२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 11: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने जलन्धरोत्पत्तिविवाहवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.१४. चतुर्दशोऽध्यायः ।
जलन्धरवधोपाख्याने जलन्धरोत्पत्तिविवाहवर्णनम् ।
व्यास उवाच ।
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोऽस्तु ते ।
श्रुतेयमद्भुता मेऽद्य कथा शम्भोर्महात्मनः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
क्षिप्ते स्वतेजसि ब्रह्मन्भालनेत्रसमुद्भवे ।
लवणाम्भसि किं ताताभवत्तत्र वदाशु तत् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सनत्कुमार उवाच ।
शृणु तात महाप्राज्ञ शिवलीलां महाद्भुताम् ।
यच्छ्रुत्वा श्रद्धया भक्तो योगिनां गतिमाप्नुयात् ॥ ३॥
अथो शिवस्य तत्तेजो भालनेत्रसमुद्भवम् ।
क्षिप्तं च लवणाम्भोधौ सद्यो बालत्वमाप ह ॥ ४॥
तत्र वै सिन्धुगङ्गायाः सागरस्य च सङ्गमे ।
रुरोदोच्चैः स वै बालः सर्वलोकभयङ्करः ॥ ५॥
रुदतस्तस्य शब्देन प्राकम्पद्धरणी मुहुः ।
स्वर्गश्च सत्यलोकश्च तत्स्वनाद् बधिरीकृतः ॥ ६॥
बालस्य रोदनेनैव सर्वे लोकाश्च तत्रसुः ।
सर्वतो लोकपालाश्च विह्वलीकृतमानसाः ॥ ७॥
किं बहूक्तेन विप्रेन्द्र चचाल सचराचरम् ।
भुवनं निखिलं तात रोदनात्तच्छिशोर्विभो ॥ ८॥
अथ ते व्याकुलाः सर्वे देवाः समुनयो द्रुतम् ।
पितामहं लोकगुरुं ब्रह्माणं शरणं ययुः ॥ ९॥
तत्र गत्वा च ते देवा मुनयश्च सवासवाः ।
प्रणम्य च सुसंस्तुत्य प्रोचुस्तं परमेष्ठिनम् ॥ १०॥
देवा ऊचुः ।
लोकाधीश सुराधीश भयं नः समुपस्थितम् ।
तन्नाशय महायोगिन् जातोऽयं ह्यद्भुतो रवः ॥ ११॥
सनत्कुमार उवाच ।
इत्याकर्ण्य वचस्तेषां ब्रह्मा लोकपितामहः ॥
गन्तुमैच्छत्ततस्तत्र किमेतदिति विस्मितः । १२॥
ततो ब्रह्मा सुरैस्तातावतरत्सत्यलोकतः ।
रसां तज्ज्ञातुमिच्छन्स समुद्रमगमत्तदा ॥ १३॥
यावत्तत्रागतो ब्रह्मा सर्वलोकपितामहः ।
तावत्समुद्रस्योत्सङ्गे तं बालं स ददर्श ह ॥ १४॥
आगतं विधिमालोक्य देवरूप्यथ सागरः ।
प्रणम्य शिरसा बालं तस्योत्सङ्गे न्यवेशयत् ॥ १५॥
ततो ब्रह्माब्रवीद्वाक्यं सागरं विस्मयान्वितः ।
जलराशे द्रुतं ब्रूहि कस्यायं शिशुरद्भुतः ॥ १६॥
सनत्कुमार उवाच ।
ब्रह्मणो वाक्यमाकर्ण्य मुदितः सागरस्तदा ।
प्रत्युवाच प्रजेशं स नत्वा स्तुत्वा कृताञ्जलिः ॥ १७॥
समुद्र उवाच ।
भो भो ब्रह्मन्मया प्राप्तो बालकोऽयमजानता ।
प्रभवं सिन्धुगङ्गायामकस्मात्सर्वलोकप ॥ १८॥
जातकर्मादिसंस्कारान्कुरुष्वास्य जगद्गुरो ।
जातकोक्तफलं सर्वं विधातर्वक्तुमर्हसि ॥ १९॥
सनत्कुमार उवाच ।
एवं वदति पाथोधौ स बालः सागरात्मजः ।
ब्रह्माणमग्रहीत्कण्ठे विधुन्वन्तं मुहुर्मुहुः ॥ २०॥
विधूननं च तस्यैवं सर्वलोककृतो विधेः ।
पीडितस्य च कालेय नेत्राभ्यामगमज्जलम् ॥ २१॥
कराभ्यामब्धिजातस्य तत्सुतस्य महौजसः ।
कथञ्चिन्मुक्तकण्ठस्तु ब्रह्मा प्रोवाच सादरम् ॥ २२॥
ब्रह्मोवाच ।
शृणु सागर वक्ष्यामि तवास्य तनयस्य हि ।
जातकोक्तफलं सर्वं समाधानरतः खलु ॥ २३॥
नेत्राभ्यां विधृतं यस्मादनेनैव जलं मम ।
तस्माज्जलन्धरेतीह ख्यातो नाम्ना भवत्वसौ ॥ २४॥
अधुनैवैष तरुणः सर्वशास्त्रार्थपारगः ।
महापराक्रमो धीरो योद्धा च रणदुर्मदः ॥ २५॥
भविष्यति च गम्भीरः त्वं यथा समरे गुहः ।
सर्वजेता च सङ्ग्रामे सर्वसम्पद्विराजितः ॥ २६॥