२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 18: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने जलन्धरवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.२४. चतुर्विंशोऽध्यायः ।
जलन्धरवर्णनम् ।
व्यास उवाच ।
विधेः श्रेष्ठसुत प्राज्ञः कथेयं श्राविताद्भुता ।
ततश्च किमभूदाजौ कथं दैत्यो हतो वद ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सनत्कुमार उवाच ।
अदृश्य गिरिजां तत्र दैत्येन्द्रे रणमागते ।
गान्धर्वे च विलीने हि चैतन्योऽभूद्वृषध्वजः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
अन्तर्धानगतां मायां दृष्ट्वा बुद्धो हि शङ्करः ।
चुक्रोधातीव संहारी लौकिकीं गतिमाश्रितः ॥ ३॥
ततः शिवो विस्मितमानसः पुन- र्जगाम युद्धाय जलन्धरं रुषा ।
स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरोघैःसमवाकिरद्रणे ॥ ४॥
क्षिप्तं प्रभुस्तं शरजालमुग्रं जलन्धरेणातिबलीयसा हरः ।
द्रुतं प्रचिच्छेदशरैर्वरैर्निजै- र्न चित्रमत्र त्रिभवप्रहन्तुः ॥ ५॥
ततो जलन्धरो दृष्ट्वा रुद्रमद्भुतविक्रमम् ।
चकार मायया गौरीं त्र्यम्बकं मोहयन्निव ॥ ६॥
रथोपरि गतां बद्धां रुदन्तीं पार्वतीं शिवः ।
निशुम्भशुम्भदैत्यैश्च वध्यमानां ददर्श सः ॥ ७॥
गौरीं तथाविधां दृष्ट्वा लौकिकीं दर्शयन् गतिम् ।
बभूव प्राकृत इव शिवोऽप्युद्विग्नमानसः ॥ ८॥
अवाङ्मुखस्थितस्तूष्णीं नानालीलाविशारदः ।
शिथिलाङ्गो विषण्णात्मा विस्मृत्य स्वपराक्रमम् ॥ ९॥
ततो जलन्धरो वेगात् त्रिभिर्विव्याध सायकैः ।
आपुङ्खमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ॥ १०॥
ततो रुद्रो महालीलो ज्ञाततत्त्वः क्षणात्प्रभुः ।
रौद्ररूपधरो जातो ज्वालामालातिभीषणः ॥ ११॥
तस्यातीव महारौद्ररूपं दृष्ट्वा महासुराः ।
न शेकुः प्रमुखे स्थातुं भेजिरे ते दिशो दश ॥ १२॥
निशुम्भशुम्भावपि यौ विख्यातौ वीरसत्तमौ ।
अपि तौ शेकतुर्नैव रणे स्थातुं मुनीश्वर ॥ १३॥
जलन्धरकृता मायान्तर्हिताभूच्च तत्क्षणम् ।
हाहाकारो महानासीत्सङ्ग्रामे सर्वतोमुखे ॥ १४॥
ततः शापं ददौ रुद्रस्तयोः शुम्भनिशुम्भयोः ।
पलायमानौ तौ दृष्ट्वा धिक्कृत्य क्रोधसंयुतः ॥ १५॥
रुद्र उवाच ।
युवां दुष्टावतिखलावपराधकरौ मम ।
पार्वतीदण्डदातारौ रणादस्मात्पराङ्मुखौ ॥ १६॥
पराङ्मुखो न हन्तव्य इति वध्यौ न मे युवाम् ।
मम युद्धादतिक्रान्तौ गौर्य्या वध्यौ भविष्यतः ॥ १७॥
एवं वदति गौरीशे सिन्धुपुत्रो जलन्धरः ।
चुक्रोधातीव रुद्राय ज्वलज्ज्वलनसन्निभः ॥ १८॥
रुद्रे रणे महावेगाद्ववर्ष निशितान् शरान् ।
बाणान्धकारसञ्छन्नं तथा भूमितलं ह्यभूत् ॥ १९॥
यावद् रुद्रः प्रचिच्छेद तस्य बाणगणान् द्रुतम् ।
तावत्स परिघेणाशु जघान वृषभं बली ॥ २०॥
वृषस्तेन प्रहारेण परवृत्तो रणाङ्गणात् ।
रुद्रेण कृश्यमाणोऽपि न तस्थौ रणभूमिषु ॥ २१॥
अथ लोके महारुद्रः स्वीयं तेजोऽतिदुःसहम् ।
दर्शयामास सर्वस्मै सत्यमेतन्मुनीश्वर ॥ २२॥
ततः परमसङ्क्रुद्धो रुद्रो रौद्रवपुर्धरः ।
प्रलयानलवद् घोरो बभूव सहसा प्रभुः ॥ २३॥
दृष्ट्वा पुरःस्थितं दैत्यं मेरुकूटमिव स्थितम् ।
अवध्यत्वमपि श्रुत्वाप्यन्यैरभ्युद्यतोऽभवत् ॥ २४॥
ब्रह्मणो वचनं रक्षन् रक्षको जगतां प्रभुः ।
हृदानुग्रहमातन्वंस्तद्वधाय मनो दधत् ॥ २५॥
कोपं कृत्वा परं शूली पादाङ्गुष्ठेन लीलया ।
महाम्भसि चकाराशु रथाङ्गं रौद्रमद्भुतम् ॥ २६॥
कृत्वार्णवाम्भसि शितं भगवान् रथाङ्गं स्मृत्वा जगत्त्रयमनेन हतं पुरारिः ।
दक्षान्धकान्तकपुरत्रययज्ञहन्ता लोकत्रयान्तककरः प्रहसन्नुवाच ॥ २७॥