२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 5: रुद्रसंहितायां पञ्चमे युद्धखण्डे शिवस्तुतिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.६. षष्ठोऽध्यायः ।
शिवस्तुतिवर्णनम् ।
व्यास उवाच ।
तस्मिन् दैत्याधिपे पौरे सभ्रातरि विमोहिते ।
सनत्कुमार किं चासीत्तदाचक्ष्वाखिलं विभो ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सनत्कुमार उवाच ।
त्रिपुरे च तथाभूते दैत्ये त्यक्तशिवार्चने ।
स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
कृतार्थ इव लक्ष्मीशो देवैः सार्द्धमुमापतिम् ।
निवेदितुं तच्चरित्रं कैलासमगमद्धरिः ॥ ३॥
तस्योपकण्ठं स्थित्वाऽसौ देवैःसह रमापतिः ।
ततो भूरि स च ब्रह्मा परमेण समाधिना ॥ ४॥
मनसा प्राप्य सर्वज्ञं ब्रह्मणा स हरिस्तदा ।
तुष्टाव वाग्भिरिष्टाभिः शङ्करं पुरुषोत्तमः ॥ ५॥
विष्णुरुवाच ।
महेश्वराय देवाय नमस्ते परमात्मने ।
नारायणाय रुद्राय ब्रह्मणे ब्रह्मरूपिणे ॥ ६॥
एवं कृत्वा महादेवं दण्डवत्प्रणिपत्य ह ।
जजाप रुद्रमन्त्रं च दक्षिणामूर्तिसम्भवम् ॥ ७॥
जले स्थित्वा सार्द्धकोटिप्रमितं तन्मनाः प्रभुः ।
संस्मरन् मनसा शम्भुं स्वप्रभुं परमेश्वरम् ॥ ८॥
तावद्देवास्तदा सर्वे तन्मनस्का महेश्वरम् ॥ ९॥
देवा ऊचुः ।
नमःसर्वात्मने तुभ्यं शङ्करायार्तिहारिणे ।
रुद्राय नीलकण्ठाय चिद्रूपाय प्रचेतसे ॥ १०॥
गतिर्नः सर्वदा त्वं हि सर्वापद्विनिवारकः ।
त्वमेव सर्वदात्माभिर्वन्द्यो देवारिसूदन ॥ ११॥
त्वमादिस्त्वमनादिश्च स्वानन्दश्चाक्षयः प्रभुः ।
प्रकृतेः पुरुषस्यापि साक्षात्स्रष्टा जगत्प्रभुः ॥ १२॥
त्वमेव जगतां कर्ता भर्ता हर्ता त्वमेव हि ।
ब्रह्मा विष्णुर्हरो भूत्वा रजःसत्त्वतमोगुणैः ॥ १३॥
तारकोऽसि जगत्यस्मिन् सर्वेषामधिपोऽव्ययः ।
वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः ॥ १४॥
याच्यो मुक्त्यर्थमीशानो योगिभिर्योगवित्तमैः ।
हृत्पुण्डरीकविवरे योगिनां त्वं हि संस्थितः ॥ १५॥
वदन्ति वेदास्त्वां सन्तः परब्रह्मस्वरूपिणम् ।
भवन्तं तत्त्वमित्यद्य तेजोराशिं परात्परम् ॥ १६॥
परमात्मानमित्याहुरस्मिन् जगति यद्विभो ।
त्वमेव शर्व सर्वात्मन् त्रिलोकाधिपते भव ॥ १७॥
दृष्टं श्रुतं स्तुतं सर्वं ज्ञायमानं जगद्गुरो ।
अणोरल्पतरं प्राहुर्महतोऽपि महत्तरम् ॥ १८॥
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रवणघ्राणं त्वां नमामि च सर्वतः ॥ १९॥
सर्वज्ञं सर्वतो व्यापिन् सर्वेश्वरमनावृतम् ।
विश्वरूपं विरूपाक्षं त्वां नमामि च सर्वतः ॥ २०॥
सर्वेश्वरं भवाध्यक्षं सत्यं शिवमनुत्तमम् ।
कोटि भास्करसङ्काशं त्वां नमामि च सर्वतः ॥ २१॥
विश्वदेवमनाद्यन्तं षट्त्रिंशत्कमनीश्वरम् ।
प्रवर्तकं च सर्वेषां त्वां नमामि च सर्वतः ॥ २२॥
प्रवर्तकं च प्रकृतेः सर्वस्य प्रपितामहम् ।
सर्वविग्रहमीशं हि त्वां नमामि च सर्वतः ॥ २३॥
एवं वदन्ति वरदं सर्वावासं स्वयम्भुवम् ।
श्रुतयः श्रुतिसारज्ञं श्रुतिसारविदश्च ये ॥ २४॥
अदृश्यमस्माभिरनेकभूतं त्वया कृतं यद्भवताथ लोके ।
त्वामेव देवासुरभूसुराश्च अन्ये च वै स्थावरजङ्गमाश्च ॥ २५॥
पाह्यनन्यगतीन् शम्भो सुरान्नो देववल्लभ ।
नष्टप्रायांस्त्रिपुरतो विनिहत्यासुरान्क्षणात् ॥ २६॥
मायया मोहितास्तेऽद्य भवतः परमेश्वर ।
विष्णुना प्रोक्तयुक्त्या त उज्झिता धर्मतः प्रभो ॥ २७॥