२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 9: रुद्रसंहितायां चतुर्थे कुमारखण्डे स्वामिकार्तिकचरितगर्भितशिवाशिवचरितवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 152 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.१०. दशमोऽध्यायः ।
तारकासुरवधः देवोत्सववर्णनञ्च ।
ब्रह्मोवाच निवार्य वीरभद्रं तं कुमारः परवीरहा ।
समैच्छत्तारकवधं स्मृत्वा शिवपदाम्बुजौ ॥ १॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.११. एकादशोऽध्यायः ।
बाणप्रलम्बवधपूर्वक कुमारविजयवर्णनं लिङ्गस्थापनञ्च ।
ब्रह्मोवाच एतस्मिन्नन्तरे तत्र क्रौञ्चनामाचलो मुने ।
आजगाम कुमारस्य शरणं बाणपीडितः ॥ १॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.१२. द्वादशोऽध्यायः ।
तारकवधानन्तरं देवैः कृतास्तुतिः ।
ब्रह्मोवाच निहतं तारकं दृष्ट्वा देवा विष्णुपुरोगमाः ।
तुष्टुवुः शाङ्करिं भक्त्या सर्वेऽन्ये मुदिताननाः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
जगर्जाथ महातेजाः कार्तिकेयो महाबलः ।
सन्नद्धः सोऽभवत्क्रुद्धः सैन्येन महता वृतः ॥ २॥
पलायमानो यो युद्धादसोढा तेज ऐश्वरम् ।
तुतोदातीव स क्रौञ्चं कोट्यायुतबलान्वितः ॥ २॥
देवा ऊचुः ।
नमः कल्याणरूपाय नमस्ते विश्वमङ्गल ।
विश्वबन्धो नमस्तेऽस्तु नमस्ते विश्वभावन ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तदा जय जयेत्युक्तं सर्वैर्देवगणैस्तथा ।
संस्तुतो वाग्भिरिष्टाभिस्तदैव च सुरर्षिभिः ॥ ३॥
प्रणिपत्य कुमारस्य स भक्त्या चरणाम्बुजम् ।
प्रेमनिर्भरया वाचा तुष्टाव गुहमादरात् ॥ ३॥
नमोस्तु ते दानववर्यहन्त्रे बाणासुरप्राणहराय देव ।
प्रलम्बनाशाय पवित्ररूपिणे नमोनमः शङ्करतात तुभ्यम् ॥ ३॥
तारकस्य कुमारस्य सङ्ग्रामोऽतीव दुःसहः ।
जातस्तदा महाघोरः सर्वभूत भयङ्करः ॥ ४॥
क्रौञ्च उवाच कुमार स्कन्द देवेश तारकासुरनाशक ।
पाहि मां शरणापन्नं बाणासुरनिपीडितम् ॥ ४॥
त्वमेव कर्त्ता जगतां च भर्त्ता त्वमेव हर्त्ता शुचिज प्रसीद ।
प्रपञ्चभूतस्तव लोकबिम्बः प्रसीद शम्भ्वात्मज दीनबन्धो ॥ ४॥
शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ।
सर्वेषां पश्यतां तत्र महाश्चर्यवतां मुने ॥ ५॥
सङ्गरात्ते महासेन समुच्छिन्नः पलायितः ।
न्यपीडयच्च माऽऽगत्य हा नाथ करुणाकर ॥ ५॥
देवरक्षाकर स्वामिन् रक्ष नः सर्वदा प्रभो ।
देवप्राणावनकर प्रसीद करुणाकर ॥ ५॥
शक्तिनिर्भिन्नदेहौ तौ महासाधनसंयुतौ ।
परस्परं वञ्चयन्तौ सिंहाविव महाबलौ ॥ ६॥
तत्पीडितस्ते शरणमागतोऽहं सुदुःखितः ।
पलायमानो देवेश शरजन्मन् दयां कुरु ॥ ६॥
हत्वा त्वं तारकं दैत्यं परिवारयुतं विभो ।
मोचिताः सकला देवा विपद्भ्यः परमेश्वर ॥ ६॥
वैतालिकं समाश्रित्य तथा खेचरकं मतम् ।
प्रापतं च समाश्रित्य शक्त्या शक्तिं विजघ्नतुः ॥ ७॥
दैत्यं तं नाशय विभो बाणाह्वं मां सुखीकुरु ।
दैत्यघ्नस्त्वं विशेषेण देवावनकरः स्वराट् ॥ ७॥
ब्रह्मोवाच एवं स्तुतः कुमारोऽसौ देवैर्विष्णुमुखैः प्रभुः ।
वरान्ददावभिनवान्सर्वेभ्यः क्रमशो मुने ॥ ७॥
एभिर्मन्त्रैर्महावीरौ चक्रतुर्युद्धमद्भुतम् ।
अन्योऽन्यं साधकौ भूत्वा महाबलपराक्रमौ ॥ ८॥
ब्रह्मोवाच इति क्रौञ्चस्तुतःस्कन्दः प्रसन्नो भक्तपालकः ।
गृहीत्वा शक्तिमतुलां स्वां सस्मार शिवो धिया ॥ ८॥
शैलान्निरीक्ष्य स्तुवतस्ततःस गिरिशात्मजः ।
सुप्रसन्नतरो भूत्वा प्रोवाच प्रददद्वरान् ॥ ८॥
महाबलं प्रकुर्वन्तौ परस्परवधैषिणौ ।
जघ्नतुः शक्तिधाराभी रणे रणविशारदौ ॥ ९॥
चिक्षेप तां समुद्दिश्य स बाणं शङ्करात्मजः ।
महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ॥ ९॥
स्कन्द उवाच यूयं सर्वे पर्वता हि पूजनीयास्तपस्विभिः ।
कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ ॥ ९॥