Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं

Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.१५. पञ्चदशोऽध्यायः ।

शिवगणैः सह गणेशयुद्धवर्णनम् ।

ब्रह्मोवाच इत्युक्ता विभुना तेन निश्चयं परमं गताः ।

सन्नद्धास्तु तदा तत्र जग्मुश्च शिवमन्दिरम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 2

गणेशोऽपि तथा दृष्ट्वा ह्यायातान्गणसत्तमान् ।

युद्धाऽऽटोपं विधायैव स्थितांश्चैवाब्रवीदिदम् ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 3

गणेश उवाच आयान्तु गणपाः सर्वे शिवाज्ञापरिपालकाः ।

अहमेकश्च बालश्च शिवाज्ञापरिपालकः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 4

तथापि पश्यतां देवी पार्वती सूनुजं बलम् ।

शिवश्च स्वगणानां तु बलं पश्यतु वै पुनः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 5

बलवद्बालयुद्धं च भवानीशिवपक्षयोः ।

भवद्भिश्च कृतं युद्धं पूर्वं युद्धविशारदैः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 6

मया पूर्वं कृतं नैव बालोऽस्मि क्रियतेऽधुना ।

तथापि भवतां लज्जा गिरिजाशिवयोरिह ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 7

ममैवं तु भवेन्नैव वैपरीत्यं भविष्यति ।

ममैव भवतां लज्जा गिरिजाशिवयोरिह ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 8

एवं ज्ञात्वा च कर्त्तव्यः समरश्च गणेश्वराः ।

भवद्भिः स्वामिनं दृष्ट्वा मया च मातरं तदा ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 9

क्रियते कीदृशं युद्धं भवितव्यं भवत्विति ।

तस्य वै वारणे कोऽपि न समर्थस्त्रिलोकके ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 10

ब्रह्मोवाच इत्येवं भर्त्सितास्ते तु दण्डभूषितबाहवः ।

विविधान्यायुधान्येवं धृत्वा ते च समाययुः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 11

घर्षयन्तस्तथा दन्तान् हुङ्कृत्य च पुनः पुनः ।

पश्य पश्य ब्रुवन्तश्च गणास्ते समुपागताः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 12

नन्दी प्रथममागत्य धृत्वा पादं व्यकर्षयत् ।

धावन्भृङ्गी द्वितीयं च पादं धृत्वा गणस्य च ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 13

यावत्पादे विकर्षन्तौ तावद्धस्तेन वै गणः ।

आहत्य हस्तयोस्ताभ्यामुत्क्षिप्तौ पादकौ स्वयम् ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 14

अथ देवीसुतो वीरस्सङ्गृह्य परिघं बृहत् ।

द्वारस्थितो गणपतिः सर्वानापोथयत्तदा ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 15

केषाञ्चित्पाणयो भिन्नाः केषाञ्चित्पृष्ठकानि च ।

केषाञ्चिच्च शिरांस्येव केषाञ्चिन्मस्तकानि च ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 16

केषाञ्चिज्जानुनी तत्र केषाञ्चित्स्कन्धकास्तथा ।

केषाञ्चिज्जानुनी तत्र केषाञ्चित्स्कन्धास्तथा ।

सम्मुखे चागता ये वै ते सर्वे हृदये हताः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 17

केचिच्च पतिता भूमौ केचिच्च विदिशो गताः ।

केषाञ्चिच्चरणौ छिन्नौ केचिच्छर्वान्तिकं गताः ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 18

तेषां मध्ये तु कश्चिद्वै सङ्ग्रामे सम्मुखो न हि ।

सिंहं दृष्ट्वा यथा यान्ति मृगाश्चैव दिशो दश ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 19

तथा ते च गणाः सर्वे गताश्चैव सहस्रशः ।

परावृत्य तथा सोऽपि सुद्वारि समुपस्थितः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 20

कल्पान्तकरणे कालो दृश्यते च भयङ्करः ।

यथा तथैव दृष्टः स सर्वेषां प्रलयङ्करः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 21

एतस्मिन्समये चैव सरमेशसुरेश्वराः ।

प्रेरिता नारदेनेह देवाः सर्वे समागमन् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 22

समब्रुवंस्तदा सर्वे शिवस्य हितकाम्यया ।

पुरः स्थित्वा शिवं नत्वा ह्याज्ञां देहि प्रभो इति ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 23

त्वं परब्रह्म सर्वेशः सर्वे च तव सेवकाः ।

सृष्टेः कर्ता सदा भर्ता संहर्ता परमेश्वरः ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 24

रजस्सत्त्वतमोरूपो लीलया निर्गुणः स्वतः ।

का लीला रचिता चाद्य तामिदानीं वद प्रभो ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 25

ब्रह्मोवाच इत्याकर्ण्य वचस्तेषां मुनिश्रेष्ठ महेश्वरः ।

गणान् भिन्नाँस्तदा दृष्ट्वा तेभ्यस्सर्वं न्यवेदयत् ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 26

अथ सर्वेश्वरस्तत्र शङ्करो मुनिसत्तम ।

विहस्य गिरिजानाथो ब्रह्माणं मामुवाच ह ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 12: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धवर्णनं, Verse 27

शिव उवाच ब्रह्मञ्छृणु मम द्वारि बाल एकः समास्थितः ।

महाबलो यष्टिपाणिर्गेहावेशनिवारकः ॥ २७॥