२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 3: रुद्रसंहितायां पञ्चमे युद्धखण्डे सनत्कुमारपाराशर्यसंवादे त्रिपुरदीक्षाविधानं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.४. चतुर्थोऽध्यायः ।
सनत्कुमारपाराशर्य संवादे त्रिपुरदीक्षाविधानम् ।
सनत्कुमार उवाच ।
असृजच्च महातेजाः पुरुषं स्वात्मसम्भवम् ।
एकं मायामयं तेषां धर्मविघ्नार्थमच्युतः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
मुण्डिनं म्लानवस्त्रं च गुम्फिपात्रसमन्वितम् ।
दधानं पुञ्जिकां हस्ते चालयन्तं पदे पदे ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
वस्त्रयुक्तं तथा हस्तं क्षीयमाणं मुखे सदा ।
धर्मेति व्याहरन्तं हि वाचा विक्लवया मुनिम् ॥ ३॥
स नमस्कृत्य विष्णुं तं तत्पुरः संस्थितोऽथ वै ।
उवाच वचनं तत्र हरिं स प्राञ्जलिस्तदा ॥ ४॥
अरिहन्नच्युतं पूज्यं किं करोमि तदादिश ।
कानि नामानि मे देव स्थानं वापि वद प्रभो ॥ ५॥
इत्येवं भगवान्विष्णुः श्रुत्वा तस्य शुभं वचः ।
प्रसन्नमानसो भूत्वा वचनं चेदमब्रवीत् ॥ ६॥
विष्णुरुवाच ।
यदर्थं निर्मितोऽसि त्वं निबोध कथयामि ते ।
मदङ्गज महाप्राज्ञ मद्रूपस्त्वं न संशयः ॥ ७॥
ममाङ्गाच्च समुत्पन्नो मत्कार्यं कर्तुमर्हसि ।
मदीयस्त्वं सदा पूज्यो भविष्यति न संशयः ॥ ८॥
अरिहन्नाम ते स्यात्तु ह्यन्यानि न शुभानि च ।
स्थानं वक्ष्यामि ते पश्चाच्छृणु प्रस्तुतमादरात् ॥ ९॥
मायिन्मायामयं शास्त्रं तत्षोडशसहस्रकम् ।
श्रौतस्मार्तविरुद्धं च वर्णाश्रमविवर्जितम् ॥ १०॥
अपभ्रंशमयं शास्त्रं कर्मवादमयं तथा ।
रचयेति प्रयत्नेन तद्विस्तारो भविष्यति ॥ ११॥
ददामि तव निर्माणे सामर्थ्यं तद्भविष्यति ।
माया च विविधा शीघ्रं त्वदधीना भविष्यति ॥ १२॥
तच्छ्रुत्वा वचनं तस्य हरेश्च परमात्मनः ।
नमस्कृत्य प्रत्युवाच स मायी तं जनार्दनम् ॥ १३॥
मुण्ड्युवाच ।
यत्कर्तव्यं मया देव द्रुतमादिश तत्प्रभो ।
त्वदाज्ञयाखिलं कर्म सफलं च भविष्यति ॥ १४॥
सनत्कुमार उवाच ।
इत्युक्त्वा पाठयामास शास्त्रं मायामयं तथा ।
इहैव स्वर्गनरकप्रत्ययो नान्यथा पुनः ॥ १५॥
तमुवाच पुनर्विष्णुः स्मृत्वा शिवपदाम्बुजम् ।
मोहनीया इमे दैत्याः सर्वे त्रिपुरवासिनः ॥ १६॥
कार्यास्ते दीक्षिता नूनं पाठनीयाः प्रयत्नतः ।
मदाज्ञया न दोषस्ते भविष्यति महामते ॥ १७॥
धर्मास्तत्र प्रकाशन्ते श्रौतस्मार्त्ता न संशयः ।
अनया विद्यया सर्वे स्फोटनीया ध्रुवं यते ॥ १८॥
गन्तुमर्हसि नाशार्थं मुण्डिंस्त्रिपुरवासिनाम् ।
तमोधर्मं सम्प्रकाश्य नाशयस्व पुरत्रयम् ॥ १९॥
ततश्चैव पुनर्गत्वा मरुस्थल्यां त्वया विभो ।
स्थातव्यं च स्वधर्मेण कलिर्यावत्समाव्रजेत् ॥ २०॥
प्रवृत्ते तु युगे तस्मिन्स्वीयो धर्मः प्रकाश्यताम् ।
शिष्यैश्च प्रतिशिष्यैश्च वर्तनीयस्त्वया पुनः ॥ २१॥
मदाज्ञया भवद्धर्मो विस्तारं यास्यति ध्रुवम् ।
मदनुज्ञापरो नित्यं गतिं प्राप्स्यसि मामकीम् ॥ २२॥
एवमाज्ञा तदा दत्ता विष्णुना प्रभविष्णुना ।
शासनाद्देवदेवस्य हृदा त्वन्तर्दधे हरिः ॥ २३॥
ततस्समुण्डी परिपालयन्हरे- राज्ञां तथा निर्मितवांश्च शिष्यान् ।
यथास्वरूपं चतुरस्तदानीं मायामयं शास्त्रमपाठयत्स्वयम् ॥ २४॥
यथा स्वयं तथा ते च चत्वारो मुण्डिनः शुभाः ।
नमस्कृत्य स्थितास्तत्र हरये परमात्मने ॥ २५॥
हरिश्चापि मुनेस्तत्र चतुरस्तांस्तदा स्वयम् ।
उवाच परमप्रीतः शिवाज्ञापरिपालकः ॥ २६॥
यथा गुरुस्तथा यूयं भविष्यथ मदाज्ञया ।
धन्याः स्थ सद्गतिमिह सम्प्राप्स्यथ न संशयः ॥ २७॥