२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 15: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने सामान्यगणासुरयुद्धवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 176 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.१८. अष्टादशोऽध्यायः ।
जलन्धरवधोपाख्याने देवर्षिजलन्धरसंवादः ।
सनत्कुमार उवाच ।
एवं शासति धर्मेण महीं तस्मिन्महासुरे ।
बभूवुर्दुःखिनो देवा भर्त्र्यभावान्मुनीश्वर ॥ १॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.१९. एकोनविंशोऽध्यायः ।
जलन्धरवधोपाख्याने दूतसंवादः ।
व्यास उवाच ।
सनत्कुमार सर्वज्ञ नारदे हि गते दिवि ।
दैत्यराट् किमकार्षीत्स तन्मे वद सुविस्तरात् ॥ १॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.२०. विंशोऽध्यायः ।
जलन्धरवधोपाख्याने सामान्यगणासुरयुद्धवर्णनम् ।
व्यास उवाच ।
सनत्कुमार सर्वज्ञ कथा ते श्राविताद्भुता ।
महाप्रभोः शङ्करस्य यत्र लीला च पावनी ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
दुःखितास्ते सुराः सर्वे शिवं शरणमाययुः ।
मनसा शङ्करं देवदेवं सर्वप्रभुं प्रभुम् ॥ २॥
सनत्कुमार उवाच ।
तमामन्त्र्य गते दैत्यं नारदे दिवि दैत्यराट् ।
तद्रूपश्रवणादासीदनङ्गज्वरपीडितः ॥ २॥
इदानीं ब्रूहि सुप्रीत्या कृपां कृत्वा ममोपरि ।
राहुर्मुक्तः कुत्र गतः पुरुषेण महामुने ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तुष्टुवुर्वाग्भिरिष्टाभिर्भगवन्तं महेश्वरम् ।
निवृत्तये स्वदुःखस्य सर्वदं भक्तवत्सलम् ॥ ३॥
अथो जलन्धरो दैत्यः कालाधीनः प्रनष्टधीः ।
दूतमाह्वाययामास सैंहिकेयं विमोहितः ॥ ३॥
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य व्यासस्यामितमेधसः ।
प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो महामुनिः ॥ ३॥
आहूय स महादेवो भक्तानां सर्वकामदः ।
नारदं प्रेरयामास देवकार्यचिकीर्षया । ४॥
आगतं तं समालोक्य कामाक्रान्तमनाः स हि ।
सुसम्बोध्य समाचष्ट सिन्धुपुत्रो जलन्धरः ॥ ४॥
सनत्कुमार उवाच ।
राहुर्विमुक्तो यस्तेन सोऽपि तद्वर्वरस्थले ।
अतः स वर्वरो भूत इति भूमौ प्रथां गतः ॥ ४॥
अथ देवमुनिर्ज्ञानी शम्भुभक्तः सतां गतिः ।
शिवाज्ञया ययौ दैत्यपुरे देवान्स नारदः ॥ ५॥
जलन्धर उवाच ।
भो भो दूतवरश्रेष्ठ सर्वकार्यप्रसाधक ।
सैंहिकेय महाप्राज्ञ कैलासं गच्छ पर्वतम् ॥ ५॥
ततः स मन्यमानः स्वं पुनर्जनिमथानतः ।
गतगर्वो जगामाथ जलन्धरपुरं शनैः ॥ ५॥
व्याकुलास्ते सुराः सर्वे वासवाद्या द्रुतं मुनिम् ।
आगच्छन्तं समालोक्य समुत्तस्थुर्हि नारदम् ॥ ६॥
तत्रास्ति योगी शम्भ्वाख्यस्तपस्वी च जटाधरः ।
भस्मभूषितसर्वाङ्गो विरक्तो विजितेन्द्रियः ॥ ६॥
जलन्धराय सोऽभ्येत्य सर्वमीशविचेष्टितम् ।
कथयामास तद्व्यासाद्व्यास दैत्येश्वराय वै ॥ ६॥
ददुस्त आसनं नत्त्वा मुनये प्रीतिपूर्वकम् ।
नारदाय सुराः शक्रमुखा उत्कण्ठिताननाः ॥ ७॥
तत्र गत्वेति वक्तव्यं योगिनं दूत शङ्करम् ।
जटाधरं विरक्तं तं निर्भयेन हृदा त्वया ॥ ७॥
जलन्धरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः ।
बभूव बलवान्सिन्धुपुत्रो दैत्येन्द्रसत्तमः ॥ ७॥
सुखासीनं मुनिवरमासने सुप्रणम्य तम् ।
पुनः प्रोचुः सुरा दीना वासवाद्या मुनीश्वरम् ॥ ८॥
हे योगिंस्ते दयासिन्धो जायारत्नेन किं भवेत् ।
भूतप्रेतपिशाचादिसेवितेन वनौकसा ॥ ८॥
ततः कोपपराधीनमानसो दैत्यसत्तमः ।
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥ ८॥
देवा ऊचुः ।
भो भो मुनिवरश्रेष्ठ दुःखं शृणु कृपाकर ।
श्रुत्वा तन्नाशय क्षिप्रं प्रभुस्त्वं शङ्करप्रियः ॥ ९॥
मन्नाथे भुवने योगिन्नोचिता गतिरीदृशी ।
जायारत्नमतस्त्वं मे देहि रत्नभुजे निजम् ॥ ९॥
जलन्धर उवाच ।
निर्गच्छन्त्वखिला दैत्याः कालनेमिमुखाः खलु ।
तथा शुम्भनिशुम्भाद्या वीराः स्वबलसंयुताः ॥ ९॥