२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 16: रुद्रसंहिताया पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने जलन्धरयुद्धवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 116 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.२१. एकविंशोऽध्यायः ।
हिरण्यनेत्रहिरण्यकशिपुवधवर्णनम् ।
सनत्कुमार उवाच ।
ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान् ।
अमर्षादभ्यधावन्त द्वन्द्वयुद्धाय दानवाः ॥ १॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.२२. द्वाविंशोऽध्यायः ।
जलन्धरवधोपाख्याने जलन्धरयुद्धवर्णनम् ।
सनत्कुमार उवाच ।
अथ वीरगणै रुद्रो रौद्ररूपो महाप्रभुः ।
अभ्यगाद् वृषभारूढः सङ्ग्रामं प्रहसन्निव ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
नन्दिनं कालनेमिश्च शुम्भो लम्बोदरं तथा ।
निशुम्भः षण्मुखं देवमभ्यधावत शङ्कितः ॥ २॥
रुद्रमायान्तमालोक्य सिंहनादैर्गणाः पुनः ।
निवृत्ताः सङ्गरे रौद्रा ये हि पूर्वं पराजिताः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
निशुम्भः कार्तिकेयस्य मयूरं पञ्चभिः शरैः ।
हृदि विव्याध वेगेन मूर्छितः स पपात ह ॥ ३॥
वीरशब्दं च कुर्वन्तस्तेऽप्यन्ये शाङ्करा गणाः ।
सोत्सवाःसायुधा दैत्यान्निजघ्नुः शरवृष्टिभिः ॥ ३॥
ततः शक्तिधरः क्रुद्धो बाणैः पञ्चभिरेव च ।
विव्याध स्यन्दने तस्य हयान्यन्तारमेव च ॥ ४॥
दैत्या हि भीषणं रुद्रं सर्वे दृष्ट्वा विदुद्रुवुः ।
शाङ्करं पुरुषं दृष्ट्वा पातकानीव तद्भयात् ॥ ४॥
शरेणान्येन तीक्ष्णेन निशुम्भं देववैरिणम् ।
जघान तरसा वीरो जगर्ज रणदुर्मदः ॥ ५॥
अथो जलन्धरो दैत्यान्निवृत्तान्प्रेक्ष्य सङ्गरे ।
अभ्यधावत्स चण्डीशं मुञ्चन्बाणान्सहस्रशः ॥ ५॥
असुरोऽपि निशुम्भाख्यो महावीरोऽतिवीर्यवान् ।
जघान कार्तिकेयं तं गर्जन्तं स्वेषुणा रणे ॥ ६॥
निशुम्भशुम्भप्रमुखा दैत्येन्द्राश्च सहस्रशः ।
अभिजग्मुश्शिवं वेगाद्रोषात्सन्दष्टदच्छदाः ॥ ६॥
ततः शक्तिं कार्तिकेयो यावज्जग्राह रोषतः ।
तावन्निशुम्भो वेगेन स्वशक्त्या तमपातयत् ॥ ७॥
कालनेमिस्तथा वीरः खड्गरोमा बलाहकः ।
घस्मरश्च प्रचण्डश्चापरे चापि शिवं ययुः ॥ ७॥
एवं बभूव तत्रैव कार्तिकेयनिशुम्भयोः ।
आहवो हि महान्व्यास वीरशब्दं प्रगर्जतोः ॥ ८॥
बाणैः सञ्छादयामासुर्द्रुतं रुद्रगणांश्च ते ।
अङ्गानि चिच्छिदुर्वीराः शुम्भाद्या निखिला मुने ॥ ८॥
ततो नन्दीश्वरो बाणैः कालनेमिमविध्यत ।
सप्तभिश्च हयान्केतुं रथं सारथिमाच्छिनत् ॥ ९॥
बाणान्धकारसञ्छन्नं दृष्ट्वा गणबलं हरः ।
तद्बाणजालमाच्छिद्य बाणैराववृते नभः ॥ ९॥
कालनेमिश्च सङ्क्रुद्धो धनुश्चिच्छेद नन्दिनः ।
स्वशरासननिर्मुक्तैर्महातीक्ष्णैः शिलीमुखैः ॥ १०॥
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ।
प्रचण्डबाणजालौघैरपातयत भूतले ॥ १०॥
अथ नन्दीश्वरो वीरः कालनेमिं महासुरम् ।
तमपास्य च शूलेन वक्षस्यभ्यहनद् दृढम् ॥ ११॥
खड्गरोमशिरः कायात्तथा परशुनाच्छिनत् ।
बलाहकस्य च शिरः खट्वाङ्गेनाकरोद्द्विधा ॥ ११॥
स शूलभिन्नहृदयो हताश्वो हतसारथिः ।
अद्रेः शिखरमुत्पाट्य नन्दिनं समताडयत् ॥ १२॥
स बध्वा घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि ।
महावीरं प्रचण्डं च चकर्त्त त्रिशिखेन ह ॥ १२॥
अथ शुम्भो गणेशश्च रथमूषक वाहनौ ।
युध्यमानौ शरव्रातैः परस्परमविध्यताम् ॥ १३॥
वृषभेण हताः केचित्केचिद्बाणैर्निपातिता ।
न शेकुरसुराः स्थातुं गजा सिंहार्दिता इव ॥ १३॥
गणेशस्तु तदा शुम्भं हृदि विव्याध पत्रिणा ।
सारथिं च त्रिभिर्बाणैः पातयामास भूतले ॥ १४॥