Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं

Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.१५. पञ्चदशोऽध्यायः ।

जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनम् ।

सनत्कुमार उवाच ।

एकदा वारिधिसुतो वृन्दापतिरुदारधीः ।

सभार्यः संस्थितो वीरोऽसुरैः सर्वैः समन्वितः ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 2

तत्राजगाम सुप्रीतः सुवर्चास्त्वथ भार्गवः ।

तेजः पुञ्जो मूर्त इव भासयन्सकला दिशः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 3

तं दृष्ट्वा गुरुमायान्तमसुरास्तेऽखिला द्रुतम् ।

प्रणेमुः प्रीतमनसः सिन्धुपुत्रोऽपि सादरम् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 4

दत्त्वाशीर्वचनं तेभ्यो भार्गवस्तेजसां निधिः ।

निषसादासने रम्ये सन्तस्थुस्तेऽपि पूर्ववत् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 5

अथ सिन्ध्वात्मजो वीरो दृष्ट्वा प्रीत्या निजां सभाम् ।

जलन्धरः प्रसन्नोऽभूदनष्टवरशासनः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 6

तत्स्थितं छिन्नशिरसं दृष्ट्वा राहुं स दैत्यराट् ।

पप्रच्छ भार्गवं शीघ्रमिदं सागरनन्दनः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 7

जलन्धर उवाच ।

केनेदं विहितं राहोः शिरश्च्छेदनकं प्रभो ।

तद्ब्रूहि निखिलं वृत्तं यथावत्तत्त्वतो गुरो ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 8

सनत्कुमार उवाच ।

इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ।

स्मृत्वा शिवपदाम्भोजं प्रत्युवाच यथार्थवत् ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 9

शुक्र उवाच ।

जलन्धर महावीर सर्वासुरसहायक ।

श‍ृणु वृत्तान्तमखिलं यथावत्कथयामि ते ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 10

पुराऽभवद् बलिर्वीरो विरोचनसुतो बली ।

हिरण्यकशिपोश्चैव प्रपौत्रो धर्मवित्तम ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 11

पराजिताः सुरास्तेन रमेशं शरणं ययुः ।

सवासवाः स्ववृत्तान्तमाचख्युः स्वार्थसाधकाः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 12

तदाज्ञयाऽसुरैः सार्द्धं चक्रुः सन्धिमथो सुराः ।

स्वकार्यसिद्धये तात छलकर्मविचक्षणाः ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 13

अथामृतार्थे सिन्धोश्च मन्थनं चक्रुरादरात् ।

विष्णोः सहायिनस्ते हि सुराः सर्वेऽसुरैस्सह ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 14

ततो रत्नोपहरणमकार्षुर्दैत्यशत्रवः ।

जगृहुर्यत्नतो देवाः पपुरप्यमृतं छलात् ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 15

ततः पराभवं चक्रुरसुराणां सहायतः ।

विष्णोः सुराः सशक्रास्तेऽमृतपानाद्बलान्विताः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 16

शिरश्छेदं चकारासौ पिबतश्चामृतं हरिः ।

राहोर्देवसभायां वै पक्षपाती हरेस्सदा ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 17

सनत्कुमार उवाच ।

एवं कविस्तस्य शिरश्छेदं राहोः शशंस च ।

अमृतार्थे समुद्रस्य मन्थनं देवकारितम् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 18

रत्नोपहरणं चैव दैत्यानां च पराभवम् ।

देवैरमृतपानं च कृतं सर्वं च विस्तरात् ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 19

तदाकर्ण्य महावीरोऽम्बुधिबालः प्रतापवान् ।

चुक्रोध क्रोधरक्ताक्षः स्वपितुर्मन्थनं तदा ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 20

अथ दूतं समाहूय घस्मराभिधमुत्तमम् ।

सर्वं शशंस चरितं यदाह गुरुरात्मवान् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 21

अथ तं प्रेषयामास स्वदूतं शक्रसन्निधौ ।

सम्मान्य बहुशः प्रीत्याऽभयं दत्त्वा विशारदम् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 22

दूतस्त्रिविष्टपं तस्य जगामारमलं सुधीः ।

घस्मरोऽम्बुधिबालस्य सर्वदेवसमन्वितम् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 23

तत्र गत्वा स दूतस्तु सुधर्मां प्राप्य सत्वरम् ।

गर्वादखर्वमौलिर्हि देवेन्द्रं वाक्यमब्रवीत् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 24

घस्मर उवाच ।

जलन्धरोऽब्धितनयः सर्वदैत्यजनेश्वरः ।

सुप्रतापी महावीरः स्वयं कविसहायवान् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 25

दूतोऽहं तस्य वीरस्य घस्मराख्यो न घस्मरः ।

प्रेषितस्तेन वीरेण त्वत्सकाशमिहागतः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 26

अव्याहताज्ञः सर्वत्र जलन्धर उदग्रधीः ।

निर्जिताखिलदैत्यारिः स यदाह श‍ृणुष्व तत् ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 12: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनं, Verse 27

जलन्धर उवाच ।

कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा ।

नीतानि सर्वरत्नानि पितुर्मे देवताधम ॥ २७॥