२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 8: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरदाहवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.१०. दशमोऽध्यायः ।
त्रिपुरदाहवर्णनम् ।
सनत्कुमार उवाच ।
अथ शम्भुर्महादेवो रथस्थः सर्वसंयुतः ।
त्रिपुरं सकलं दग्धुमुद्यतोऽभूत्सुरद्विषाम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
शीर्षं स्थानकमास्थाय सन्धाय च शरोत्तमम् ।
सज्जं तत्कार्मुकं कृत्वा प्रत्यालीढं महाद्भुतम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
निवेश्य दृढमुष्टौ च दृष्टिं दृष्टौ निवेश्य च ।
अतिष्ठन्निश्चलस्तत्र शतं वर्षसहस्रकम् ॥ ३॥
ततोऽङ्गुष्ठे गणाध्यक्षः स तुदत्यनिशं स्थितः ।
न लक्ष्यं विविशुस्तानि पुराण्यस्य त्रिशूलिनः ॥ ४॥
ततोऽन्तरिक्षादशृणोद्धनुर्बाणधरो हरः ।
मुञ्जकेशो विरूपाक्षो वाचं परमशोभनाम् ॥ ५॥
भो भो न यावद्भगवन्नर्चितोऽसौ विनायकः ।
पुराणि जगदीशेश साम्प्रतं न हनिष्यति ॥ ६॥
एतच्छ्रुत्वा तु वचनं गजवक्त्रमपूजयत् ।
भद्रकालीं समाहूय ततोऽन्धकनिषूदनः ॥ ७॥
तस्मिन् सम्पूजिते हर्षात्परितुष्टे पुरस्सरे ।
विनायके ततो व्योम्नि ददर्श भगवान्हरः ॥ ८॥
पुराणि त्रीणि दैत्यानां तारकाणां महात्मनाम् ।
यथातथं हि युक्तानि केचिदित्थं वदन्ति ह ॥ ९॥
परब्रह्मणि देवेश सर्वोपास्ये महेश्वरे ।
अन्यप्रसादतः कार्यसिद्धिर्घटति नेति हि ॥ १०॥
स स्वतन्त्रः परं ब्रह्म सगुणो निर्गुणोऽपि ह ।
अलक्ष्यः सकलैः स्वामी परमात्मा निरञ्जनः ॥ ११॥
पञ्चदेवात्मकः पञ्चदेवोपास्यः परः प्रभुः ।
तस्योपास्यो न कोऽप्यस्ति स एवोपास्य आलयम् ॥ १२॥
अथवा लीलया तस्य सर्वं सङ्घटते मुने ।
चरितं देवदेवस्य वरदातुर्महेशितुः ॥ १३॥
तस्मिंस्थिते महादेवे पूजयित्वा गणाधिपम् ।
पुराणि तत्र कालेन जग्मुरेकत्वमाशु वै ॥ १४॥
एकीभावं मुने तत्र त्रिपुरे समुपागते ।
बभूव तुमुलो हर्षो देवादीनां महात्मनाम् ॥ १५॥
ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः ।
जयेति वाचो मुमुचुः स्तुवन्तश्चाष्टमूर्तिकम् ॥ १६॥
अथाहेति तदा ब्रह्मा विष्णुश्च जगतां पतिः ।
समयोऽपि समायातो दैत्यानां वधकर्मणः ॥ १७॥
तेषां तारकपुत्राणां त्रिपुराणां महेश्वर ।
देवकार्यं कुरु विभो एकत्वमपि चागतम् ॥ १८॥
यावन्न यान्ति देवेश विप्रयोगं पुराणि वै ।
तावद्बाणं विमुञ्चस्व त्रिपुरं भस्मसात्कुरु ॥ १९॥
अथ सज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम् ।
पूज्यं पाशुपतास्त्रं स त्रिपुरं समचिन्तयत् ॥ २०॥
अथ देवो महादेवो वरलीलाविशारदः ।
केनापि कारणेनात्र सावज्ञं तदवैक्षत ॥ २१॥
पुरत्रयं विरूपाक्षः कर्तुं तद्भस्मसात्क्षणात् ।
समर्थः परमेशानो जानातु च सतां गतिः ॥ २२॥
दग्धुं समर्थो देवेशो वीक्षणेन जगत्त्रयम् ।
अस्मद्यशो विवृद्ध्यर्थं शरं मोक्तुमिहार्हसि ॥ २३॥
इति स्तुतोऽमरैः सर्वैर्विष्ण्वादिविधिभिस्तदा ।
दग्धुं पुरत्रयं तद्वै बाणेनैच्छन्महेश्वरः ॥ २४॥
मुहूर्तेऽभिजिदाख्ये तु विकृष्य धनुरद्भुतम् ।
कृत्वा ज्यातलनिर्घोषं नादमत्यन्तदुस्सहम् ॥ २५॥
आत्मनो नाम विश्राव्य समाभाष्य महासुरान् ।
मार्तण्डकोटिवपुषं काण्डमुग्रो मुमोच ह ॥ २६॥
ददाह त्रिपुरस्थांस्तान्दैत्याँस्त्रीन्विमलापहः ।
स आशुगो विष्णुमयो वह्निशल्यो महाज्वलन् ॥ २७॥