२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 13: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवयुद्धवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.१६. षोडशोऽध्यायः ।
देवयुद्धवर्णनम् ।
सनत्कुमार उवाच ।
पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः ।
भयात्प्रकम्पिताः सर्वे सहैवादुद्रुवुर्द्रुतम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
वैकुण्ठं प्रययुः सर्वे पुरस्कृत्य प्रजापतिम् ।
तुष्टुवुस्ते सुरा नत्वा सप्रजापतयोऽखिलाः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
देवा ऊचुः ।
हृषीकेश महाबाहो भगवन् मधुसूदन ।
नमस्ते देवदेवेश सर्वदैत्यविनाशक ॥ ३॥
मत्स्यरूपाय ते विष्णो वेदान्नीतवते नमः ।
सत्यव्रतेन सद्राज्ञा प्रलयाब्धिविहारिणे ॥ ४॥
कुर्वाणानां सुराणां च मथनायोद्यमं भृशम् ।
बिभ्रते मन्दरगिरिं कूर्मरूपाय ते नमः ॥ ५॥
नमस्ते भगवन्नाथ क्रतवे सूकरात्मने ।
वसुन्धरां जनाधारां मूर्द्धतो बिभ्रते नमः ॥ ६॥
वामनाय नमस्तुभ्यमुप्रेन्द्राख्याय विष्णवे ।
विप्ररूपेण दैत्येन्द्रं बलिं छलयते विभो ॥ ७॥
नमः परशुरामाय क्षत्रनिः क्षत्रकारिणे ।
मातुर्हितकृते तुभ्यं कुपितायासतां द्रुहे ॥ ८॥
रामाय लोकरामाय मर्यादापुरुषाय ते ।
रावणान्तकरायाशु सीतायाः पतये नमः ॥ ९॥
नमस्ते ज्ञानगूढाय कृष्णाय परमात्मने ।
राधाविहारशीलाय नानालीलाकराय च ॥ १०॥
नमस्ते गूढदेहाय वेदनिन्दाकराय च ।
योगाचार्याय जैनाय बौद्धरूपाय मापते ॥ ११॥
नमस्ते कल्किरूपाय म्लेच्छानामन्तकारिणे ।
अनन्तशक्तिरूपाय सद्धर्मस्थापनाय च ॥ १२॥
नमः कपिलरूपाय देवहूत्यै महात्मने ।
वदते साङ्ख्ययोगं च साङ्ख्याचार्याय वै प्रभो ॥ १३॥
नमः परमहंसाय ज्ञानं संवदते परम् ।
विधात्रे ज्ञानरूपाय येनात्मा सम्प्रसीदति ॥ १४॥
वेदव्यासाय वेदानां विभागं कुर्वते नमः ।
हिताय सर्वलोकानां पुराणरचनाय च ॥ १५॥
एवं मत्स्यादितनुभिर्भक्तकार्योद्यताय ते ।
सर्गस्थितिध्वंसकर्त्रे नमस्ते ब्रह्मणे प्रभो ॥ १६॥
आर्तिहन्त्रे स्वदासानां सुखदाय शुभाय च ।
पीताम्बराय हरये तार्क्ष्ययानाय ते नमः ॥
सर्वक्रियायैककर्त्रे शरण्याय नमो नमः । १७॥
दैत्यसन्तापितामर्त्यदुःखादिध्वंसवज्रक ।
शेषतल्पशयायार्कचन्द्रनेत्राय ते नमः ॥ १८॥
कृपासिन्धो रमानाथ पाहि नः शरणागतान् ।
जलन्धरेण देवाश्च स्वर्गात्सर्वे निराकृताः ॥ १९॥
सूर्यो निस्सारितः स्थानाच्चन्द्रो वह्निस्तथैव च ।
पातालान्नागराजश्च धर्मराजो निराकृतः ॥ २०॥
विचरन्ति यथा मर्त्याः शोभन्ते नैव ते सुराः ।
शरणं ते वयं प्राप्ता वधस्तस्य विचिन्त्यताम् ॥ २१॥
सनत्कुमार उवाच ।
इति दीनवचः श्रुत्वा देवानां मधुसूदनः ।
जगाद करुणासिन्धुर्मेघनिर्ह्रादया गिरा ॥ २२॥
विष्णुरुवाच ।
भयं त्यजत हे देवा गमिष्याम्यहमाहवम् ।
जलन्धरेण दैत्येन करिष्यामि पराक्रमम् ॥ २३॥
इत्युक्त्वा सहसोत्थाय दैत्यारिः खिन्नमानसः ।
आरोहद्गरुडं वेगात्कृपया भक्तवत्सलः ॥ २४॥
गच्छन्तं वल्लभं दृष्ट्वा देवैस्सार्द्धं समुद्रजा ।
साञ्जलिर्बाष्पनयना लक्ष्मीर्वचनमब्रवीत् ॥ २५॥
लक्ष्म्युवाच ।
अहं ते वल्लभा नाथ भक्ता यदि च सर्वदा ।
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ॥ २६॥