२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 6: रुद्रसंहितायां पञ्चमे युद्धखण्डे देवस्तुतिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.७. सप्तमोऽध्यायः ।
देवस्तुतिवर्णनम् ।
सनत्कुमार उवाच ।
एतच्छुत्वा तु सर्वेषां देवादीनां वचो हरः ।
अङ्गीचकार सुप्रीत्या शरण्यो भक्तवत्सलः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
एतस्मिन्नन्तरे देवी पुत्राभ्यां संयुता शिवा ।
आजगाम मुने तत्र यत्र देवान्वितो हरः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
अथागतां शिवां दृष्ट्वा सर्वे विष्ण्वादयो द्रुतम् ।
प्रणेमुरतिनम्रास्ते विस्मिता गतसम्भ्रमाः ॥ ३॥
प्रोचुर्जयेति सद्वाक्यं मुने सर्वे सुलक्षणम् ।
तूष्णीमासन्नजानन्तस्तदागमनकारणम् ॥ ४॥
अथ सर्वैः स्तुता देवैर्देव्यद्भुतकुतूहला ।
उवाच स्वामिनं प्रीत्या नानालीलाविशारदम् ॥ ५॥
देव्युवाच ।
क्रीडमानं विभो पश्य षण्मुखं रविसन्निभम् ।
पुत्रं पुत्रवतां श्रेष्ठ भूषितं भूषणैर्वरैः ॥ ६॥
सनत्कुमार उवाच इत्येवं लोकमात्रा च वाग्भिःसम्बोधितश्शिवः ।
न ययौ तृप्तिमीशानः पिबन् स्कन्दाननामृतम् ॥ ७॥
न सस्मारागतान् देवान् निजतेजोनिपीडितान् ।
स्कन्दमालिङ्ग्य चाघ्राय मुमोदाति महेश्वरः ॥ ८॥
जगदम्बाथ तत्रैव सम्मन्त्र्य प्रभुणा च सा ।
स्थित्वा किञ्चित्समुत्तस्थौ नानालीलाविशारदा ॥ ९॥
ततः स नन्दी सह षण्मुखेन तया च सार्द्धं गिरिराजपुत्र्या ।
विवेश शम्भुर्भवनं सुलीलः सुरैः समस्तैरभिवन्द्यमानः ॥ १०॥
द्वारस्य पार्श्वतः तस्थुर्देवदेवस्य धीमतः ।
तेऽथ देवा महाव्यग्रा विमनस्का मुनेऽखिलाः ॥ ११॥
किं कर्तव्यं क्व गन्तव्यं कः स्यादस्मत्सुखप्रदः ।
किं तु किन्त्विति सञ्जातं हा हताः स्मेति वादिनः ॥ १२॥
अन्योन्यं प्रेक्ष्य शक्राद्या बभूवुश्चातिविह्वलाः ।
प्रोचुर्विकलवाक्यं ते धिक्कुर्वन्तो निजं विधिम् ॥ १३॥
पापा वयमिहेत्यन्ये ह्यभाग्याश्चेति चापरे ।
ते भाग्यवन्तो दैत्येन्द्रा इति चान्येऽब्रुवन् सुराः ॥ १४॥
तस्मिन्नेवान्तरे तेषां श्रुत्वा शब्दाननेकशः ।
कुम्भोदरो महातेजा दण्डेनाताडयत्सुरान् ॥ १५॥
दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः ।
अपतन्मुनयश्चान्ये विह्वलत्वं बभूव ह ॥ १६॥
इन्द्रस्तु विकलोऽतीव जानुभ्यामवनीं गतः ।
अन्ये देवर्षयोऽतीव विकलाः पतिता भुवि ॥ १७॥
सर्वे मिलित्वा मुनयः सुराश्च सममाकुलाः ।
सङ्गता विधिहर्योस्तु समीपं मित्रचेतसोः ॥ १८॥
अहो विधिबलं चैतन्मुनयः कश्यपादयः ।
वदन्ति स्म तदा सर्वे हरिं लोकभयापहम् ॥ १९॥
अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः ।
कस्माद्विघ्नमिदं जातमित्यन्ये ह्यतिविस्मिताः ॥ २०॥
इत्येवं वचनं श्रुत्वा कश्यपाद्युदितं मुने ।
आश्वासयन्मुनीन्देवान् हरिर्वाक्यमुपाददे ॥ २१॥
विष्णुरुवाच ।
हे देवा मुनयः सर्वे मद्वचः शृणुतादरात् ।
किमर्थं दुःखमापन्ना दुखं तु त्यजताखिलम् ॥ २२॥
महदाराधनं देवा न सुसाध्यं विचार्यताम् ।
महदाराधने पूर्वं भवेद्दुःखमिति श्रुतम् ॥
विज्ञाय दृढतां देवाः प्रसन्नो भवति ध्रुवम् । २३॥
शिवः सर्वगणाध्यक्षः सहसा परमेश्वरः ।
विचार्यतां हृदा सर्वैः कथं वश्यो भवेदिति ॥ २४॥
प्रणवं पूर्वमुच्चार्य नमः पश्चादुदाहरेत् ।
शिवायेति ततः पश्चाच्छुभद्वयमतः परम् ॥ २५॥
कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः ।
नमश्च प्रणवश्चैव मन्त्रमेवं सदा बुधाः ॥ २६॥