२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 5: रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराभिषेकवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.५. पञ्चमोऽध्यायः ।
देवकृतकुमाराभिषेकः ।
ब्रह्मोवाच एतस्मिन्नन्तरे तत्र ददर्श रथमुत्तमम् ।
अद्भुतं शोभितं शश्वद्विश्वकर्मविनिर्मितम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् ।
प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
समारोहत्ततोऽनन्तो हृदयेन विदूयता ।
कार्त्तिकः परमज्ञानी परमेशानवीर्यजः ॥ ३॥
तदैव कृत्तिकाः प्राप्य मुक्तकेश्यः शुचाऽऽतुराः ।
उन्मत्ता इव तत्रैव वक्तुमारेभिरे वचः ॥ ४॥
कृत्तिका ऊचुः ।
विहायाऽस्मान् कृपासिन्धो गच्छसि त्वं हि निर्दयः ।
नायं धर्मो मातृवर्गान् पालितो यत् सुतस्त्यजेत् ॥ ५॥
स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं च धर्मतः ।
किं कुर्मः क्व च यास्यामो वयं किं करवाम ह ॥ ६॥
इत्युक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि कार्त्तिकम् ।
द्रुतं मूर्च्छामवापुस्ताःसुतविच्छेदकारणात् ॥ ७॥
ताः कुमारो बोधयित्वा अध्यात्मवचनेन वै ।
ताभिश्च पार्षदैः सार्द्धमारुरोह रथं मुने ॥ ८॥
दृष्ट्वा श्रुत्वा मङ्गलानि बहूनि सुखदानि वै ।
कुमारः पार्षदैः सार्द्धं जगाम पितृमन्दिरम् ॥ ९॥
दक्षेण नन्दियुक्तश्च मनोयायिरथेन च ।
कुमारः प्राप कैलासं न्यग्रोधाऽक्षयमूलके ॥ १०॥
तत्र तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह ।
कुमारः शाङ्करिः प्रीतो नानालीलाविशारदः ॥ ११॥
तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः ।
विष्णुना ब्रह्मणा सार्द्धं समाचख्युस्तदागमम् ॥ १२॥
तदा दृष्ट्वा च गाङ्गेयं ययौ प्रमुदितश्शिवः ।
अन्यैः समेतो हरिणा ब्रह्मणा च सुरर्षिभिः । १३॥
शङ्खाश्च बहवो नेदुर्भेरी तूर्याण्यनेकशः ।
उत्सवः सुमहानासीद्देवानां तुष्टचेतसाम् ॥ १४॥
तदानीमेव तं सर्वे वीरभद्रादयो गणाः ।
कुर्वन्तः स्वन्वयुः केलिं नानातालधरस्वराः ॥ १५॥
स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्त्तनम् ।
जयशब्दं नमश्शब्दं कुर्वाणाः प्रीतमानसाः ॥ १६॥
द्रष्टुं ययुस्तं शरजं शिवात्मजमनुत्तमम् । १७॥
पार्वती मङ्गलं चक्रे राजमार्गं मनोहरम् ।
पद्मरागादिमणिभिः संस्कृतं परितः पुरम् ॥ १८॥
पतिपुत्रवतीभिश्च साध्वीभिः स्त्रीभिरन्विताः ।
लक्ष्म्यादित्रिंशद्देवीश्च पुरः कृत्वा समाययौ ॥ १९॥
रम्भाद्यप्सरसो दिव्याः सस्मिता वेषसंयुताः ।
सङ्गीतनर्तनपरा बभूवुश्च शिवाज्ञया ॥ २०॥
ये तं समीक्षयामासुर्गाङ्गेयं शङ्करोपमम् ।
ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रये ॥ २१॥
तत्तेजसा वृतं बालं तप्तचामीकरप्रभम् ।
ववन्दिरे द्रुतं सर्वे कुमारं सूर्यवर्चसम् ॥ २२॥
जहृषुर्विनतस्कन्धा नमश्शब्दरतास्तदा ।
परिवार्योपतस्थुस्ते वामदक्षिणमागताः ॥ २३॥
अहं विष्णुश्च शक्रश्च तथा देवादयोऽखिलाः ।
दण्डवत्पतिता भूमौ परिवार्य कुमारकम् ॥ २४॥
एतस्मिन्नन्तरे शम्भुर्गिरिजा च मुदान्विता ।
महोत्सवं समागम्य ददर्श तनयं मुदा ॥ २५॥
पुत्रं निरीक्ष्य च तदा जगदेकबन्धुः प्रीत्यान्वितः परमया परया भवान्या ।
स्नेहान्वितो भुजगभोगयुतो हि साक्षात् सर्वेश्वरः परिवृतः प्रमथैः परेशः ॥ २६॥
अथ शक्तिधरः स्कन्दो दृष्ट्वा तौ पार्वतीशिवौ ।
अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह ॥ २७॥