Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं

Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 1

द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.५. पञ्चमोऽध्यायः ।

त्रिपुरमोहनम् ।

व्यास उवाच ।

दैत्यराजे दीक्षिते च मायिना तेन मोहिते ।

किमुवाच तदा मायी किं चकार स दैत्यपः ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 2

सनत्कुमार उवाच ।

दीक्षां दत्त्वा यतिस्तस्मा अरिहन्नारदादिभिः ।

शिष्यैः सेवितपादाब्जो दैत्यराजानमब्रवीत् ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 3

अरिहन्नुवाच ।

श‍ृणु दैत्यपते वाक्यं मम संज्ञानगर्भितम् ।

वेदान्तसारसर्वस्वं रहस्यं परमोत्तमम् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 4

अनादिसिद्धः संसारः कर्तृकर्मविवर्जितः ।

स्वयं प्रादुर्भवत्येव स्वयमेव विलीयते ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 5

ब्रह्मादिस्तम्बपर्यन्तं यावद्देहनिबन्धनम् ।

आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 6

यद् ब्रह्मविष्णुरुद्राख्यास्तदाख्या देहिनामिमाः ।

आख्या यथास्मदादीनामरिहन्नादिरुच्यते ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 7

देहो यथास्मदादीनां स्वकालेन विलीयते ।

ब्रह्मादिमशकान्तानां स्वकालाल्लीयते तथा ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 8

विचार्यमाणे देहेऽस्मिन्न किञ्चिदधिकं क्वचित् ।

आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम् ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 9

निराहारपरीमाणं प्राप्य सर्वो हि देहभृत् ।

सदृशीमेव सन्तृप्तिं प्राप्नुयान्नाधिकेतराम् ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 10

यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् ।

तृषितास्तु तथान्येऽपि न विशेषोऽल्पकोऽधिकः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 11

सन्तु नार्यः सहस्राणि रूपलावण्यभूमयः ।

परं निधुवने काले ह्यैकेवेहोपयुज्यते ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 12

अश्वाः पराः शताःसन्तु सन्त्वनेकेऽप्यनेकधा ।

अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 13

पर्यङ्कशायिनां स्वापे सुखं यदुपजायते ।

तदेव सौख्यं निद्राभिर्भूतभूशायिनामपि ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 14

यथैव मरणाद्भीतिरस्मदादिवपुष्मताम् ।

ब्रह्मादिकीटकान्तानां तथा मरणतो भयम् ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 15

सर्वे तनुभृतस्तुल्या यदि बुद्ध्या विचार्य्यते ।

इदं निश्चित्य केनापि नो हिंस्यः कोऽपि कुत्रचित् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 16

धर्मो जीवदयातुल्यो न क्वापि जगतीतले ।

तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 17

एकस्मिन् रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् ।

घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 18

अहिंसा परमो धर्मः पापमात्मप्रपीडनम् ।

अपराधीनता मुक्तिः स्वर्गोऽभिलषिताशनम् ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 19

पूर्वसूरिभिरित्युक्तं सत्प्रमाणतया ध्रुवम् ।

तस्मान्न हिंसा कर्त्तव्या नरैर्नरकभीरुभिः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 20

न हिंसासदृशं पापं त्रैलोक्ये सचराचरे ।

हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 21

सन्ति दानान्यनेकानि किं तैस्तुच्छफलप्रदैः ।

अभीतिसदृशं दानं परमेकमपीह न ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 22

इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ।

विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 23

भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् ।

देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 24

यानि यानीह दानानि बहु मुन्युदितानि च ।

जीवाभयप्रदानस्य कलां नार्हन्ति षोडशीम् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 26

अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ।

परितः परिपूज्यानि किमन्यैरिह पूजितैः ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 27

पञ्चकर्मेन्द्रियग्रामाः पञ्च बुद्धीन्द्रियाणि च ।

मनो बुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ॥ २७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 4: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं, Verse 28

इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् ।

सुखं स्वर्गः समाख्यातो दुःखं नरकमेव हि ॥ २८॥