Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.६. षष्ठोऽध्यायः ।

कुमाराद्भुतचरित्रवर्णनम् ।

ब्रह्मोवाच अथ तत्र स गाङ्गेयो दर्शयामास सूतिकाम् ।

तामेव श‍ृणु सुप्रीत्या नारद त्वं स्वभक्तिदाम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 2

द्विज एको नारदाख्य आजगाम तदैव हि ।

तत्राध्वरकरः श्रीमान् शरणार्थं गुहस्य वै ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 3

स विप्रः प्राप्य निकटं कार्त्तिकस्य प्रसन्नधीः ।

स्वाभिप्रायं समाचख्यौ सुप्रणम्य शुभैः स्तवैः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 4

विप्र उवाच श‍ृणु स्वामिन्वचो मेऽद्य कष्टं मे विनिवारय ।

सर्वब्रह्माण्डनाथस्त्वमतस्ते शरणं गतः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 5

अजमेधाध्वरं कर्तुमारम्भं कृतवानहम् ।

सोऽजो गतो गृहान्मे हि त्रोटयित्वा स्वबन्धनम् ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 6

न जाने स गतः कुत्राऽन्वेषणं तत्कृतं बहु ।

न प्राप्तोऽतस्स बलवान् भङ्गो भवति मे क्रतोः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 7

त्वयि नाथे सति विभो यज्ञभङ्गः कथं भवेत् ।

विचार्य्यैवाऽखिलेशान कामं पूर्णं कुरुष्व मे ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 8

त्वां विहाय शरण्यं कं यायां शिवसुत प्रभो ।

सर्वब्रह्माण्डनाथं हि सर्वामरसुसेवितम् ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 9

दीनबन्धुर्दयासिन्धुः सुसेव्यो भक्तवत्सलः ।

हरिब्रह्मादिदेवैश्च सुस्तुतः परमेश्वरः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 10

पार्वतीनन्दनस्स्कन्दः परमेकः परन्तपः ।

परमात्माऽत्मदः स्वामी सतां च शरणार्थिनाम् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 11

दीनानाथ महेश शङ्करसुत त्रैलोक्यनाथ प्रभो मायाधीश समागतोऽस्मि शरणं मां पाहि विप्रप्रिय ।

त्वं सर्वप्रभुरानताऽखिलविदब्रह्मादिदेवैः स्तुतः त्वं मायाकृतिरात्मभक्तसुखदो रक्षापरो मायिकः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 12

भक्तप्राणगुणाकरस्त्रिगुणतो भिन्नोऽसि शम्भुप्रियः शम्भुः शम्भुसुतः प्रसन्नसुखदः सच्चित्स्वरूपो महान् ।

सर्वज्ञस्त्रिपुरघ्नशङ्करसुतः सत्प्रेमवश्यःसदा षड्वक्त्रः प्रियसाधुरानतप्रियः सर्वेश्वरः शङ्करः ।

साधुद्रोहकरघ्न शङ्करगुरो ब्रह्माण्डनाथो प्रभुः सर्वेषाममरादिसेवितपदो मां पाहि सेवाप्रिय ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 13

वैरिभयङ्कर शङ्कर जनशरणस्य वन्दे तव पदपद्मं सुखकरणस्य ।

विज्ञप्तिं मम कर्णे स्कन्द निधेहि निजभक्तिं जनचेतसि सदा विधेहि ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 14

करोति किं तस्य बली विपक्षो दक्षोऽपि पक्षोभयपार्श्वगुप्तः ।

किं तक्षकोऽप्यामिषभक्षको वा त्वं रक्षको यस्य सदक्षमानः ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 15

विबुधगुरुरपि त्वां स्तोतुमीशो न हि स्यात् कथय कथमहं स्यां मन्दबुद्धिर्वरार्च्यः ।

शुचिरशुचिरनार्यो यादृशस्तादृशो वा पदकमलपरागं स्कन्द ते प्रार्थयामि ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 16

हे सर्वेश्वर भक्तवत्सल कृपा-सिन्धो त्वदीयोऽस्म्यहं भृत्यः स्वस्य न सेवकस्य गणप-स्यागःशतं सत्प्रभो ।

भक्तिं क्वापि कृतां मनागपि विभो जानासि भृत्यार्तिहा त्वत्तो नास्त्यपरोऽविता न भगवन् मत्तो नरः पामरः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 17

कल्याणकर्त्ता कलिकल्मषघ्नः कुबेरबन्धुः करुणार्द्रचित्तः ।

त्रिषट्कनेत्रो रसवक्त्रशोभी यज्ञं प्रपूर्णं कुरु मे गुह त्वम् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 18

रक्षकस्त्वं त्रिलोकस्य शरणागतवत्सलः ।

यज्ञकर्त्ता यज्ञभर्त्ता हरसे विघ्नकारिणाम् ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 19

विघ्नवारण साधूनां सर्ग कारण सर्वतः ।

पूर्णं कुरु ममेशान सुतयज्ञ नमोस्तु ते ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 20

सर्वत्राता स्कन्द हि त्वं सर्वज्ञाता त्वमेव हि ।

सर्वेश्वरस्त्वमीशानो निवेशसकलाऽवनः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 21

सङ्गीतज्ञस्त्वमेवासि वेदविज्ञः परः प्रभुः ।

सर्वस्थाता विधाता त्वं देवदेवः सतां गतिः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 22

भवानीनन्दनः शम्भुतनयो वयुनः स्वराट् ।

ध्याता ध्येयः पितॄणां हि पिता योनिः सदात्मनाम् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 23

ब्रह्मोवाच इत्याकर्ण्य वचस्तस्य देवसम्राट् शिवात्मजः ।

स्वगणं वीरबाह्वाख्यं प्रेषयामास तत्कृते ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 24

तदाज्ञया वीरबाहुस्तदन्वेषणहेतवे ।

प्रणम्य स्वामिनं भक्त्या महावीरो द्रुतं ययौ ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 25

अन्वेषणं चकारासौ सर्वब्रह्माण्डगोलके ।

न प्राप तमजं कुत्र शुश्राव तदुपद्रवम् ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 26

जगामाऽथ स वैकुण्ठं तत्राऽजं प्रददर्श तम् ।

उपद्रवं प्रकुर्वन्तं गलयूपं महाबलम् ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 6: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराद्भुतचरितवर्णनं, Verse 27

धृत्वा तं श‍ृङ्गयोर्वीरो धर्षयित्वातिवेगतः ।

आनिनाय स्वामिपुरो विकुर्वन्तं रवं बहु ॥ २७॥