२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 21: रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडोत्पत्तिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.२७. सप्तविंशोऽध्यायः ।
शङ्खचूडोत्पत्तिवर्णनम् ।
सनत्कुमार उवाच ।
अथान्यच्छम्भुचरितं प्रेमतः शृणु वै मुने ।
यस्य श्रवणमात्रेण शिवभक्तिर्दृढा भवेत् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
शङ्खचूडाभिधो वीरो दानवो देवकण्टकः ।
यथा शिवेन निहतो रणमूर्ध्नि त्रिशूलतः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तच्छम्भुचरितं दिव्यं पवित्रं पापनाशनम् ।
शृणु व्यास सुसम्प्रीत्या वच्मि सुस्नेहतस्तव ॥ ३॥
मरीचेस्तनयो धातुः पुत्रो यः कश्यपो मुनिः ।
स धर्मिष्ठःसृष्टिकर्त्ता विद्याज्ञप्तः प्रजापतिः ॥ ४॥
दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश ।
तासां प्रसूतिः प्रसभं न कथ्या बहुविस्तृताः ॥ ५॥
यत्र देवादिनिखिलं चराचरमभूज्जगत् ।
विस्तरात्तत्प्रवक्तुं च कः क्षमोऽस्ति त्रिलोकके ॥ ६॥
प्रस्तुतं शृणु वृत्तान्तं शम्भुलीलान्वितं च यत् ।
तदेव कथयाम्यद्य शृणु भक्तिप्रवर्द्धनम् ॥ ७॥
तासु कश्यपपत्नीषु दनुस्त्वेका वराङ्गना ।
महारूपवती साध्वी पतिसौभाग्यवर्द्धिता ॥ ८॥
आसंस्तस्या दनोः पुत्रा बहवो बलवत्तराः ।
तेषां नामानि नोच्यन्ते विस्तारभयतो मुने ॥ ९॥
तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ।
तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः ॥ १०॥
नासीत्तत्तनयो वीरस्ततश्चिन्तापरोऽभवत् ।
शुक्राचार्यं गुरुं कृत्वा कृष्णमन्त्रमवाप्य च ॥ ११॥
तपश्चकार परमं पुष्करे लक्षवर्षकम् ।
कृष्णमन्त्रं जजापैव दृढं बद्ध्वासनं चिरम् ॥ १२॥
तपः प्रकुर्वतस्तस्य मूर्ध्नो निःसृत्य प्रज्वलत् ।
विससार च सर्वत्र तत्तेजो हि सुदुःसहम् ॥ १३॥
तेन तप्ताः सुराः सर्वे मुनयो मनवस्तथा ।
सुनासीरं पुरस्कृत्य ब्रह्माणं शरणं ययुः ॥ १४॥
प्रणम्य च विधातारं दातारं सर्वसम्पदाम् ।
तुष्टुवुर्विकलाः प्रोचुः स्ववृत्तान्तं विशेषतः ॥ १५॥
तदाकर्ण्य विधातापि वैकुण्ठं तैर्ययौ सह ।
तदेव विज्ञापयितुं निखिलेन हि विष्णवे ॥ १६॥
तत्र गत्वा त्रिलोकेशं विष्णुं रक्षाकरं परम् ।
प्रणम्य तुष्टुवुःसर्वे करौ बद्ध्वा विनम्रकाः ॥ १७॥
देवा ऊचुः ।
देवदेव न जानीमो जातं किं कारणं त्विह ।
सन्तप्ताः सकला जातास्तेजसा केन तद्वद ॥ १८॥
तप्तात्मनां त्वमविता दीनबन्धोऽनुजीविनाम् ।
रक्ष रक्ष रमानाथ शरण्यः शरणागतान् ॥ १९॥
सनत्कुमार उवाच ।
इति श्रुत्वा वचो विष्णुर्ब्रह्मादीनां दिवौकसाम् ।
उवाच विहसन्प्रेम्णा शरणागतवत्सलः ॥ २०॥
विष्णुरुवाच ।
सुस्वस्था भवताव्यग्रा न भयं कुरुतामराः ।
नोपप्लवा भविष्यन्ते लयकालो न विद्यते ॥ २१॥
दानवो दम्भनामा हि मद्भक्तः कुरुते तपः ।
पुत्रार्थी शमयिष्यामि तमहं वरदानतः ॥ २२॥
सनत्कुमार उवाच ।
इत्युक्तास्ते सुराःसर्वे धैर्यमालम्ब्य वै मुने ।
ययुर्ब्रह्मादयः सुस्थाः स्वस्वधामानि सर्वशः ॥ २३॥
अच्युतोऽपि वरं दातुं पुष्करं सञ्जगाम ह ।
तपश्चरति यत्रासौ दम्भनामा हि दानवः ॥ २४॥
तत्र गत्वा वरं ब्रूहीत्युवाच परिसान्त्वयन् ।
गिरा सूनृतया भक्तं जपन्तं स्वमनुं हरिः ॥ २५॥
तच्छ्रुत्वा वचनं विष्णोर्दृष्ट्वा तं च पुरः स्थितम् ।
प्रणनाम महाभक्त्या तुष्टाव च पुनः पुनः ॥ २६॥
दम्भ उवाच ।
देवदेव नमस्तेऽस्तु पुण्डरीकविलोचन ।
रमानाथ त्रिलोकेश कृपां कुरु ममोपरि ॥ २७॥