२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 7: रुद्रसंहितायां चतुर्थे कुमारखण्डे युद्धप्रारम्भवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.७. सप्तमोऽध्यायः ।
तारकेण सहेन्द्रादिदेवानां युद्धवर्णनम् ।
ब्रह्मोवाच हर्य्यादयस्सुरास्ते च दृष्ट्वा तच्चरितं विभोः ।
सुप्रसन्ना बभूवुर्हि विश्वासासक्तमानसाः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
वल्गन्तः कुर्वतो नादं भाविताश्शिवतेजसा ।
कुमारन्ते पुरस्कृत्य तारकं हन्तुमाययुः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः ।
सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३॥
देवा दृष्ट्वा समायान्तं तारकस्य महाबलम् ।
बलेन बहुकुर्वन्तः सिंहनादं विसिस्मियुः ॥ ४॥
तदा नभोऽङ्गना वाणीं जगादोपरि सत्वरम् ।
शङ्करप्रेरिता सद्यो हर्यादीनखिलान् सुरान् ॥ ५॥
व्योमवाण्युवाच कुमारं च पुरस्कृत्य सुरा यूयं समुद्यताः ।
दैत्यान्विजित्य सङ्ग्रामे जयिनोऽथ भविष्यथ ॥ ६॥
ब्रह्मोवाच वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः ।
वीरशब्दान् प्रकुर्वन्तो निर्भया ह्यभवंस्तदा ॥ ७॥
कुमारं च पुरस्कृत्य सर्वे ते गतसाध्वसाः ।
योद्धुकामाः सुरा जग्मुर्महीसागरसङ्गमम् ॥ ८॥
आजगाम द्रुतं तत्र यत्र देवाः स तारकः ।
सैन्येन महता सार्द्धं असुरैर्बहुभिर्वृतः ॥ ९॥
रणदुन्दुभयो नेदुः प्रलयाम्बुदनिःस्वनाः ।
कर्कशानि च वाद्यानि पराणि च तदागमे ॥ १०॥
गर्जमानास्तदा दैत्यास्तारकेणासुरेण ह ।
कम्पयन्तो भुवं पादक्रमैर्वल्गुनकारकाः ॥ ११॥
तच्छ्रुत्वा रवमत्युग्रं सर्वे देवा विनिर्भयाः ।
ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम् ॥ १२॥
गजमारोप्य देवेन्द्रः कुमारं ह्यग्रतोऽभवत् ।
सुरसैन्येन महता लोकपालैः समावृतः ॥ १३॥
तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः ।
वीणावेणुमृदङ्गानि तथा गन्धर्वनिस्स्वनाः ॥ १४॥
गजं दत्त्वा महेन्द्राय कुमारो यानमारुहत् ।
अनेकाश्चर्यसम्भूतं नानारत्नसमन्वितम् ॥ १५॥
विमानमारुह्य तदा महायशाः स शाङ्करिःसर्वगुणैरुपेतः ।
श्रिया समेतः परया बभौ महान् संवीज्यमानश्चमरैर्महाप्रभैः ॥ १६॥
प्राचेतसं छत्रमतीवसुप्रभं रत्नैरुपेतं विविधैर्विराजितम् ।
धृतं तदा तच्च कुमारमूर्ध्नि वै ह्यनन्तचान्द्रैः किरणैर्महाप्रभैः ॥ १७॥
मिलितास्ते तदा सर्वे देवाः शक्रपुरोगमाः ।
स्वैः स्वैर्बलैः परिवृता युद्धकामा महाबलाः ॥ १८॥
एवं देवाश्च दैत्याश्च योद्धुकामाः स्थिता भुवि ।
सैन्येन महता तेन व्यूहं कृत्वा पृथक् पृथक् ॥ १९॥
ते सेने सुरदैत्यानां शुशुभाते परस्परम् ।
हन्तुकामे तदान्योन्यं स्तूयमाने च बन्दिभिः ॥ २०॥
उभे सेने तदा तेषामगर्जेतां वनोपमे ।
भयङ्करेऽत्यवीराणामितरेषां सुखावहे ॥ २१॥
एतस्मिन्नन्तरे तत्र बलोन्मत्ताः परस्परम् ।
दैत्या देवा महावीरा युयुधुः क्रोधविह्वलाः ॥ २२॥
आसीत्सुतुमुलं युद्धं देवदैत्यसमाकुलम् ।
रुण्डमुण्डाङ्कितं सर्वं क्षणेन समपद्यत ॥ २३॥
भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः ।
निकृत्ताङ्गा महाशस्त्रैर्निहता वीरसम्मताः ॥ २४॥
केषाञ्चिद्बाहवश्छिन्नाः खड्गपातैः सुदारुणैः ।
केषाञ्चिदूरवश्छिन्ना वीराणां मानिनां मृधे ॥ २५॥
केचिन्मथितसर्वाङ्गा गदाभिर्मुद्गरैस्तथा ।
केचिन्निर्भिन्नहृदयाः पाशैर्भल्लैश्च पातिताः ॥ २६॥
केचिद्विदारिताः पृष्ठे कुन्तैरृष्टिभिरङ्कुशैः ।
छिन्नान्यपि शिरांस्येव पतितानि च भूतले ॥ २७॥