Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.१३. त्रयोदशोऽध्यायः ।

गणेशोत्पत्तिः ।

सूत उवाच तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् ।

नारदः सुप्रसन्नोऽथ पप्रच्छ प्रीतितो विधिम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 2

नारद उवाच देवदेव प्रजानाथ शिवज्ञाननिधे मया ।

श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम् ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 3

अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् ।

तज्जन्मचरितं दिव्यं सर्वमङ्गलमङ्गलम् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 4

सूत उवाच इत्याकर्ण्य वचस्तस्य नारदस्य महामुनेः ।

प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 5

ब्रह्मोवाच कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात् ।

शनिदृष्टं शिरश्छिन्नं सञ्चितं गाजमाननम् ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 6

इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते ।

यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 7

सन्देहो नात्र कर्तव्यः शङ्करस्सूतिकृन्मुने ।

स हि सर्वाधिपः शम्भुर्निर्गुणः सगुणोऽपि हि ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 8

तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा ।

विनाश्यते मुनिश्रेष्ठ प्रस्तुतं श‍ृणु चादरात् ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 9

उद्वाहिते शिवे चात्र कैलासं च गते सति ।

कियता चैव कालेन जातो गणपतेर्भवः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 10

एकस्मिन्नेव काले च जया च विजया सखी ।

पार्वत्या च मिलित्वा वै विचारे तत्पराभवत् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 11

रुद्रस्य च गणाःसर्वे शिवस्याज्ञापरायणाः ।

ते सर्वेऽप्यस्मदीयाश्च नन्दिभृङ्गिपुरस्सराः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 12

प्रमथास्ते ह्यसङ्ख्याता अस्मदीयो न कश्चन ।

द्वारि तिष्ठन्ति ते सर्वे शङ्कराज्ञापरायणाः ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 13

ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः ।

एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 14

ब्रह्मोवाच इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः ।

हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 15

ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः ।

नन्दिनं परिभर्त्स्याथ ह्याजगाम गृहान्तरम् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 16

आयान्तं शङ्करं दृष्ट्वाऽसमये जगदम्बिका ।

उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 17

तस्मिन्नवसरे देवी कौतुकेनातिसंयुता ।

तदीयं तद्वचश्चैव हितं मेने सुखावहम् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 18

एवं जाते तदा काले कदाचित्पार्वती शिवा ।

विचिन्त्य मनसा चेति परमाया परेश्वरी ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 19

मदीयः सेवकः कश्चिद्भवेच्छुभतरः कृती ।

मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 20

विचार्येति च सा देवी वपुषो मलसम्भवम् ।

पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 21

सर्वावयवनिर्दोषं सर्वावयव सुन्दरम् ।

विशालं सर्वशोभाढ्यं महाबलपराक्रमम् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 22

वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि ।

नानालङ्करणं चैव बह्वाशिषमनुत्तमाम् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 23

मत्पुत्रस्त्वं मदीयोऽसि नान्यः कश्चिदिहास्ति मे ।

एवमुक्तः स पुरुषो नमस्कृत्य शिवां जगौ ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 24

गणेश उवाच किं कार्यं विद्यते तेऽद्य करवाणि तवोदितम् ।

इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 25

शिवोवाच हे तात श‍ृणु मद्वाक्यं द्वारपालो भवाद्य मे ।

मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 26

विना मदाज्ञां सत्पुत्र नैवायान्मद्गृहान्तरम् ।

कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम् ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 10: रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं, Verse 27

ब्रह्मोवाच इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने ।

तदीयं रूपमालोक्य सुन्दरं हर्षमागता ॥ २७॥