२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 14: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरोपाख्याने विष्णुजलन्धरयुद्धवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.१७. सप्तदशोऽध्यायः ।
जलन्धरोपाख्याने विष्णुजलन्धरयुद्धवर्णनम् ।
सनत्कुमार उवाच ।
अथ दैत्या महावीर्याः शूलैः परशुपट्टिशैः ।
निजघ्नुःसर्वदेवांश्च भयव्याकुलमानसान् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
दैत्यायुधैः समाविद्धदेहा देवाः सवासवाः ।
रणाद्विदुद्रुवुः सर्वे भयव्याकुलमानसाः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
पलायनपरान् दृष्ट्वा हृषीकेशः सुरानथ ।
विष्णुर्वै गरुडारूढो योद्धुमभ्याययौ द्रुतम् ॥ ३॥
सुदर्शनेन चक्रेण सर्वतः प्रस्फुरन् रुचा ।
सुशोभितकराब्जश्च रेजे भक्ताभयङ्करः ॥ ४॥
शङ्खखड्गगदाशार्ङ्गधारी क्रोधसमन्वितः ।
कठोरास्त्रो महावीरः सर्वयुद्धविशारदः ॥ ५॥
धनुषं शार्ङ्गनामानं विस्फूर्य्य विननाद ह ।
तस्य नादेन त्रैलोक्यं पूरितं महता मुने ॥ ६॥
शार्ङ्गनिस्सृतबाणैश्च दितिजानां शिरांसि वै ।
चकर्त्त भगवान् विष्णुः कोटिशो रुट्समाकुलः ॥ ७॥
अथारुणानुजजवपक्षवातप्रपीडिताः ।
वात्याविवर्त्तिता दैत्या बभ्रमुः खे यथा घनाः ॥ ८॥
ततो जलन्धरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान् ।
चुक्रोधाति महादैत्यो देववृन्दभयङ्करः ॥ ९॥
मर्द्दयन्तं च तं दृष्ट्वा दैत्यान् प्रस्फुरिताधरः ।
योद्धुमभ्याययौ वीरो वेगेन हरिणा सह ॥ १०॥
स चकार महानादं देवासुरभयङ्करम् ।
दैत्यानामधिपः कर्णा विदीर्णाः श्रवणात्ततः ॥ ११॥
भयंङ्करेण दैत्यस्य नादेनापूरितं तदा ।
जलन्धरस्य महता चकम्पे सकलं जगत् ॥ १२॥
ततः समभवद्युद्धं विष्णुदैत्येन्द्रयोर्महत् ।
आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत् ॥ १३॥
तयोश्च तेन युद्धेन परस्परमभून्मुने ।
देवासुरर्षिसिद्धानां भीकरेणातिविस्मयः ॥ १४॥
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुः शरान् ।
चिच्छेद तं च हृदये बाणेनैकेन ताडयन् ॥ १५॥
ततो दैत्यः समुत्पत्य गदापाणिस्त्वरान्वितः ।
आहत्य गरुडं मूर्ध्नि पातयामास भूतले ॥ १६॥
विष्णुं जघान शूलेन तीक्ष्णेन प्रस्फुरद्रुचा ।
हृदये क्रोधसंयुक्तो दैत्यः प्रस्फुरिताधरः ॥ १७॥
विष्णुर्गदां च खड्गेन चिच्छेद प्रहसन्निव ।
तं विव्याध शरैस्तीक्ष्णैः शार्ङ्गं विस्फूर्य दैत्यहा ॥ १८॥
विष्णुर्जलन्धरं दैत्यं भयदेन शरेण ह ।
क्रोधाविष्टोऽतितीक्ष्णेन जघानाशु सुरारिहा ॥ १९॥
आगतं तस्य तं बाणं दृष्ट्वा दैत्यो महाबलः ।
छित्त्वा बाणेन विष्णुं च जघान हृदये द्रुतम् ॥ २०॥
केशवोऽपि महाबाहुं विक्षिप्तमसुरेण तम् ।
शरं तिलप्रमाणेन च्छित्त्वा वीरो ननाद ह ॥ २१॥
पुनर्बाणं समाधत्त धनुषि क्रोधवेपितः ।
महाबलोऽथ बाणेन चिच्छेद स शिलीमुखम् ॥ २२॥
वासुदेवः पुनर्बाणं नाशाय विबुधद्विषः ।
क्रोधेनाधत्त धनुषि सिंहवद्विननाद ह ॥ २३॥
जलन्धरोऽथ दैत्येन्द्रः कोपाच्छिन्नाधरो बली ।
शरेण स्वेन शार्ङ्गाख्यं धनुश्चिच्छेद वैष्णवम् ॥ २४॥
पुनर्बाणैः सुतीक्ष्णैश्च जघान मधुसूदनम् ।
उग्रवीर्यो महावीरो देवानां भयकारकः ॥ २५॥
स च्छिन्नधन्वा भगवान् केशवो लोकरक्षकः ।
जलन्धरस्य नाशाय चिक्षेप स्वगदां पराम् ॥ २६॥
सा गदा हरिणा क्षिप्ता ज्वलज्ज्वलनसन्निभा ।
अमोघगतिका शीघ्रं तस्य देहे ललाग ह ॥ २७॥