२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 13: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धगणेशशिरश्छेदनवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.१६. षोडशोऽध्यायः ।
गणेशशिरश्च्छेदनवर्णनम् ।
ब्रह्मोवाच इति श्रुत्वा महेशानो भक्तानुग्रहकारकः ।
त्वद्वाचा युदकामोऽभूत्तेन बालेन नारद ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
विष्णुमाहूय सम्मन्त्र्य बलेन महता युतः ।
सामरः सम्मुखस्तस्याप्यभूद्देवस्त्रिलोचनः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
देवाश्च युयुधुस्तेन स्मृत्वा शिवपदाम्बुजम् ।
महाबला महोत्साहाश्शिवसद्दृष्टिलोकिताः ॥ ३॥
युयुधेऽथ हरिस्तेन महाबलपराक्रमः ।
महादेव्यायुधो वीरः प्रवणः शिवरूपकः ॥ ४॥
यष्ट्या गणाधिपः सोऽथ जघानामरपुङ्गवान् ।
हरिं च सहसा वीरः शक्तिदत्तमहाबलः ॥ ५॥
सर्वेऽमरगणास्तत्र विकुण्ठितबला मुने ।
अभूवन् विष्णुना तेन हता यष्ट्या पराङ्मुखाः ॥ ६॥
शिवोऽपि सह सैन्येन युद्धं कृत्वा चिरं मुने ।
विकरालं च तं दृष्ट्वा विस्मयं परमं गतः ॥ ७॥
छलेनैव च हन्तव्यो नान्यथा हन्यते पुनः ।
इति बुद्धिं समास्थाय सैन्यमध्ये व्यवस्थितः ॥ ८॥
शिवे दृष्टे तदा देवे निर्गुणे गुणरूपिणि ।
विष्णौ चैवाथ सङ्ग्रामे आयाते सर्वदेवताः ॥ ९॥
गणाश्चैव महेशस्य महाहर्षं तदा ययुः ।
सर्वे परस्परं प्रीत्या मिलित्वा चक्रुरुत्सवम् ॥ १०॥
अथ शक्तिसुतो वीरो वीरगत्या स्वयष्टितः ।
प्रथमं पूजयामास विष्णुं सर्वसुखावहम् ॥ ११॥
अहं च मोहयिष्यामि हन्यतां च त्वया विभो ।
छलं विना न वध्योऽयं तामसोऽयं दुरासदः ॥ १२॥
इति कृत्वा मतिं तत्र सुसम्मन्त्र्य च शम्भुना ।
आज्ञां प्राप्याऽभवच्छैवीं विष्णुर्मोहपरायणः ॥ १३॥
शक्तिद्वयं तथा लीनं हरिं दृष्ट्वा तथाविधम् ।
दत्त्वा शक्तिबलं तस्मै गणेशायाभवन्मुने ॥ १४॥
शक्तिद्वयेऽथ संलीने यत्र विष्णुः स्थितः स्वयम् ।
परिघं क्षिप्तवांस्तत्र गणेशो बलवत्तरः ॥ १५॥
कृत्वा यत्नं किमप्यत्र वञ्चयामास तद्गतिम् ।
शिवं स्मृत्वा महेशानं स्वप्रभुं भक्तवत्सलम् ॥ १६॥
एकतस्तन्मुखं दृष्ट्वा शङ्करोऽप्याजगाम ह ।
स्वत्रिशूलं समादाय सुक्रुद्धो युद्धकाम्यया ॥ १७॥
स ददर्शागतं शम्भुं शूलहस्तं महेश्वरम् ।
हन्तुकामं निजं वीरः शिवापुत्रो महाबलः ॥ १८॥
शक्त्या जघान तं हस्ते स्मृत्वा मातृपदाम्बुजम् ।
स गणशो महावीरः शिवशक्तिप्रवर्द्धितः ॥ १९॥
त्रिशूलं पतितं हस्ताच्छिवस्य परमात्मनः ।
दृष्ट्वा सदूतिकस्तं वै पिनाकं धनुराददे ॥ २०॥
तमप्यपातयद्भूमौ परिघेण गणेश्वरः ।
हताः पञ्च तथा हस्ताः पञ्चभिश्शूलमाददे ॥ २१॥
अहो दुःखतरं नूनं सञ्जातमधुना मम ।
भवेत्पुनर्गणानां किं भवाचारो जगाविति ॥ २२॥
एतस्मिन्नन्तरे वीरः परिघेण गणेश्वरः ।
जघान सगणान् देवान् शक्तिदत्तबलान्वितः ॥ २३॥
गता दशदिशो देवाः सगणाः परिघार्दिताः ।
न तस्थुःसमरे केऽपि तेनाद्भुतप्रहारिणा ॥ २४॥
विष्णुस्तं च गणं दृष्ट्वा धन्योऽयमिति चाब्रवीत् ।
महाबलो महावीरो महाशूरो रणप्रियः ॥ २५॥
बहवो देवताश्चैव मया दृष्टास्तथा पुनः ।
दानवा बहवो दैत्या यक्षगन्धर्वराक्षसाः ॥ २६॥
नैतेन गणनाथेन समतां यान्ति केऽपि च ।
त्रैलोक्येऽप्यखिले तेजो रूपशौर्यगुणादिभिः ॥ २७॥