Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं

Containing 81 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 1

श्रीशिवमहापुराणम् २५ रुद्रसंहितायां युद्धखण्डः ॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां पञ्चमो युद्धखण्डे २.५.१. प्रथमोऽध्यायः ।

त्रिपुरवर्णनम् ।

नारद उवाच ।

श्रुतमस्माभिरानन्दप्रदं चरितमुत्तमम् ।

गृहस्थस्यैव शम्भोश्च गणस्कन्दादिसत्कथम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 2

इदानीं ब्रूहि सुप्रीत्या चरितं वरमुत्तमम् ।

शङ्करो हि यथा रुद्रो जघान विहरन् खलान् ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 3

कथं ददाह भगवान्नगराणि सुरद्विषाम् ।

त्रीण्येकेन च बाणेन युगपत्केन वीर्यवान् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 4

एतत्सर्वं समाचक्ष्व चरितं शशिमौलिनः ।

देवर्षिसुखदं शश्वन्मायाविहरतः प्रभोः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 5

ब्रह्मोवाच ।

एवमेतत्पुरा पृष्टो व्यासेन ऋषिसत्तम ।

सनत्कुमारं प्रोवाच तदेव कथयाम्यहम् ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 6

सनत्कुमार उवाच ।

श‍ृणु व्यास महाप्राज्ञ चरितं शशिमौलिनः ।

यथा ददाह त्रिपुरं बाणेनैकेन विश्वहृत् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 7

शिवात्मजेन स्कन्देन निहते तारकासुरे ।

तत्पुत्रास्तु त्रयो दैत्याः पर्यतप्यन्मुनीश्वर ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 8

तारकाक्षस्तु तज्ज्येष्ठो विद्युन्माली च मध्यमः ।

कमलाक्षः कनीयांश्च सर्वे तुल्यबलाः सदा ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 9

जितेन्द्रियाः सुसन्नद्धाः संयताः सत्यवादिनः ।

दृढचित्ता महावीरा देवद्रोहिण एव च ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 10

ते तु मेरुगुहां गत्वा तपश्चक्रुर्महाद्भुतम् ।

त्रयः सर्वान्सुभोगांश्च विहाय सुमनोहरान् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 11

वसन्ते सर्वकामांश्च गीतवादित्रनिस्स्वनम् ।

विहाय सोत्सवं तेपुस्त्रयस्ते तारकात्मजाः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 12

ग्रीष्मे सूर्यप्रभां जित्वा दिक्षु प्रज्वाल्य पावकम् ।

तन्मध्यसंस्थाः सिद्ध्यर्थं जुहुवुर्हव्यमादरात् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 13

महाप्रतापपतिताःसर्वेऽप्यासन् सुमूर्च्छिताः ।

वर्षासु गतसन्त्रासा वृष्टिं मूर्द्धन्यधारयन् ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 14

शरत्काले प्रभूतं तु भोजनं तु बुभुक्षिताः ।

रम्यं स्निग्धं स्थिरं हृद्यं फलं मूलमनुत्तमम् ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 15

संयमात्क्षुत्तृषो जित्वा पानान्युच्चावचान्यपि ।

बुभुक्षितेभ्यो दत्त्वा तु बभूवुरुपला इव ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 16

संस्थितास्ते महात्मानो निराधाराश्चतुर्दिशम् ।

हेमन्ते गिरिमाश्रित्य धैर्येण परमेण तु ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 17

तुषारदेहसञ्छन्ना जलक्लिन्नेन वाससा ।

आसाद्य देहं क्षौमेण शिशिरे तोयमध्यगाः ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 18

अनिर्विण्णास्ततःसर्वे क्रमशोऽवर्द्धयंस्तपः ।

तेपुस्त्रयस्ते तत्पुत्रा विधिमुद्दिश्य सत्तमाः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 19

तप उग्रं समास्थाय नियमे परमे स्थिताः ।

तपसा कर्षयामासुर्देहान् स्वान् दानवोत्तमाः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 20

वर्षाणां शतकं चैव पदमेकं निधाय च ।

भूमौ स्थित्वा परं तत्र तेपुस्ते बलवत्तराः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 21

ते सहस्रं तु वर्षाणां वातभक्षाः सुदारुणाः ।

तपस्तेपुर्दुरात्मानः परं तापमुपागताः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 22

वर्षाणां तु सहस्रं वै मस्तकेनास्थितास्तथा ।

वर्षाणां तु शतेनैव ऊर्ध्वबाहव आस्थिताः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 23

एवं दुःखं परं प्राप्ता दुराग्रहपरा इमे ।

ईदृक् ते संस्थिता दैत्या दिवारात्रमतन्द्रिता ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 24

एवं तेषां गतः कालो महान् सुतपतां मुने ।

ब्रह्मात्मनां तारकाणां धर्मेणेति मतिर्मम ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 25

प्रादुरासीत्ततो ब्रह्मा सुरासुरगुरुर्महान् ।

सन्तुष्टस्तपसा तेषां वरं दातुं महायशाः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 25

मुनिदेवासुरैः सार्द्धं सान्त्वपूर्वमिदं वचः ।

ततस्तानब्रवीत्सर्वान् सर्वभूतपितामहः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ५ युद्धखण्डः, अध्याय 1: रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं, Verse 27

ब्रह्मोवाच ।

प्रसन्नोऽस्मि महादैत्या युष्माकं तपसा मुने ।

सर्वं दास्यामि युष्मभ्यं वरं ब्रूत यदीप्सितम् ॥ २७॥