२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 11: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणविवादवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.१४. चतुर्दशोऽध्यायः ।
गणेशेन सह शिवगणानां विवादवर्णनम् ।
ब्रह्मोवाच गणास्ते क्रोधसम्पन्नास्तत्र गत्वा शिवाज्ञया ।
पप्रच्छुर्गिरिजापुत्रं तं तदा द्वारपालकम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
शिवगणा ऊचुः कोऽसि त्वं कुत आयातः किं वा त्वं च चिकीर्षसि ।
इतोऽद्य गच्छ दूरं वै यदि जीवितुमिच्छसि ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ब्रह्मोवाच तदीयं तद्वचः श्रुत्वा गिरिजातनयः स वै ।
निर्भयो दण्डपाणिश्च द्वारपानब्रवीदिदम् ॥ ३॥
गणेश उवाच यूयं के कुत आयाता भवन्तः सुन्दरा इमे ।
यात दूरं किमर्थं वै स्थिता अत्र विरोधिनः ॥ ४॥
ब्रह्मोवाच एवं श्रुत्वा वचस्तस्य हास्यं कृत्वा परस्परम् ।
ऊचुःसर्वे शिवगणा महावीरा गतस्मयाः ॥ ५॥
परस्परमिति प्रोच्य सर्वे ते शिवपार्षदाः ।
द्वारपालं गणेशं तं प्रत्यूचुः क्रुद्धमानसाः ॥ ६॥
शिवगणा ऊचुः श्रूयतां द्वारपाला हि वयं शिवगणा वराः ।
त्वां निवारयितुं प्राप्ताः शङ्करस्याज्ञया विभोः ॥ ७॥
त्वामपीह गणं मत्वा न हन्यामोऽन्यथा हतः ।
तिष्ठ दूरे स्वतः त्वं च किमर्थं मृत्युमीहसे ॥ ८॥
ब्रह्मोवाच इत्युक्तोऽपि गणेशश्च गिरिजातनयोऽभयः ।
निर्भर्त्स्य शङ्करगणान्न द्वारं मुक्तवांस्तदा ॥ ९॥
ते सर्वेऽपि गणाः शैवाः तत्रत्या वचनं तदा ।
श्रुत्वा तत्र शिवं गत्वा तद्वृत्तान्तमथाब्रुवन् ॥ १०॥
ततश्च तद्वचः श्रुत्वाद्भुतलीलो महेश्वरः ।
विनिर्भर्त्स्य गणानूचे निजाँल्लोकगतिर्मुने ॥ ११॥
महेश्वर उवाच कश्चायं वर्तते किं च ब्रवीत्यरिवदुच्छ्रितः ।
किं करिष्यत्यसद्बुद्धिः स्वमृत्युं वाञ्छति ध्रुवम् ॥ १२॥
दूरतः क्रियतां ह्येष द्वारपालो नवीनकः ।
क्लीबा इव स्थितास्तस्य वृत्तं वदथ मे कथम् ॥ १३॥
स्वामिनोक्ता गणास्ते चाद्भुतलीलेन शम्भुना ।
पुनरागत्य तत्रैव तमूचुर्द्वारपालकम् ॥ १४॥
शिवगणा ऊचुः ।
रे रे द्वारप कस्त्वं हि स्थितश्च स्थापितः कुतः ।
नैवास्मान्गणयस्येवं कथं जीवितुमिच्छसि ॥ १५॥
द्वारपाला वयं सर्वे स्थिताः किं परिभाषसे ।
सिंहासनगृहीतश्च शृगालः शिवमीहते ॥ १६॥
तावद्गर्जसि मूर्ख त्वं यावद्गणपराक्रमः ।
नानुभूतस्त्वयात्रैव ह्यनुभूतः पतिष्यसि ॥ १७॥
इत्युक्तस्तैस्सुसङ्क्रुद्धो हस्ताभ्यां यष्टिकां तदा ।
गृहीत्वा ताडयामास गणांस्तान्परिभाषिणः ॥ १८॥
उवाचाथ शिवापुत्रः परिभर्त्स्य गणेश्वरान् ।
शङ्करस्य महावीरान्निर्भयस्तान्गणेश्वरः ॥ १९॥
शिवापुत्र उवाच यात यात इतो दूरे नो चेद्वो दर्शयामि ह ।
स्वपराक्रममत्युग्रं यास्यथात्युपहास्यताम् ॥ २०॥
इत्याकर्ण्य वचस्तस्य गिरिजातनयस्य हि ।
परस्परमथोचुस्ते शङ्करस्य गणास्तदा ॥ २१॥
शिवगणा ऊचुः ।
किं कर्तव्यं क्व गन्तव्यं क्रियते स न किं पुनः ।
मर्यादा रक्ष्यतेऽस्माभिरन्यथा किं ब्रवीति च ॥ २२॥
ब्रह्मोवाच ततः शम्भुगणाःसर्वे शिवं दूरे व्यवस्थितम् ।
क्रोशमात्रं तु कैलासाद्गत्वा ते च तथाऽब्रुवन् ॥ २३॥
शिवो विहस्य तान्सर्वांस्त्रिशूलकर उग्रधीः ।
उवाच परमेशो हि स्वगणान् वीरसम्मतान् ॥ २४॥
शिव उवाच रे रे गणाः क्लीबमता न वीरा वीरमानिनः ।
मदग्रे नोदितुं योग्या भर्त्सितः किं पुनर्वदेत् ॥ २५॥
गम्यतां ताड्यतां चैष यः कश्चित्प्रभवेदिह ।
बहुनोक्तेन किं चात्र दूरीकर्तव्य एव सः ॥ २६॥
ब्रह्मोवाच इति सर्वे महेशेन जग्मुस्तत्र मुनीश्वर ।
भर्त्सितास्तेन देवेन प्रोचुश्च गणसत्तमाः ॥ २७॥