२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 10: रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने शक्रजीवनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.१३. त्रयोदशोऽध्यायः ।
जलन्धरवधोपाख्याने शक्रजीवनम् ।
व्यास उवाच ।
भो ब्रह्मन्भगवन्पूर्वं श्रुतं मे ब्रह्मपुत्रक ।
जलन्धरं महादैत्यमवधीच्छङ्करः प्रभुः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
तत्त्वं वद महाप्राज्ञ चरितं शशिमौलिनः ।
विस्तारपूर्वकं शृण्वन्कस्तृप्येत्तद्यशोऽमलम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सूत उवाच ।
इत्येवं व्याससम्पृष्टो ब्रह्मपुत्रो महामुनिः ।
उवाचार्थवदव्यग्रं वाक्यं वाक्यविशारदः ॥ ३॥
सनत्कुमार उवाच ।
एकदा जीवशक्रौ च भक्त्या परमया मुने ।
दर्शनं कर्तुमीशस्य कैलासं जग्मतुर्भृशम् ॥ ४॥
अथ गुर्विन्द्रयोर्ज्ञात्वाऽऽगमनं शङ्करः प्रभुः ।
परीक्षितुं तयोर्ज्ञानं स्वदर्शनरतात्मनोः ॥ ५॥
दिगम्बरोऽथ तन्मार्गमारुद्ध्य सद्गतिः सताम् ।
जटाबद्धेन शिरसातिष्ठत्संशोभिताननः ॥ ६॥
महातेजस्विनं शान्तं जटासम्बद्धमस्तकम् ।
महाबाहुं महोरस्कं गौरं नयनभीषणम् ॥ ६॥
अथ तौ गुरुशक्रौ च कुर्वन्तौ गमनं मुदा ।
आलोक्य पुरुषं भीमं मार्गमध्येऽद्भुताकृतिम् ॥ ७॥
अथो पुरन्दरोऽपृच्छत्स्वाधिकारेण दुर्मदः ।
पुरुषं तं स्वमार्गान्तः स्थितमज्ञाय शङ्करम् ॥ ९॥
पुरन्दर उवाच ।
कस्त्वं भोः कुत आयातः किं नाम वद तत्त्वतः ।
स्वस्थाने संस्थितः शम्भुः किं वान्यत्र गतः प्रभुः ॥ १०॥
सनत्कुमार उवाच ।
शक्रेणेत्थं स पृष्टस्तु किञ्चिन्नोवाच तापसः ।
शक्रः पुनरपृच्छद्वै नोवाच स दिगम्बरः ॥ ११॥
पुनः पुरन्दरोऽपृच्छल्लोकानामधिपेश्वरः ।
तूष्णीमास महायोगी लीलारूपधरः प्रभुः ॥ १२॥
इत्थं पुनः पुनः पृष्टः शक्रेण स दिगम्बरः ।
नोवाच किञ्चिद्भगवान् शक्रज्ञानपरीक्षया ॥ १३॥
अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्यगर्वितः ।
उवाच वचनं चैव तं निर्भर्त्स्य जटाधरम् ॥ १४॥
इन्द्र उवाच ।
रे मया पृच्छ्यमानोऽपि नोत्तरं दत्तवानसि ।
अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ॥ १५॥
सनत्कुमार उवाच ।
इत्युदीर्य ततो वज्री सन्निरीक्ष्य क्रुधा हि तम् ।
हन्तुं दिगम्बरं वज्रमुद्यतं स चकार ह ॥ १६॥
पुरन्दरं वज्रहस्तं दृष्ट्वा देवस्सदाशिवः ।
चकार स्तम्भनं तस्य वज्रपातस्य शङ्करः ॥ १७॥
ततो रुद्रः क्रुधाविष्टः करालाक्षो भयङ्करः ।
द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ॥ १८॥
बाहुप्रतिष्टम्भभुवा मन्युनान्तः शचीपतिः ।
समदह्यत भोगीव मन्त्ररुद्धपराक्रमः ॥ १९॥
दृष्ट्वा बृहस्पतिस्तूर्णं प्रज्वलन्तं स्वतेजसा ।
पुरुषं तं धिया ज्ञात्वा प्रणनाम हरं प्रभुम् ॥ २०॥
कृताञ्जलिपुटो भूत्वा ततो गुरुरुदारधीः ।
नत्वा च दण्डवद्भूमौ प्रभुं स्तोतुं प्रचक्रमे ॥ २१॥
गुरुरुवाच ।
नमो देवाधिदेवाय महादेवाय चात्मने ।
महेश्वराय प्रभवे त्र्यम्बकाय कपर्दिने ॥ २२॥
दीननाथाय विभवे नमोऽन्धकनिषूदिने ।
त्रिपुरघ्नाय शर्वाय ब्रह्मणे परमेष्ठिने ॥ २३॥
विरूपाक्षाय रुद्राय बहुरूपाय शम्भवे ।
विरूपायातिरूपाय रूपातीताय ते नमः ॥ २४॥
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने ।
नमस्ते मखरूपाय परकर्मप्रवर्तिने ॥ २५॥
कालान्तकाय कालाय कालभोगिधराय च ।
नमस्ते परमेशाय सर्वत्र व्यापिने नमः ॥ २६॥
नमो ब्रह्मशिरोहन्त्रे ब्रह्मचन्द्र स्तुताय च ।
ब्रह्मण्याय नमस्तेऽस्तु नमस्ते परमात्मने ॥ २७॥