Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं

Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.२६. षड्विंशोऽध्यायः ।

जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनम् ।

व्यास उवाच ।

ब्रह्मपुत्र नमस्तेऽस्तु धन्यस्त्वं शैवसत्तम ।

यच्छ्राविता महादिव्या कथेयं शाङ्करी शुभा ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 2

इदानीं ब्रूहि सुप्रीत्या चरितं वैष्णवं मुने ।

स वृन्दां मोहयित्वा तु किमकार्षीत्कुतो गतः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 3

सनत्कुमार उवाच ।

श‍ृणु व्यास महाप्राज्ञ शैवप्रवर सत्तम ।

वैष्णवं चरितं शम्भुचरिताढ्यं सुनिर्मलम् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 4

मौनीभूतेषु देवेषु ब्रह्मादिषु महेश्वरः ।

सुप्रसन्नोऽवदच्छम्भुः शरणागतवत्सलः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 5

शम्भुरुवाच ।

ब्रह्मन्देववराः सर्वे भवदर्थे मया हतः ।

जलन्धरो मदंशोऽपि सत्यं सत्यं वदाम्यहम् ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 6

सुखमापुर्न वा ताताः सत्यं ब्रूतामराः खलु ।

भवत्कृते हि मे लीला निर्विकारस्य सर्वदा ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 7

सनत्कुमार उवाच ।

अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः ।

प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 8

देवा ऊचुः ।

महादेव त्वया देव रक्षिताः शत्रुजाद् भयात् ।

किञ्चिदन्यत्समुद्भूतं तत्र किं करवामहै ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 9

वृन्दा विमोहिता नाथ विष्णुना हि प्रयत्नतः ।

भस्मीभूता द्रुतं वह्नौ परमां गतिमागता ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 10

वृन्दालावण्यसम्भ्रान्तो विष्णुस्तिष्ठति मोहितः ।

तच्चिताभस्मसन्धारी तव मायाविमोहितः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 11

स सिद्धमुनिसङ्घैश्च बोधितोऽस्माभिरादरात् ।

न बुध्यते हरिः सोऽथ तव मायाविमोहितः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 12

कृपां कुरु महेशान विष्णुं बोधय बोधय ।

त्वदधीनमिदं सर्वं प्राकृतं सचराचरम् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 13

सनत्कुमार उवाच ।

इत्याकर्ण्य महेशो हि वचनं त्रिदिवौकसाम् ।

प्रत्युवाच महालीलः स्वच्छन्दस्तान्कृताञ्जलीन् ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 14

महेश उवाच ।

हे ब्रह्मन्हे सुराः सर्वे मद्वाक्यं श‍ृणुतादरात् ।

मोहिनी सर्वलोकानां मम माया दुरत्यया ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 15

तदधीनं जगत्सर्वं यद्देवासुरमानुषम् ।

तयैव मोहितो विष्णुः कामाधीनोऽभवद्धरिः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 16

उमाख्या सा महादेवी त्रिदेवजननी परा ।

मूलप्रकृतिराख्याता सुरामा गिरिजात्मिका ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 17

गच्छध्वं शरणं देवा विष्णुमोहापनुत्तये ।

शरण्यां मोहिनीं मायां शिवाख्यां सर्वकामदाम् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 18

स्तुतिं कुरुत तस्याश्च मच्छक्तेस्तोषकारिणीम् ।

सुप्रसन्ना यदि च सा सर्वं कार्यं करिष्यति ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 19

सनत्कुमार उवाच ।

इत्युक्त्वा तान्सुरान् शम्भुः पञ्चास्यो भगवान्हरः ।

अन्तर्दधे द्रुतं व्यास सर्वैश्च स्वगणैः सह ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 20

देवाश्च शासनाच्छम्भोर्ब्रह्माद्या हि सवासवाः ।

मनसा तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 21

देवा ऊचुः ।

यदुद्भवाः सत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसविधानकारकाः ।

यदिच्छया विश्वमिदं भवाभवौ तनोति मूलप्रकृतिं नताः स्म ताम् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 22

पाहि त्रयोविंशगुणान् सुशब्दितान् जगत्यशेषे समधिष्ठिता परा ।

यद्रूपकर्माणि जगत्त्रयोऽपि ते विदुर्न मूलप्रकृतिं नताः स्म ताम् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 23

यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यमोहात्ययसम्भवादीन् ।

न प्राप्नुवन्त्येव हि भक्तवत्सलां सदैव मूलप्रकृतिं नताः स्म ताम् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 24

कुरु कार्यं महादेवि देवानां नः परेश्वरि ।

विष्णुमोहं हर शिवे दुर्गे देवि नमोऽस्तु ते ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 25

जलन्धरस्य शम्भोश्च रणे कैलासवासिनः ।

प्रवृत्ते तद्वधार्थाय गौरीशासनतः शिवे ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 26

वृन्दा विमोहिता देवि विष्णुना हि प्रयत्नतः ।

स्ववृषात्त्याजिता वह्नौ भस्मीभूता गतिं गता ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 20: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं, Verse 27

जलन्धरो हतो युद्धे तद्भयान्मोचिता वयम् ।

गिरिशेन कृपां कृत्वा भक्तानुग्रहकारिणा ॥ २७॥