Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं

Containing 87 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 1

विद्येश्वरसंहिता १.१३. त्रयोदशोऽध्यायः ।

सदाचारवर्णनम् ।

ऋषय ऊचुः ।

सदाचारं श्रावयाशु येन लोकाञ्जयेद् बुधः ।

धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 2

सूत उवाच ।

सदाचारयुतो विद्वान् ब्राह्मणो नाम नामतः ।

वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 3

अल्पाचारोऽल्पवेदश्च क्षत्रियो राजसेवकः ।

किञ्चिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तथा ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 4

शूद्रब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ।

असूयालुः परद्रोही चण्डालद्विज उच्यते ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 5

पृथिवीपालको राजा इतरे क्षत्रिया मताः ।

धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 6

ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ।

कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 7

सर्वो ह्युषः प्राङ्मुखश्च चिन्तयेद् देवपूर्वकान् ।

धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 8

आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ।

व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 9

निशान्त्ययामोषा ज्ञेया यामार्धं सन्धिरुच्यते ।

तत्काले तु समुत्थाय विण्मूत्रे विसृजेद् द्विजः ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 10

गृहाद् दूरं ततो गत्वा बाह्यतः प्रावृतस्तथा ।

उदङ्मुखः समाविश्य प्रतिबन्धेऽन्यदिङ्मुखः ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 11

जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ।

लिङ्गं पिधाय वामेन मुखमन्येन पाणिना ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 12

मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ।

उद्धृतेन जलेनैव शौचं कुर्याज्जलाद् बहिः ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 13

अथवा देवपित्रर्षितीर्थावतरणं विना ।

सप्त वा पञ्च वा त्रीन्वा गुदं संशोधयेन्मृदा ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 14

लिङ्गे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ।

तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥ १४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 15

येन केन च पत्रेण काष्ठेन च जलाद् बहिः ।

कार्यं सन्तर्जनीं त्यज्य दन्तधावनमीरितम् ॥ १५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 16

जलदेवान्नमस्कृत्य मन्त्रेण स्नानमाचरेत् ।

अशक्तः कण्ठदघ्नं वा कटिदघ्नमथापि वा ॥ १६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 17

आजानुजलमाविश्य मन्त्रस्थानं समाचरेत् ।

देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥ १७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 18

धौतवस्त्रं समादाय पञ्चकच्छेन धारयेत् ।

उत्तरीयं च किञ्चैव धार्यं सर्वेषु कर्मसु ॥ १८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 19

नद्यादितीर्थस्नने तु स्नानवस्त्रं न शोधयेत् ।

वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः ॥ १९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 20

शिलादार्वादिके वापि जले वापि स्थलेऽपि वा ।

संशोध्य पीडयेद्वस्त्रं पितॄणां तृप्तये द्विजाः ॥ २०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 21

जाबालकोक्तमन्त्रेण भस्मना च त्रिपुण्ड्रकम् ।

अन्यथा चेज्जले पातस्ततो नरकमृच्छति ॥ २१॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 22

आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशान्तये ।

यस्येति मन्त्रं पादे तु सन्धिप्रोक्षणमुच्यते ॥ २२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 23

हृदये मूर्ध्नि पादे च मूर्ध्नि हृत्पाद एव च ।

हृत्पादमूर्ध्नि सम्प्रोक्ष्य मन्त्रस्नानं विदुर्बुधाः ॥ २३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 24

ईषत्स्पर्शे च दोःस्वास्थ्ये राजराष्ट्रभयेऽपि च ।

अगत्या गतिकाले च मन्त्रस्नानं समाचरेत् ॥ २४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 25

प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ।

अपः पीत्वा तथा मध्ये पुनः प्रोक्षणमाचरेत् ॥ २५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 26

गायत्र्या जपमन्त्रान्ते त्रिरूर्ध्वं प्राग्विनिक्षिपेत् ।

मन्त्रेण सह चैकं वै मध्येऽर्घ्यं तु रवेर्द्विजाः ॥ २६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 27

अथ जाते च सायाह्ने भुवि पश्चिमदिङ्मुखः ।

उद्धृत्य दद्यात् प्रातस्तु मध्याह्नेऽङ्गुलिभिस्तथा ॥ २७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 11: विद्येश्वरसंहितायां सदाचारवर्णनं, Verse 28

अङ्गुलीनां च रन्ध्रेण लम्बं पश्येद् दिवाकरम् ।

आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥ २८॥