२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 19: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवस्तुतिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.२५. पञ्चविंशोऽध्यायः ।
जलन्धरवधोपाख्याने देवस्तुतिवर्णनम् ।
सनत्कुमार उवाच ।
अथ ब्रह्मादयो देवा मुनयश्चाखिलास्तथा ।
तुष्टुवुर्देवदेवेशं वाग्भिरिष्टाभिरानताः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
देवा ऊचुः ।
देवदेव महादेव शरणागतवत्सल ।
साधुसौख्यप्रदस्त्वं हि सर्वदा भक्तदुःखहा ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
त्वं महाद्भुतसल्लीलो भक्तिगम्यो दुरासदः ।
दुराराध्योऽसतां नाथ प्रसन्नः सर्वदा भव ॥ ३॥
वेदोऽपि महिमानं ते न जानाति हि तत्त्वतः ।
यथामति महात्मानः सर्वे गायन्ति सद्यशः ॥ ४॥
माहात्म्यमतिगूढं ते सहस्रवदनादयः ।
सदा गायन्ति सुप्रीत्या पुनन्ति स्वगिरं हि ते ॥ ५॥
कृपया तव देवेश ब्रह्मज्ञानी भवेज्जडः ।
भक्तिगम्यः सदा त्वं वा इति वेदा ब्रुवन्ति हि ॥ ६॥
त्वं वै दीनदयालुश्च सर्वत्र व्यापकः सदा ।
आविर्भवसि सद्भक्त्या निर्विकारःसतां गतिः ॥ ७॥
भक्त्यैव ते महेशान बहवः सिद्धिमागताः ।
इह सर्वसुखं भुक्त्वा दुःखिता निर्विकारतः ॥ ८॥
पुरा यदुपतिर्भक्तो दाशार्हः सिद्धिमागतः ।
कलावती च तत्पत्नी भक्त्यैव परमां प्रभो ॥ ९॥
तथा मित्रसहो राजा मदयन्ती च तत्प्रिया ।
भक्त्यैव तव देवेश कैवल्यं परमं ययौ ॥ १०॥
सौमिनी नाम तनया कैकेयाग्रभुवस्तथा ।
तव भक्त्या सुखं प्राप परं सद्योगिदुर्लभम् ॥ ११॥
विमर्षणो नृपवरः सप्तजन्मावधि प्रभो ।
भुक्त्वा भोगांश्च विविधांस्त्वद्भक्त्या प्राप सद्गतिम् ॥ १२॥
चन्द्रसेनो नृपवरः त्वद्भक्त्या सर्वभोगभुक् ।
दुःखमुक्तः सुखं प्राप परमत्र परत्र च ॥ १३॥
गोपीपुत्रः श्रीकरस्ते भक्त्या भुक्त्वेह सद्गतिम् ।
परं सुखं महावीरशिष्यः प्राप परत्र वै । १४॥
त्वं सत्यरथभूजानेर्दुःखहर्ता गतिप्रदः ।
धर्मगुप्तं राजपुत्रमतार्षीःसुखिनं त्विह ॥ १५॥
तथा शुचिव्रतं विप्रमदरिद्रं महाप्रभो ।
त्वद्भक्तिवर्तिनं मात्रा ज्ञानिनं कृपयाऽकरोः ॥ १६॥
चित्रवर्मा नृपवरस्त्वद्भक्त्या प्राप सद्गतिम् ।
इह लोके सदा भुक्त्वा भोगानमरदुर्लभान् ॥ १७॥
चन्द्राङ्गदो राजपुत्रः सीमन्तिन्या स्त्रिया सह ।
विहाय सकलं दुःखं सुखी प्राप महागतिम् ॥ १८॥
द्विजो मन्दरनामापि वेश्यागामी खलोऽधमः ।
त्वद्भक्तः शिव सम्पूज्य तया सह गतिं गतः ॥ १९॥
भद्रायुस्ते नृपसुतः सुखमाप गतव्यथः ।
त्वद्भक्तिकृपया मात्रा गतिं च परमां प्रभो ॥ २०॥
सर्वस्त्रीभोगनिरतो दुर्जनस्तव सेवया ।
विमुक्तोऽभूदपि सदाऽभक्ष्यभोजी महेश्वर ॥ २१॥
शम्बरः शङ्करे भक्तश्चिताभस्मधरः सदा ।
नियमाद्भस्मनः शम्भो स्वस्त्रिया ते पुरं गतः ॥ २२॥
भद्रसेनस्य तनयस्तथा मन्त्रिसुतः प्रभो ।
सुधर्मशुभकर्माणो सदा रुद्राक्षधारिणौ ॥ २३॥
त्वत्कृपातश्च तौ मुक्तावास्तां भुक्त्वेह सत्सुखम् ।
पूर्वजन्मनि यौ कीशकुक्कुटौ रुद्रभूषणौ ॥ २४॥
पिङ्गला च महानन्दा वेश्ये द्वे तव भक्तितः ।
सद्गतिं प्रापतुर्नाथ भक्तोद्धारपरायण ॥ २५॥
शारदा विप्रतनया बालवैधव्यमागता ।
तव भक्तेः प्रभावात्तु पुत्रसौभाग्यवत्यभूत् ॥ २६॥
बिन्दुगो द्विजमात्रो हि वेश्याभोगी च तत्प्रिया ।
वञ्चुका त्वद्यशः श्रुत्वा परमां गतिमाययौ ॥ २७॥