२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 17: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने वृन्दापातिव्रतभङ्गदेहत्यागवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.२३. त्रयोविंशोऽध्यायः ।
जलन्धरवधोपाख्याने वृन्दापातिव्रतभङ्गदेहत्यागवर्णनम् ।
व्यास उवाच ।
सनत्कुमार सर्वज्ञ वद त्वं वदतां वर ।
किमकार्षीद्धरिस्तत्र धर्मं तत्याज सा कथम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
॥
श्रीशिवमहापुराणम् ॥
वृन्दां स दर्शयामास स्वप्नं मायाविनां वरः ।
स्वयं तन्नगरोद्यानमास्थितोऽद्भुतविग्रहः ॥ ३॥
सनत्कुमार उवाच ।
विष्णुर्जालन्धरं गत्वा दैत्यस्य पुटभेदनम् ॥
अथ वृन्दा तदा देवी तत्पत्नी निशि सुव्रता ।
हरेर्मायाप्रभावात्तु दुस्स्वप्नं सा ददर्श ह ॥ ४॥
पातिव्रत्यस्य भङ्गाय वृन्दायाश्चाकरोन्मतिम् । २॥
स्वप्नमध्ये हि सा विष्णुमायया प्रददर्श ह ।
भर्त्तारं महिषारूढं तैलाभ्यक्तं दिगम्बरम् ॥ ५॥
कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् ।
दक्षिणाशां गतं मुण्डं तमसा च वृतं तदा ॥ ६॥
स्वपुरं सागरे मग्नं सहसैवात्मना सह ।
इत्यादि बहुदुःस्वप्नान्निशान्ते सा ददर्श ह ॥ ७॥
ततः प्रबुध्य सा बाला तं स्वप्नं स्वं विचिन्वती ।
ददर्शोदितमादित्यं सच्छिद्रं निष्प्रभं मुहुः ॥ ८॥
तदनिष्टमिदं ज्ञात्वा रुदन्ती भयविह्वला ।
कुत्रचिन्नाप सा शर्म गोपुराट्टालभूमिषु ॥ ९॥
ततःसखीद्वययुता नगरोद्यानमागमत् ।
तत्रापि सा गता बाला न प्राप कुत्रचित्सुखम् ॥ १०॥
ततो जलन्धरस्त्री सा निर्विण्णोद्विग्नमानसा ।
वनाद्वनान्तरं याता नैव वेदात्मना तदा ॥ ११॥
भ्रमती सा ततो बाला ददर्शातीव भीषणौ ।
राक्षसौ सिंहवदनौ दृष्ट्वा दशनभासुरौ ॥ १२॥
तौ दृष्ट्वा विह्वलातीव पलायनपरा तदा ।
ददर्श तापसं शान्तं सशिष्यं मौनमास्थितम् ॥ १३॥
ततस्तत्कण्ठमासाद्य निजां बाहुलतां भयात् ।
मुने मां रक्ष शरणमागतास्मीत्यभाषत ॥ १४॥
मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा ।
हुङ्कारेणैव तौ घोरौ चकार विमुखौ द्रुतम् ॥ १५॥
तद् हुङ्कारभयत्रस्तौ दृष्ट्वा तौ विमुखौ गतौ ।
विस्मितातीव दैत्येन्द्रपत्नी साभून्मुने हृदि ॥ १६॥
ततस्सा मुनिनाथं तं भयान्मुक्ता कृताञ्जलिः ।
प्रणम्य दण्डवद्भूमौ वृन्दा वचनमब्रवीत् ॥ १७॥
वृन्दोवाच ।
मुनिनाथ दयासिन्धो परपीडानिवारक ।
रक्षिताहं त्वया घोराद्भयादस्मात्खलोद्भवात् ॥ १८॥
समर्थः सर्वथा त्वं हि सर्वज्ञोऽपि कृपानिधे ।
किञ्चिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय ॥ १९॥
जलन्धरो हि मद्भर्त्ता रुद्रं योद्धुं गतः प्रभो ।
स तत्रास्ते कथं युद्धे तन्मे कथय सुव्रत ॥ २०॥
सनत्कुमार उवाच ।
मुनिस्तद्वाक्यमाकर्ण्य मौनं कपटमास्थितः ।
कर्त्तुं स्वार्थं विधानज्ञः कृपयोर्ध्वमवैक्षत ॥ २१॥
तावत्कपीशावायातौ तं प्रणम्याग्रतः स्थितौ ।
ततस्तद्भ्रूलतासंज्ञानियुक्तौ गगनं गतौ ॥ २२॥
नीत्वा क्षणार्द्धमागत्य पुनस्तस्याग्रतः स्थितौ ।
तस्यैव कं कबन्धं च हस्तावास्तां मुनीश्वर ॥ २३॥
शिरः कबन्धं हस्तौ तौ दृष्ट्वाब्धितनयस्य सा ।
पपात मूर्च्छिता भूमौ भर्तृव्यसनदुःखिता ॥ २४॥
वृन्दोवाच ।
यः पुरा सुखसंवादैर्विनोदयसि मां प्रभो ।
स कथं न वदस्यद्य वल्लभां मामनागसम् ॥ २५॥
येन देवाः सगन्धर्वा निर्जिता विष्णुना सह ।
कथं स तापसेनाद्य त्रैलोक्यविजयी हतः ॥ २६॥