं कर्तुमुद्यतः ॥ १०॥
शङ्खचूड उवाच ।
अद्य सेनापते वीराः सर्वे समरशालिनः ।
सन्नद्धाखिलकर्माणो निर्गच्छन्तु रणाय च ॥ ११॥
दैत्याश्च दानवाः शूरा षडशीतिरुदायुधाः ।
कङ्कानां बलिनां शीघ्रं सेना निर्यान्तु निर्भयाः ॥ १२॥
पञ्चाशदसुराणां हि निर्गच्छन्तु कुलानि वै ।
कोटिवीर्याणि युद्धार्थं शम्भुना देवपक्षिणा ॥ १३॥
सन्नद्धानि च धौम्राणां कुलानि च शतं द्रुतम् ।
निर्गच्छन्तु रणार्थं हि शम्भुना मम शासनात् ॥ १४॥
कालकेयाश्च मौर्याश्च दौर्हृदाः कालकास्तथा ।
सज्जा निर्यान्तु युद्धाय रुद्रेण मम शासनात् ॥ १५॥
सनत्कुमार उवाच ।
इत्याज्ञाप्यासुरपतिर्दानवेन्द्रो महाबलः ।
निर्जगाम महासैन्यः सहस्रैर्बहुभिर्वृतः ॥ १६॥
तस्य सेनापतिश्चैव युद्धशास्त्रविशारदः ।
महारथो महावीरो रथिनां प्रवरो रणे ॥ १७॥
त्रिलक्षाक्षौहिणीयुक्तो माण्डल्यं च चकार ह ।
बहिर्बभूव शिविराद्रणे वीरभयङ्करः ॥ १८॥
रत्नेन्द्रसारनिर्माणं विमानमभिरुह्य सः ।
गुरुवर्गं पुरस्कृत्य रणार्थं प्रययौ किल ॥ १९॥
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।
सिद्धाश्रमे च सिद्धानां सिद्धिक्षेत्रं सुसिद्धिदम् ॥ २०॥
कपिलस्य ततःस्थानं पुण्यक्षेत्रे च भारते ।
पश्चिमोदधिपूर्वे च मलयस्य हि पश्चिमे ॥ २१॥
श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे ।
पञ्चयोजनविस्तीर्णे दैर्घ्ये शतगुणस्तथा ॥ २२॥
शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा ।
पुष्पभद्रा नदी रम्या जलपूर्णा सरस्वती ॥ २३॥
लवणोदधिप्रिया भार्या शश्वत्सौभाग्यसंयुता ।
सरस्वतीसंश्रिता च निर्गता सा हिमालयात् ॥ २४॥
गोमन्तं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।
तत्र गत्वा शङ्खचूडः शिवसेनां ददर्श ह ॥ २५॥