२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 23: रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे महादेवयुद्धयात्रावर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.३३. त्रयस्त्रिंशोऽध्यायः ।
शङ्खचूडवधे महादेवयुद्धयात्रावर्णनम् ।
सनत्कुमार उवाच ।
तस्य दूतस्य तद्वाक्यमाकर्ण्य सुरराट् ततः ।
सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
रुद्र उवाच ।
हे वीरभद्र हे नन्दिन् क्षेत्रपालष्टभैरवाः ।
सर्वे गणाश्च सन्नद्धाः सायुधा बलशालिनः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
शङ्खचूडवधार्थाय निर्गच्छाम्यद्य सत्वरम् ॥ ३॥
कुमाराभ्यां सहैवाद्य निर्गच्छन्तु ममाज्ञया ।
स्वसेनया भद्रकाली निर्गच्छतु रणाय च ॥
सनत्कुमार उवाच ।
इत्याज्ञाप्य महेशानो निर्ययौ सैन्यसंयुतः ।
सर्वे वीरगणास्तस्यानुययुः सम्प्रहर्षिताः ॥ ४॥
एतस्मिन्नन्तरे स्कन्दगणेशौ सर्वसैन्यपौ ।
ययतुर्मुदितौ नद्धौ सायुधौ च शिवान्तिके ॥ ५॥
वीरभद्रश्च नन्दी च महाकालः सुभद्रकः ।
विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः ॥ ६॥
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ।
कपिलाख्यो दीर्घदंष्द्रो विकरस्ताम्रलोचनः ॥ ७॥
कालङ्करो बलीभद्रः कालजिह्वः कुटीचरः ।
बलोन्मत्तो रणश्लाघ्यो दुर्जयो दुर्गमस्तथा ॥ ८॥
इत्यादयो गणेशानाः सैन्यानां पतयो वराः ।
तेषां च गणनां वच्मि सावधानतया शृणु ॥ ९॥
शङ्खकर्णः कोटिगणैर्युतः परविमर्दकः ।
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ १०॥
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः ।
षड्भिः सर्वान्तकः श्रीमांस्तथैव विकृताननः ॥ ११॥
जालको हि द्वादशभिः कोटिभिर्गणपुङ्गवः ।
सप्तभिः समदः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२॥
पञ्चभिश्च करालाक्षः षड्भिः सन्दारको वरः ।
कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ॥ १३॥
विष्टम्भोऽष्टाभिरेवेह गणपः सर्वसत्तमः ।
पिप्पलश्च सहस्रेण सन्नादश्च तथाविधः ॥ १४॥
आवेशनस्तथाष्टाभिस्त्वष्टभिश्चन्द्रतापनः ।
महाकेशः सहस्रेण कोटीनां गणपो वृतः ॥ १५॥
कुण्डी द्वादशभिर्वीरैस्तथा पर्वतकः शुभः ।
कालश्च कालकश्चैव महाकालशतेन वै ॥ १६॥
अग्निकः शतकोट्या च कोट्याग्निमुख एव च ।
आदित्यो ह्यर्द्धकोट्या च तथा चैव घनावहः ॥ १७॥
सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा ।
अमोघः कोकिलश्चैव शतकोट्या सुमन्त्रकः ॥ १८॥
काकपादः कोटिषष्ट्या षष्ट्या सन्तानकस्तथा ।
महाबलश्च नवभिः पञ्चभिर्मधुपिङ्गलः ॥ १९॥
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ।
कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ २०॥
कोटिकोटिसहस्राणां शतैर्विंशतिभिस्तथा ।
तत्राजग्मुस्तथा वीरास्ते सर्वे सङ्गरोत्सवे ॥ २१॥
भूतकोटिसहस्रेण प्रमथैर्कोटिभिस्त्रिभिः ।
वीरभद्रश्चतुःषष्ट्या लोमजानां त्रिकोटिभिः ॥ २२॥
काष्ठारूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा ।
विरूपाक्षश्च भगवांश्चतुःषष्ट्या सनातनः ॥ २३॥
तालकेतुः षडास्यश्च पञ्चास्यश्च प्रतापवान् ।
संवर्तकस्तथा चैत्रो लङ्कुलीशः स्वयं प्रभुः ॥ २४॥
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तकः प्रभुः ।
देवो भृङ्गीरिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २५॥
अशनिर्भानुकश्चैव चतुःषष्ट्या सहस्रशः ।
कङ्कालः कालकः कालो नन्दी सर्वान्तकस्तथा ॥ २६॥