Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं

Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.१७. सप्तदशोऽध्यायः ।

गणेशदेहे गजमुखयोजनवर्णनम् ।

नारद उवाच ब्रह्मन् वद महाप्राज्ञ तद् वृत्तान्तेऽखिले श्रुते ।

किमकार्षीन्महादेवी श्रोतुमिच्छामि तत्त्वतः ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 2

ब्रह्मोवाच श्रूयतां मुनिशार्दूल कथयाम्यद्य तद्ध्रुवम् ।

चरितं जगदम्बाया यज्जातं तदनन्तरम् ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 3

मृदङ्गान्पटहांश्चैव गणाश्चावादयंस्तथा ।

महोत्सवं तदा चक्रुर्हते तस्मिन्गणाधिपे ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 4

शिवोऽपि तच्छिरश्छित्वा यावद्दुःखमुपाददे ।

तावच्च गिरिजा देवी चुक्रोधाति मुनीश्वर ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 5

किं करोमि क्व गच्छामि हाहा दुःखमुपागतम् ।

कथं दुःखं विनश्येतास्याऽतिदुःखं ममाधुना ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 6

मत्सुतो नाशितश्चाद्य देवैः सर्वैर्गणैस्तथा ।

सर्वांस्तान्नाशयिष्यामि प्रलयं वा करोम्यहम् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 7

इत्येवं दुःखिता सा च शक्तीः शतसहस्रशः ।

निर्ममे तत्क्षणं क्रुद्धा सर्वलोकमहेश्वरी ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 8

निर्मितास्ता नमस्कृत्य जगदम्बां शिवां तदा ।

जाज्वल्यमाना ह्यवदन्मातरादिश्यतामिति ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 9

तच्छुत्वा शम्भुशक्तिः सा प्रकृतिः क्रोधतत्परा ।

प्रत्युवाच तु ताः सर्वा महामाया मुनीश्वर ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 10

देव्युवाच हे शक्तयोऽधुना देव्यो युष्माभिर्मन्निदेशतः ।

प्रलयश्चात्र कर्त्तव्यो नात्र कार्या विचारणा ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 11

देवांश्चैव ऋषींश्चैव यक्षराक्षसकांस्तथा ।

अस्मदीयान्परांश्चैव सख्यो भक्षत वै हठात् ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 12

ब्रह्मोवाच तदाज्ञप्ताश्च ताः सर्वाः शक्तयः क्रोधतत्पराः ।

देवादीनां च सर्वेषां संहारं कर्तुमुद्यताः ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 13

यथा च तृणसंहारमनलः कुरुते तथा ।

एवं ताः शक्तयः सर्वाः संहारं कर्तुमुद्यताः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 14

गणपो वाथ विष्णुर्वा ब्रह्मा वा शङ्करस्तथा ।

इन्द्रो वा यक्षराजो वा स्कन्दो वा सूर्य एव वा ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 15

सर्वेषां चैव संहारं कुर्वन्ति स्म निरन्तरम् ।

यत्र यत्र तु दृश्येत तत्र तत्रापि शक्तयः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 16

कराली कुब्जका खञ्जा लम्बशीर्षा ह्यनेकशः ।

हस्ते धृत्वा तु देवांश्च मुखे चैवाक्षिपंस्तदा ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 17

तं संहारं तदा दृष्ट्वा हरो ब्रह्मा तथा हरिः ।

इन्द्रादयोऽखिला देवा गणाश्च ऋषयस्तथा ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 18

किं करिष्यति सा देवी संहारं वाप्यकालतः ।

इति संशयमापन्ना जीवनाशा हताऽभवत् ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 19

सर्वे च मिलिताश्चेमे किं कर्त्तव्यं विचिन्त्यताम् ।

एवं विचारयन्तस्ते तूर्णमूचुः परस्परम् ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 20

यदा च गिरिजा देवी प्रसन्ना हि भवेदिह ।

तदा चैव भवेत्स्वास्थ्यं नान्यथा कोटि यत्नतः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 21

शिवोऽपि दुःखमापन्नो लौकिकीं गतिमाश्रितः ।

मोहयन्सकलांस्तत्र नानालीलाविशारदः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 22

सर्वेषां चैव देवानां कटिर्भग्ना यदा तदा ।

शिवा क्रोधमयी साक्षाद् गन्तुं न पुर उत्सहेत् ॥। २२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 23

स्वीयो वा परकीयो वा देवो वा दानवोऽपि वा ।

गणो वापि च दिक्पालो यक्षो वा किन्नरो मुनिः ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 24

विष्णुर्वापि तथा ब्रह्मा शङ्करश्च तथा प्रभुः ।

न कश्चिद्गिरिजाग्रे च स्थातुं शक्तोऽभवन्मुने ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 25

जाज्वल्यमानं तत्तेजःसर्वतो दाहि तेऽखिलाः ।

दृष्ट्वा भीततरा आसन् सर्वे दूरतरं स्थिताः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 26

एतस्मिन्समये तत्र नारदो दिव्यदर्शनः ।

आगतस्त्वं मुने देवगणानां सुखहेतवे ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 14: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशजीवनवर्णनं, Verse 27

ब्रह्माणं मां भवं विष्णुं शङ्करं च प्रणम्य सः ।

समागत्य मिलित्वोचे विचार्य कार्यमेव वा ॥ २७॥